Posts

Showing posts with the label भ्रम

अध्याय ३.११४, श्लोक ४१–४८

योगवशिष्ट ३.११४.४१–४८ (अविद्या पर काबू बल से नहीं, बल्कि मन को उसके बारे में कल्पना करने से रोकने मात्र से होता है) श्रीवसिष्ठ उवाच। असंकल्पो ह्यविद्याया निग्रहः कथितो बुधैः। यथा गगनपद्मिन्याः स भाति सुकरः स्वयम् ॥ ४१॥ भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत्। अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ॥ ४२॥ नष्टोऽहमिति संकल्पाद्यथा दुःखेन नश्यति। प्रबुद्धोऽस्मीतिसंकल्पाज्जनो ह्येति यथा सुखम् ॥ ४३॥ तथा संमूढसंकल्पान्मूढतामेति वै मनः। प्रबोधोदारसंकल्पात्प्रबोधायानुधावति ॥ ४४॥ क्षणात्संस्मरणादेषा ह्यविद्योदेति शाश्वती। यस्माद्विस्मरणादन्तः परिणश्यति नश्वरी ॥ ४५॥ भावनी सर्वभावानां सर्वभूतविमोहिनी। भारिणी स्वात्मनो नाशे स्वात्मवृद्धौ विनाशिनी ॥ ४६॥ मनो यदनुसंधत्ते तत्सर्वेन्द्रियवृत्तयः। क्षणात्संपादयन्त्येता राजाज्ञामिव मन्त्रिणः ॥ ४७॥ तस्मान्मनोनुसंधानं भावेषु न करोति यः। अन्तश्चेतनयत्नेन स शान्तिमधिगच्छति ॥ ४८॥ महर्षि वशिष्ठ आगे बोले: ३.११४.४१–४८ > विद्वानों ने कहा है कि अविद्या का निग्रह केवल संकल्प का अभाव है। जैसे आकाश में कमल का निग्रह स्वयं ही सरल प्रतीत होता है। > इस संसारी भ्रम का, ...

अध्याय ३.११३, श्लोक ५१–५९

योगवशिष्ट ३.११३.५१–५९ (अवास्तविक मानसिक प्रवृत्ति साधारण धारणा को पूरी तरह विकृत कर देती है) श्रीवसिष्ठ उवाच। संध्यादिषु च कालेषु लोष्टपाषाणभित्तयः। अस्याः प्रसादात्दृश्यन्ते सर्पाजगरदृष्टिभिः ॥ ५१॥ एकोऽपि द्वितयोदेति यथा द्विशशिदर्शने। दूरमभ्याशतां याति स्वप्ने स्वमरणं यथा ॥ ५२॥ आदीर्घं क्षणतामेति कालस्येष्टा यथा निशा। क्षणो वर्षमिवाभाति कान्ताविरहिणामिव ॥ ५३॥ न तदस्तीह यन्नाम न करोतीयमुद्धता। अस्यास्त्वकिंचनायास्तु शक्ततां पश्य राघव ॥ ५४॥ संरोधयेत्प्रयत्नेन संविदेवाशु संविदम्। सरित्स्रोतोनिरोधेन शुष्यत्येषा मनोनदी ॥ ५५॥ श्रीराम उवाच। अविद्यमानयैवेदं पेलवांग्या सुतुच्छया। मिथ्याभावनया नाम चित्रमन्धीकृतं जगत् ॥ ५६॥ अरूपया निराकृत्या चारुचेतनहीनया। असत्येवाप्यनश्यन्त्या चित्रमन्धीकृतं जगत् ॥ ५७॥ आलोकेन विनश्यन्त्या स्फुरन्त्या तमसोन्तरे। कौशिकेक्षणधर्मिण्या चित्रमन्धीकृतं जगत् ॥ ५८॥ कुकर्मैकान्तकारिण्या न सहन्त्या विलोकनम्। देहमप्यविजानन्त्या चित्रमन्धीकृतं जगत् ॥ ५९॥ महर्षि वशिष्ठ बोले: ३.११३.५१–५५ > संध्या आदि समयों में मिट्टी के ढेले, पत्थर और दीवारें इस प्रवृत्ति की शक्ति से साँप...

