Posts

Showing posts with the label ग्लानि

अध्याय ३.७२, श्लोक १–१४

 योगवशिष्ट ३.७२.१–१४ (ये श्लोक आध्यात्मिक अभ्यास में दृढ़ संकल्प की शक्ति सिखाते हैं) श्रीवसिष्ठ उवाच। सूची सा संभवद्वाणी चिन्तयित्वेत्यकम्पनम्। पुनस्तद्देहलाभाय भवाम्याशु तपस्विनी ॥ १॥ इति संचिन्त्य चित्तस्थं संहृत्य जनमारणम्। तदेव हिमवच्छृङ्गं जगाम तपसे स्थितम् ॥ २॥ अपश्यदेव सूचित्वं सा तन्मानसमात्मनि। प्राणवातात्मिका प्राणैः प्रविश्य हृतमानसम् ॥ ३॥ अथात्मन्येव सूचित्वं पश्यत्येव मनोमयम्। प्राणवातशरीरासौ जगाम हिमवच्छिरः ॥ ४॥ दृढदावानले तत्र सर्वभूतविवर्जिते। महामहाशिलाभाभारूक्षे पांसुविधूसरे ॥ ५॥ तस्थावभ्युदितेवासौ निस्तृणे विपुले स्थले। मरावकस्मात्संजातशुष्का तृणशिखा यथा ॥ ६॥ सुसूक्ष्मस्यैकपादस्य सार्धेनैवाश्रितोर्वरा। स्वसंविदेकपादात्म तपः कर्तुं प्रचक्रमे ॥ ७॥ सूक्ष्मपादतलेनैषा वसुधारेणुसंकटी। निवार्य त्रिपदीं कृत्स्नाद्यत्नेनोर्ध्वमुखी स्थिता ॥ ८॥ कृष्णत्वहिंस्रतातैक्ष्ण्यव्याप्तास्यपवनाशनैः। यत्नात्पदं निबध्नन्ती रेण्वणूपलसंकटे ॥ ९॥ अरण्ये क्षुभिता संपद्दूरालोकार्थमुत्थिताम्। पुच्छाकोटिस्थितां वातालोलामनुचकार सा ॥ १०॥ मुखरन्ध्रविनिष्क्रान्ता तस्या भास्करदीधितिः। सखी बभूव सूच...

अध्याय ३.७१, श्लोक १~४२

 योगवशिष्ट ३.७१.१~४२ (ये श्लोक शक्ति और शरीर की क्षणभंगुरता के बारे में सिखाते हैं) श्रीवसिष्ठ उवाच। अथ सा बहुकालेन कर्कटी नाम राक्षसी। सर्वेषां नरमांसानां नतु तृप्तिमुपाययौ ॥ १॥ पूर्वेणैव किलाह्ना सा तृप्ता रुधिरबिन्दुना। सूच्याः किमिव मात्यन्तस्तृष्णासूची सुदुर्भरा ॥ २॥ चिन्तयामास हा कष्टं किमहं सूचिता गता। सूक्ष्मास्मि हतशक्तिश्च अपि ग्रासो न माति च ॥ ३॥ क्व मे तानि विशालानि गतान्यङ्गानि दुर्धियः। कालमेघविशालानि वने शीर्णानि पर्णवत् ॥ ४॥ मय्यस्यां मन्दभाग्यायां मनागपि न माति हि। स्वादुमांसरसग्रासो वसावासित आसयन् ॥ ५॥ पङ्कान्तर्विनिमज्जामि पतामि धरणीतले। हस्तास्मि जनपादौघैः शुक्रेण मलिनास्मि च ॥ ६॥ (७–३६) हा नेत्रे कृष्णरजनीरजःशुष्केन्धनैजने। कस्मान्न मे भूषयतो दृग्ज्वालामालया दिश ॥ ३७॥ हा स्कन्ध बन्धो नष्टोऽसि निषिद्धोऽसि महीतले। कालेन विनिपिष्टोऽसि निघृष्टोऽसि शिलातले ॥ ३८॥ हा मुखेन्दो तपसि किं नाद्य त्वं मम रश्मिभिः। कल्पान्तदावसंशान्तचन्द्रबिम्बमनोहर ॥ ३९॥ हा हा हस्तौ महाकारौ तावद्य क्व गतौ मम। संपन्नास्मि महासूचिर्मक्षिकाखुरदोलिता ॥ ४०॥ हा भगोग्रकरञ्जाढ्यसत्कन्दश्वभ्रशोभन। व...