अध्याय २.१३, श्लोक ६१–७०
योग वशिष्ठ २.१३.६१–७० (शांत जीवन जीना, सार्थक अस्तित्व का सार है) श्रीवसिष्ठ उवाच । मातरीव परं यान्ति विषमाणि मृदूनि च। विश्वासमिह भूतानि सर्वाणि शमशालिनि ॥ ६१ ॥ न रसायनपानेन न लक्ष्म्यालिङ्गनेन च । तथा सुखमवाप्नोति शमेनान्तर्यथा मनः ॥ ६२ ॥ सर्वाधिव्याधिचलितं क्रान्तं तृष्णावरत्रया। मनः शमामृतासेकैः समाश्वासय राघव ॥ ६३ ॥ यत्करोषि यदश्नासि शमशीतलया धिया । तत्रातिस्वदते स्वादु नेतरत्तात मानसे ॥ ६४ ॥ शमामृतरसाच्छन्नं मनो यामेति निर्वृतिम् । छिन्नान्यपि तयाङ्गानि मन्ये रोहन्ति राघव ॥ ६५ ॥ न पिशाचा न रक्षांसि न दैत्या न च शत्रवः । न च व्याघ्रभुजङ्गा वा द्विषन्ति शमशालिनम् ॥ ६६ ॥ सुसंनद्धसमस्ताङ्गं प्रशमामृतवर्मणा। वेधयन्ति न दुःखानि शरा वज्रशिलामिव ॥ ६७ ॥ न तथा शोभते राजा अप्यन्तःपुरसंस्थितः। समया स्वच्छया बुद्ध्या यथोपशमशीलया ॥ ६८ ॥ प्राणात्प्रियतरं दृष्ट्वा तुष्टिमेति न वै जनः। यामायाति जनः शान्तिमवलोक्य शमाशयम् ॥ ६९ ॥ समया शमशालिन्या वृत्त्या यः साधु वर्तते । अभिनन्दितया लोके जीवतीह स नेतरः ॥ ७० ॥ महर्षि वशिष्ठ ने कहा: २.१३.६१: सभी प्राणी, चाहे कठिन परिस्थितियों में हों या सौम्य, उस...