अध्याय ३.११३, श्लोक ३१–३८

योगवशिष्ट ३.११३.३१–३८ (मानसिक प्रवृत्ति या कल्पना जो कर्तृत्व की भावना और संसार का आभास उत्पन्न करती है, स्वयं अवास्तविक है) श्रीवसिष्ठ उवाच। अस्याः स्वसत्तामात्रेण कर्तृतैतासु वृत्तिषु। दीपस्यालोककार्याणां यथा तद्वन्न वस्तुतः ॥ ३१॥ सनितम्बस्तनी चित्रे न स्त्री स्त्रीधर्मिणी यथा। तथैवाकारचिन्तेयं कर्तुं योग्या न किंचन ॥ ३२॥ मनोराज्यमिवाकारभासुरा सत्यवर्जिता। सहस्रशतशाखापि न किंचित्परमार्थतः ॥ ३३॥ अरण्ये मृगतृष्णेव मिथ्यैवाडम्बरान्विता। विडम्बयति तान्मुग्धमृगानेव न मानुषान् ॥ ३४॥ फेनमालेव संजातध्वस्ता विच्छेदवर्जिता। जडेव चञ्चलाकारा गृह्यमाणा न किंचन ॥ ३५॥ अटत्युड्डामराकारा रजःप्रसरधूसरा। बलात्कल्पान्तवात्येव स्वाक्रान्तभुवनान्तरा ॥ ३६॥ धूमालीवाङ्गसंलग्ना दाहखेदप्रदायिनी। गर्भीकृतरसाक्रम्य जगन्ति परिवर्तते ॥ ३७॥ धारा जलधरस्येव सुदीर्घा जलनिर्मिता। असारसंसारदृढा रज्जुस्तृणगणैरिव ॥ ३८॥ महर्षि वशिष्ठ आगे बोले: ३.११३.३१–३८ > अपने मात्र होने से ही यह मानसिक प्रवृत्ति इन सब मानसिक क्रियाओं की कर्ता लगती है, ठीक जैसे दीपक अपनी रोशनी से होने वाले कामों का कर्ता लगता है; पर वास्तव में वह कर्त...

अध्याय ३.११२, श्लोक १०–१९

योगवशिष्ट ३.११२.१०–१९ (चंचल मन एक शक्तिशाली राक्षस के समान है जो अनियंत्रित उठने पर गहरा दुख पैदा करता है) श्रीवसिष्ठ उवाच। दुःखमुत्पादयत्युच्चेरुत्थितश्चित्तराक्षसः। सुखायानन्तभोगाय तं प्रयत्नेन पातय ॥ १०॥ तस्य चञ्चलता यैषा त्वविद्या राम सोच्यते। वासनापदनाम्नीं तां विचारेण विनाशय ॥ ११॥ अविद्यया वासनया तयान्तश्चित्तसत्तया। विलीनया त्यागवशात्परं श्रेयोऽधिगम्यते ॥ १२॥ यत्तत्सदसतोर्मध्यं यन्मध्यं चित्त्वजाड्ययोः। तन्मनः प्रोच्यते राम द्वयोर्दोलायिताकृति ॥ १३॥ जाड्यानुसंधानहतं जाड्यात्मकतयेद्धया। चेतो जडत्वमायाति दृढाभ्यासवशेन हि ॥ १४॥ विवेकैकानुसंधानाच्चिदंशात्मतया मनः। चिदेकतामुपायाति दृढाभ्यासवशादिह ॥ १५॥ पौरुषेण प्रयत्नेन यस्मिन्नेव पदे मनः। पात्यते तत्पदं प्राप्य भवत्यभ्यासतो हि तत् ॥ १६॥ पुनः पौरुषमाश्रित्य चित्तमाक्रम्य चेतसा। विशोकं पदमाश्रित्य निराशङ्कः स्थिरो भव ॥ १७॥ भवभावनया मग्नं मनसैव न चेन्मनः। बलादुत्तार्यते राम तदुपायोऽस्ति नेतरः ॥ १८॥ मन एव समर्थं वो मनसो दृढनिग्रहे। अराजा कः समर्थः स्याद्राज्ञो राघव निग्रहे ॥ १९॥ महर्षि वशिष्ठ आगे बोले: ३.११२.१०–१४ > जब मन रूपी राक्षस...

अध्याय ३.१११, श्लोक ३९–४६

योगवशिष्ट ३.१११.३९–४६ (जीवन की सभी भयानक कठिनाइयाँ और भ्रम केवल मन की अपनी कल्पनाओं से पैदा होते हैं) श्रीवसिष्ठ उवाच। भीमाः संभ्रमदायिन्यः संकल्पकदनादिमाः। विपदः संप्रसूयन्ते मृगतृष्णा मराविव ॥ ३९॥ कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः। तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥ ४०॥ मनोबीजात्समुद्यन्ति सुखदुःखे शुभाशुभे। संसारखण्डका एते लोकसप्तकपल्लवाः ॥ ४१॥ असंकल्पनमात्रैकसाध्ये सकलसिद्धिदे। असंकल्पनसाम्राज्ये तिष्ठावष्टब्धतत्पदः ॥ ४२॥ प्रयच्छत्युत्तमानन्दं क्षीयमाणं मनः क्रमात्। काष्ठक्षीणाङ्गकाङ्गारो यथाङ्गारक्षयार्थिनः ॥ ४३॥ अपि ब्रह्मकुटीलक्षं मनसश्चेत्समीहितम्। तदणोरन्तरे व्यक्तं विभक्तं परिदृश्यते ॥ ४४॥ संकल्पमात्रविभवेन कृतात्यनर्थं संकल्पमात्रविभवेन सुसाधितार्थम्। संतोषमात्रविभवेन मनो विजित्य नित्योदितेन जयमेहि निरीप्सितेन ॥ ४५॥ परमपावनया विमनस्तया समतया मतयात्मविदामपि। शमितया मितयान्तरहंतया यदवशिष्टमजं पदमस्तु तत् ॥ ४६॥ महर्षि वशिष्ठ बोले: ३.१११.३९–४६ > भयानक विपत्तियाँ जो घबराहट पैदा करती हैं और सबसे पहले मन की कल्पना से जन्म लेती हैं, उसी तरह उठती हैं जैसे रेगिस्त...

अध्याय ३.१११, श्लोक ३०–३८

योगवशिष्ट ३.१११.३०–३८ (कोई भी शिक्षा, शास्त्र या बाहरी उपाय स्थायी शांति या मुक्ति नहीं ला सकता जब तक पहले मन स्वयं शांत न हो जाए) श्रीवसिष्ठ उवाच। सति पथ्ये तते शुभ्रे चित्तोपशमनादृते। तिर्यगूर्ध्वमधस्ताच्च भूयोभूयो विचारितम् ॥ ३०॥ यावन्नास्ति किलोपायश्चित्तोपशमनादृते। ऋते तथ्ये तते शुभ्रे बोधे हृद्युदिते सति ॥ ३१॥ मनोविलयमात्रेण विश्रान्तिरुपजायते। व्यायते हृदयाकाशे चिति चिच्चक्रधारया ॥ ३२॥ मनो मारय निःशङ्कं त्वां प्रबध्नन्ति नाधयः। यदि रम्यमरम्यत्वे त्वया संविदितं विदा ॥ ३३॥ छिन्नान्येव तदाङ्गानि चित्तस्येति मतिर्मम। अयं सोऽहमिदं तन्म एतावन्मात्रकं मनः ॥ ३४॥ तदभावनमात्रेण दात्रेणेव विलूयते। छिन्नाभ्रमण्डलं व्योम्नि यथा शरदि धूयते ॥ ३५॥ वातेनाकल्पनेनैवं तथा तद्धूयते मनः। भवन्ति यत्र शस्त्राग्निपवनास्तत्र भीर्भवेत् ॥ ३६॥ स्वायते मृदुनि स्वच्छे किमसंकल्पने भयम्। इदं श्रेय इद नेति सिद्धमाबालमक्षतम् ॥ ३७॥ बालं पुत्रमिवोदारे मनः श्रेयसि योजयेत् । अक्षयं चानवं चेतःसिंहं संसृतिबृंहणम्। घ्नन्ति ये ते जयन्तीह निर्वाणपददायिनः ॥ ३८॥ महर्षि वशिष्ठ आगे बोले: ३.१११.३०–३८ > जब उचित, विस्तृत और श...

अध्याय ३.१११, श्लोक ११–२०

योगवशिष्ट ३.१११.११–२० (केवल अपने मन को जीतना है, और यह काम संभव भी है और पास भी) श्रीवसिष्ठ उवाच। स्वायत्तं च सुसाध्यं च स्वचित्ताक्रान्तिमात्रकम्। शक्नुवन्ति न ये कर्तुं धिक्तान्पुरुषजम्बुकान् ॥ ११॥ स्वपौरुषैकसाध्येन स्वेप्सितत्यागरूपिणा। मनःप्रशममात्रेण विना नास्ति शुभा गतिः ॥ १२॥ मनोमारणमात्रेण साध्येन स्वात्मसंविदा। निःसपत्नमनाद्यन्तमनिङ्गनमिहोच्यताम् ॥ १३॥ ईप्सितावेदनाख्यात्तु मनःप्रशमनादृते। गुरूपदेशशास्त्रार्थमन्त्राद्या युक्तयस्तृणम् ॥ १४॥ सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तदा। असंकल्पनशस्त्रेण च्छिन्नं चित्तं गतं यदा ॥ १५॥ स्वसंवेदनसाध्येऽस्मिन्संकल्पानर्थशासने। शान्तायामत्र वपुषि पुंसः कैव कदर्थना ॥ १६॥ नूनं दैवमनादृत्य मूढसंकल्पकल्पितम्। पुरुषार्थेन संवित्त्या नय चित्तमचित्तताम् ॥ १७॥ तां महापदवीमेकां कामप्यधिगतं चिरम्। चित्तं चिद्भक्षितं कृत्वा चित्तादपि परो भव ॥ १८॥ भव भावनया युक्तो युक्तः परमया धिया। धारयात्मानमव्यग्रो ग्रस्तचित्तं ततः परम् ॥ १९॥ परं पौरुषमाश्रित्य नीत्वा चित्तमचित्तताम्। तां महापदवीमेहि यत्र नाशो न विद्यते ॥ २०॥ महर्षि वसिष्ठ ने कहा:  ३.१११.११–१४ ...

अध्याय ३.१११, श्लोक १–१०

योगवशिष्ट ३.१११.१–१० (मन  दुख का कारण बनता है, फिर भी  इसका विश्वसनीय, सुखद और पूर्णतः स्व-निर्भर उपचार उपलब्ध है) श्रीवसिष्ठ उवाच। अस्य चित्तमहाव्याधेश्चिकित्साया महौषधम्। स्वायत्तं श्रृणु वक्ष्यामि साधु सुस्वादु निश्चितम् ॥ १॥ स्वेनैव पौरुषेणाशु स्वसंवेदनरूपिणा। यत्नेन चित्तवेतालस्त्यक्त्वेष्टं वस्तु जीयते ॥ २॥ त्यजन्नभिमतं वस्तु यस्तिष्ठति निरामयः। जितमेव मनस्तेन कुदन्त इव दन्तिना ॥ ३॥ स्वसंवेदनयत्नेन पाल्यते चित्तबालकः। अवस्तुतो वस्तुनि च योज्यते बोध्यतेऽपि च ॥ ४॥ शास्रसत्सङ्गधीरेण चिन्तातप्तमतापिना। छिन्धि त्वमायसेनायो मनसैव मनो मुने ॥ ५॥ अयत्नेन यथा बाल इतश्चेतश्च योज्यते। भावैस्तथैव चेतोन्तः किमिवात्रास्ति दुष्करम् ॥ ६॥ सत्कर्मणि समाक्रान्तमुदर्कोदयदायिनि। स्वपौरुषेणैव मनश्चेतनेन नियोजयेत् ॥ ७॥ स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम्। यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् ॥ ८॥ अरम्यं रम्यरूपेण भावयित्वा स्वसंविदा। मल्लेनेव शिशुश्चित्तमयत्नेनैव जीयते ॥ ९॥ पौरुषेण प्रयत्नेन चित्तमाश्वेव जीयते। अचित्तेनाप्रयत्नेन पदं ब्रह्मणि दीयते ॥ १०॥ महर्षि वसिष्ठ ने कहा:  ३.१११...

अध्याय ३.११०, श्लोक ६०–६७

योगवशिष्ट ३.११०.६०–६७ (मनुष्य शरीर नहीं है। शांति, उत्साह, आनंद और बेचैनी, सब मन की हलचलें हैं) श्रीवसिष्ठ उवाच। प्रशाम्यत्युल्लसत्येति याति नन्दति वल्गति। मनःशरीरसंकल्पे फलिते न शरीरकम् ॥ ६०॥ नानास्फारसमुल्लासैः स्वसंकल्पोपकल्पितैः। मनो वल्गति देहेऽस्मिन्साध्वीवान्तःपुराजिरे ॥ ६१॥ चापले प्रसरस्तस्मादन्तर्येन नदीयते। मनोविलयमादत्ते तस्यालान इव द्विपः ॥ ६२॥ न स्पन्दते मनो यस्य शस्त्रस्तम्भ इवोत्तमः। सद्वस्तुतोऽसौ पुरुषः शिष्टाः कर्दमकीटकाः ॥ ६३॥ यस्याचपलतां यातं मन एकत्र संस्थितम्। अनुत्तमपदेनासौ ध्यानेनानुगतोऽनघ ॥ ६४॥ संयमान्मनसः शान्तिमेति संसारविभ्रमः। मन्दरेऽस्पन्दतां याते यथा क्षीरमहार्णवः ॥ ६५॥ मानस्यो वृत्तयो या या भोगसंकल्पविभ्रभैः। संसारविषवृक्षस्य ता एवाङ्कुरयोनयः ॥ ६६॥ चित्तं चलत्कुवलयं वलयन्त एते मूढा महाजडजवे मदमोहमन्दाः। आवर्तवर्तिनि विलूनविशीर्णचिन्ताचक्रभ्रमे पुरुषदुर्भ्रमराः पतन्ति ॥ ६७॥ महर्षि श्रीवसिष्ठ ने कहा:  ३.११०.६०–६७ > मन कभी शांत होता है, फिर उठता है। वह जाता है, आनंद मनाता है, और उछलता है। यह सब तब होता है जब मन का शरीर का विचार फल देता है। शरीर स्वयं ...

अध्याय ३.११०, श्लोक ५१–५९

योगवशिष्ट ३.११०.५१–५९ (मन कोई स्थिर वस्तु नहीं, बल्कि निर्माण करने की शुद्ध शक्ति है) श्रीवसिष्ठ उवाच। यद्यत्संवेद्यते किंचित्तेन तेनाशु भूयते। मनो मनननिर्माणं यथेच्छसि तथा कुरु ॥ ५१॥ नानापुरसरिच्छैलरूपतामेत्य देहिनाम्। तनोत्यन्तःस्थमेवेदं जाग्रत्स्वप्नमयं मनः ॥ ५२॥ सुरत्वाद्दैत्यतामेत्य नागत्वान्नगतामपि। प्रतिभासवशाच्चित्तमापन्नं लवणो यथा ॥ ५३॥ नरत्वादेति नारीत्वं पितृत्वात्पुत्रतां गतः। यथा क्षिप्रं प्रति नरः स्वसंकल्पात्तथा मनः ॥ ५४॥ संकल्पतः प्रम्रियते संकल्पाज्जायते पुनः। मनश्चिरन्तनाभ्यस्ताज्जीवतामेत्यनाकृति ॥ ५५॥ मनो मननसंमूढमूढवासनमाततम्। संकल्पाद्योनिमायाति सुखदुःखे भयाभये ॥ ५६॥ सुखं दुःखं च मनसि तिले तैलमिव स्थितम्। तद्देशकालवशतो घनं वा तनु वा भवेत् ॥ ५७॥ तैलं तिलस्य चाक्रान्त्या स्फुटतामेति शाश्वतीम्। चेतसो मननासंगाद्घनीभूते सुखासुखे ॥ ५८॥ देशकालाभिधानेन राम संकल्प एव हि। कथ्यते तद्वशाद्यस्माद्देशकालौ स्थितिं गतौ ॥ ५९॥ महर्षि वशिष्ठ आगे बोले: ३.११०.५१–५९ > मन जो कुछ भी जानता या अनुभव करता है, वह उसी चीज़ के रूप में तुरंत बदल जाता है। मन अपनी सोच से ही खुद को गढ़ता है; इसल...

अध्याय ३.११०, श्लोक ३८–५०

योगवशिष्ट ३.११०.३८–५० (मन ही संसार के प्रत्येक अनुभव का रचयिता और धारक है) श्रीवसिष्ठ उवाच। कुसुमोल्लासिधम्मिल्ला हेलाचलितलोचना। काष्ठकुड्योपमाङ्गेषु लग्नाप्यमनसोऽङ्गना ॥ ३८॥ मनस्यन्यत्र संसक्ते वीतरागेण कानने। क्रव्यादचर्वितोऽङ्कस्थः स्वकरोऽपि न लक्षितः ॥ ३९॥ सुखीकर्तुं सुदुःखानि दुःखीकर्तुं सुखानि च। सुखेनैवाशु युज्यन्ते मनसोऽतिशया मुनेः ॥ ४०॥ मनस्यन्यत्र संसक्ते कथ्यमानापि यत्नतः। लता परशुकृत्तेव कथा विच्छिद्यते बत ॥ ४१॥ मनस्यद्रितटारूढे गृहस्थेनापि जन्तुना। शुभ्राभ्रकन्दरभ्रान्तिदुःखं समनुभूयते ॥ ४२॥ मनस्युल्लसिते स्वप्ने हृद्येव पुरपर्वताः। आकाश इव विस्तीर्णे दृश्यन्ते निर्मिताः क्षमाः ॥ ४३॥ मनो विलुलिते स्वप्ने हृद्येवाद्रिपुरावलिम्। तनोति चलिताम्भोधिर्वीचीचयमिवात्मनि ॥ ४४॥ अन्तरब्धिजलाद्यद्वत्तरङ्गापीडवीचयः। देहान्तर्मनसस्तद्वत्स्वप्नाद्रिपुरराजयः ॥ ४५॥ अङ्कुरस्य यथा पत्रलतापुष्पफलश्रियः। मनसोऽस्य तथा जाग्रत्स्वप्नविभ्रमभूमयः ॥ ४६॥ व्यतिरिक्ता यथा हेम्नो न हेमवनिता तथा। जाग्रत्स्वप्नक्रियालक्ष्मीर्व्यतिरिक्ता न चेतसः ॥ ४७॥ धाराकणोर्मिफेनश्रीर्यथा संलक्ष्यतेऽम्भसः। तथा विचित्रविभ...

अध्याय ३.११०.२५–३७

योगवशिष्ट ३.११०.२५–३७ (जीवन पर सच्ची विजय मन पर विजय से शुरू होती है) श्रीवसिष्ठ उवाच। जिते मनसि सर्वैव विजिता चेन्द्रियावलिः। शीर्यते च यथा तन्तौ दग्धे मौक्तिकमालिका ॥ २५॥ सर्वत्र स्थितया स्वच्छरूपया निर्विकारया। समया सूक्ष्मया नित्यं चिच्छक्त्या साक्षिभूतया ॥ २६॥ सर्वभावानुगतया न चेत्यार्थविभिन्नया। रामात्मसत्तया मूकमपि देहसमं जडम् ॥ २७॥ मनोऽन्तश्चलति व्यर्थं मननैषणमुह्यया। बहिर्गिरिसरिद्व्योमसमुद्रपुरलीलया ॥ २८॥ जाग्रच्चाभिमतं वस्तु नयत्यमृतमृष्टताम्। अनीहितं च विषतां नयत्यमृतमप्यलम् ॥ २९॥ अमृष्टसर्वभावानामलमात्मचमत्कृतिम्। मनः स्वाभिमताकारं रूपं सृजति वस्तुषु ॥ ३०॥ स्पन्देषु वायुतामेति प्रकाशेषु प्रकाशताम्। द्रवेषु द्रवतामेति चिच्छक्तिस्फुरितं मनः ॥ ३१॥ पृथ्व्यां कठिनतामेति शून्यतां शून्यदृष्टिषु। सर्वत्रेच्छास्थितिं याति चिच्छक्तिस्फुरितं मनः ॥ ३२॥ शुक्लं कृष्णीकरोत्येव कृष्णं नयति शुक्लताम्। विनैव देशकालाभ्यां शक्तिं पश्यास्य चेतसः ॥ ३३॥ मनस्यन्यत्र संसक्ते चर्वितस्यापि जिह्वया। भोजनस्यापि मृष्टस्य न स्वादोऽस्यानुभूयते ॥ ३४॥ यच्चित्तदृष्टं तद्दृष्टं न दृष्टं तदलोकितम्। अन्धकारे य...

अध्याय ३.११०, श्लोक १२–२४

योगवशिष्ट ३.११०.१२–२४ (मनुष्य का वास्तविक स्वरूप शरीर नहीं बल्कि मन है) श्रीवसिष्ठ उवाच। येन च्छिन्ना विचारेण जीवस्य ज्ञेयवासना। निरभ्रस्येव सूर्यस्य तस्यालोको विराजते ॥ १२॥ अतस्त्वं मन एवेदं नरं विद्धि न देहकम्। जडो देहो मनश्चात्र न जडं नाजडं विदुः ॥ १३॥ यत्कृतं मनसा तात तत्कृतं विद्धि राघव। यत्त्यक्तं मनसा तावत्तत्त्यक्तं विद्धि चानघ ॥ १४॥ मनोमात्रं जगत्कृत्स्नं मनः पर्यन्तमण्डलम्। मनो व्योम मनो भूमिर्मनो वायुर्मनो महान् ॥ १५॥ मनो यदि पदार्थे तु तद्भावेन न योजयेत्। ततः सूर्योदयेऽप्येते न प्रकाशाः कदाचन ॥ १६॥ मनो मोहमुपादत्ते यस्यासौ मूढ उच्यते। शरीरे मोहमापन्ने न शवो मूढ उच्यते ॥ १७॥ मनः पश्य भवत्यक्षि श्रृण्वच्छ्रवणतां गतम्। त्वग्भावं स्पर्शनादेति घ्राणतामेति जिघ्रणात् ॥ १८॥ रसनाद्रसतामेति विचित्रास्तत्र वृत्तिषु। नाटके नूटवद्देहे मन एवानुवर्तते ॥ १९॥ लघु दीर्घं करोत्येव सत्येऽसत्तां प्रयच्छति। कटुतां नयति स्वादु रिपुं नयति मित्रताम् ॥ २०॥ य एव प्रतिभासोऽस्य चेतसो वृत्तिवर्तिनः। ततस्तदेव प्रत्यक्षं तथात्रानुभवादिह ॥ २१॥ प्रतिभासवशादेव स्वप्नाकुलितचेतसः। हरिश्चन्द्रस्य संपन्ना रात्रि...

अध्याय ३.१०९, श्लोक २०–३१

योगवशिष्ट ३.१०९.२०–३१ (ये श्लोक राजा की लंबी विपत्ति का अचानक अंत प्रस्तुत करते हैं) राजोवाच। तस्यां तु यावदात्मानं चितायां निक्षिपाम्यहम्। चलितोऽस्मि जवात्तावदस्मात्सिंहासनान्नृपः ॥ २०॥ ततस्तूर्यनिनादेन जयशब्देन बोधितः। इति शाम्बरिकेणायं मोह उत्पादितो मम ॥ २१॥ अज्ञानेनेव जीवस्य दशाशतसमन्वितः। इत्युक्तवति राजेन्द्रे लवणे भूरितेजसि ॥ २२॥ अन्तर्धानं जगामाशु तत्र शाम्बरिकः क्षणात्। अथेदमूचुस्ते सभ्या विस्मयोत्फुल्ललोचनाः ॥ २३॥ नायं शाम्बरिको देव यस्य नास्ति धनैषणा। दैवी काचन मायेयं संसारस्थितिबोधिनी ॥ २४॥ मनोविलासः संसार इति यस्यां प्रतीयते। सर्वशक्तेरनन्तस्य विलासो हि मनोजगत् ॥ २५॥ सर्वशक्तेर्विचित्रा हि शक्तयः शतशो विधेः। यद्विवेकि मनोऽप्येष विमोहयति मायया ॥ २६॥ विज्ञातलोकवृत्तान्तः क्व नामायं महीपतिः। क्व सामान्यमनोवृत्तियोग्यो विपुलसंभ्रमः ॥ २७॥ न च शाम्बरिकेच्छेयं माया मनसि मोहिनी। अर्थस्य सिद्ध्यै चेहन्ते नित्यं शाम्बरिकाः किल ॥ २८॥ यत्नेन प्रार्थयन्तेऽर्थं नान्तर्धानं व्रजन्ति भो। इति संदेहवेलायां संस्थिता लुलिता वयम् ॥ २९॥ श्रीवसिष्ठ उवाच। सभायामवसं तस्यामहं राम तदा किल। तेन प्रत्...

अध्याय ३.१०९, श्लोक १~१९

योगवशिष्ट ३.१०९.१~१९ (ये श्लोक अत्यंत विपत्ति में मानव दुःख की गहराई दिखाते हैं) राजोवाच। तस्मिंस्तदा वर्तमाने कष्टे विधिविपर्यये। अकालोल्वणकल्पान्ते नितान्तं तापदायिनि ॥ १॥ जनाः केचन निष्क्रम्य सकलत्रसुहृज्जनाः। गता देशान्तरं व्योम्नः शरदीव पयोधराः ॥ २॥ देहावयवसंलीनपुत्रदाराग्र्यबन्धवः। शीर्णाः केचन तत्रैव च्छिन्ना इव वने द्रुमाः ॥ ३॥ भक्ताः केचन च व्याघ्रैर्निर्गतास्तु स्वमन्दिरात्। अजातपक्षकाः श्येनैः खगा नीडोद्गता इव ॥ ४॥ प्रविष्टाः केचिदनलं ज्वलितं शलभा इव। केचिच्श्वभ्रेषु पतिताः शिला शैलच्युता इव ॥ ५॥ (३.१०९.६–१४) अथ वात्सल्यमूढेन मया दुःखातिभारिणा। तस्योक्तं पुत्र मन्मांसं पक्वं संभुज्यतामिति ॥ १५॥ तदप्यङ्गीकृतं तेन देहीति वदता पुनः। मन्मांसभक्षणं क्षीणवृत्तिनाऽऽश्लेषवृत्तिना ॥ १६॥ सर्वदुःखापनोदाय स्नेहकारुण्यमोहिना। तस्य तामार्तिमालोक्य मया दुःखातिभारिणा ॥ १७॥ सोढुं तामापदं तीव्रामशक्तेन हतात्मना। मरणायातिमित्राय कृतोऽन्तर्निश्चयो मया ॥ १८॥ तत्र काष्ठानि संचित्य चितां रचितवानहम्। चिता चटचटास्फोटैः स्थिता मदभिकाङ्क्षिणी ॥ १९॥ राजा ने आगे कहा:  ३.१०९.१–५ > उस समय उस कठिन व...

अध्याय ३.१०७, श्लोक २५~४८

योगवशिष्ट ३.१०७.२५~४८ (ये श्लोक राजा के वन्य, क्रूर अस्तित्व में पूर्ण रूप से डूब जाने के चित्र को और गहरा करते हैं) राजोवाच। रौरवापतितेनेव तत्कालस्निग्धतां गतः। विन्ध्यकन्दरगुल्मानां बन्धुत्वमिव गच्छता ॥ २५॥ पुलिन्दवपुषा यत्र युक्तयोगैः समर्पिताः। तर्पिता लगुडाघातजितकौलेयरंहसा ॥ २६॥ पुत्रदाराः कदन्नेन ग्रामकान्धोचितेन च। धारासाररणत्पत्रशुष्कतालतले निशाः ॥ २७॥ नीता रणितदन्तेन सार्धं विपिनवानरैः। रोमभिः कोटिमुद्रोद्यैः शीतेनाध्युषितस्य मे ॥ २८॥ वर्षासु मुक्ताकणवद्धृता वानलविन्दवः। अजाजीमूतखण्डार्थं क्षुत्क्षुण्णक्षीणकुक्षिणा ॥ २९॥ कलत्रेण सहाटव्यां कृतः कलह आकुलः। वने रणितदन्तेन शीतकेकरचक्षुषा ॥ ३०॥ (३.१०७.३१–४४) ग्रीष्मे सोढा चलद्भूता वराहेण यथोर्वरा। बहुशोऽहं वनोत्थाग्निनिर्दग्धप्राणिमण्डलः ॥ ४५॥ कल्पाग्निभुक्तजगतः कालस्यानुगतिं गतः । लोभिलिङ्गो यथा रोगमनर्थानिव दुर्ग्रहः। प्रसूतास्तत्र मे दारा दुःखान्यथ सुखान्यपि ॥ ४६॥ नृपालपुत्रकेनैकतनयेन तदा मया। नीता नीरन्ध्रदोषेण षष्टिः कल्पसमाः समाः ॥ ४७॥ आक्रुष्टमुद्धुरतरं रुदितं विपत्सु भुक्तं कदन्नमुषितं हतपक्कणेषु। कालान्तरं बहु मयोपहतेन तत्...

अध्याय ३.१०७, श्लोक १~२४

योगवशिष्ट ३.१०७.१–१२ (राजा के अछूत जीवन में पूर्ण रूप से डूब जाने के आगे का वर्णन) राजोवाच। बहुनात्र किमुक्तेन सोत्सवावर्जिताशयः। तदाप्रभृति तत्राहं संपन्नः पुष्टपुल्कसः ॥ १॥ सप्तरात्रोत्सवस्यान्ते क्रमान्मासाष्टके गते। पुष्पिता सास्य संपन्ना स्थिता गर्भवती ततः ॥ २॥ प्रसूता दुःखदां कन्यां विपद्दुःखक्रियामिव। सा कन्या ववृधे शीघ्रं मूर्खचिन्तेव पीवरी ॥ ३॥ पुनः प्रसूता सा वर्षैस्त्रिभिः पुत्रमशोभनम्। अनर्थमिव दुर्बुद्धिराशापाशविधायकम् ॥ ४॥ (३.१०७.५–२०) अस्पृष्टेन जनैर्भुक्तं कुकलत्रवता मया। गृहीततेजःक्षतये बहुवक्रविकारिणा ॥ २१॥ मार्गाविकमिवात्मीयं विक्रीतं पण्यमन्यतः। प्राण्यङ्गवपुषस्तस्य प्रोत्कृत्त्योत्कृत्त्य पेशलः ॥ २२॥ आयसंपरि विक्रीता विन्ध्यपक्कणभूमिषु। जन्मान्तरसहस्रोत्थं स्वपापमिव वृद्धये ॥ २३॥ अविकीर्णमसत्कीर्णं चण्डालारामभूमिषु। दृष्टः कुद्दालको दृष्ट्या संध्यास्नेहविमुक्तया ॥ २४॥ राजा ने कहा:  ३.१०७.१–४ > यहाँ अधिक कहने की क्या आवश्यकता? उस समय से उत्सवों से आकर्षित चित्त वाला मैं वहाँ पुष्ट पुलकस (अछूत) बन गया। > सात रात के उत्सव के अन्त में, क्रम से आठ महीने बीत जा...

अध्याय ३.१०६, श्लोक ५२~७२

योगवशिष्ट ३.१०६.५२~७२ (राजा बताता है कि कैसे चरम परिस्थितियों के दबाव में उसने जाति, कुल-परम्परा और सामाजिक कर्तव्य के सभी विचारों को त्याग दिया) राजोवाच। अथोक्ता सा मया भर्ता भवामि तव सुव्रते। केनापदि विचार्यन्ते वर्णधर्मकुलक्रमाः ॥ ५२॥ ततस्तयौदनादर्धं मह्यमेकं समर्पितम्। माधव्येवामृतादर्धमिन्द्रायार्तिमहत्पुरा ॥ ५३॥ जम्बूफलरसः पीतः स भुक्तः पक्कणौदनः। विश्रान्तं च मया तत्र मोहापहृतचेतसा ॥ ५४॥ मां तत्रार्कमिवापूर्य सा प्रावृट् श्यामला गता। हस्तेन समुपादाय प्राणं बहिरिव स्थितम् ॥ ५५॥ दुराकृतिं दुरारम्भमाससाद भयप्रदम्। पितरं पीवराकारमवीचिमिव यातना ॥ ५६॥ तया मदनुषङ्गिण्या स्वार्थस्तस्मै निवेदितः। मातङ्गाय भ्रमर्येव निःस्वनेनालिलग्नया ॥ ५७॥ (३.१०६.५८–६७) अथ विश्रम्य चण्डालभोजनान्यजिनासने। संचितान्युपभुक्तानि दुष्कृतानीव भूरिशः ॥ ६८॥ अनन्तदुःखबीजानि न मनोज्ञतराण्यपि। तानि प्रणयवाक्यानि श्रुतान्यसुभगान्यलम् ॥ ६९॥ निरभ्राम्बरनक्षत्रे कस्मिंश्चिद्दिवसे ततः। तैस्तैरारम्भसंरम्भैस्तैर्वस्त्रविभवार्पणैः ॥ ७०॥ दत्ताप्यनेन सा मह्यं कुमारी भयदायिनी। सुकृष्णा कृष्णवर्णेन दुष्कृतेनेव यातना ॥ ७१॥ सरभसम...