अध्याय ३.१०८, श्लोक १~३०
योगवशिष्ट ३.१०८.१~३० (ये श्लोक राजा के बुढ़ापे और समय के बीतने के अनुभव का वर्णन करते हैं) राजोवाच। अथ गच्छति कालेऽत्र जराजर्जरितायुषि। तुषारपूर्णशष्पौघसमश्मश्रुभृते मयि ॥ १॥ कर्मवातापनुन्नेषु सरसेष्वरसेष्वपि। पतत्सु वासरौघेषु शीर्णपर्णगणेष्विव ॥ २॥ आजाविव शरौघेषु सुखदुःखेष्वनारतम्। कलहेष्वप्यकार्येषु चागच्छत्सु पतत्सु च ॥ ३॥ विकल्पकल्पनावर्तवर्तिनि द्विजगे जडे। समुद्र इव कल्लोलभरे भ्रमितचेतसि ॥ ४॥ चलच्चिन्ताचितं चक्रमारूढे भ्रान्त आत्मनि। प्रोह्यमाने तृण इव सावर्तं कालसागरे ॥ ५॥ (३.१०८.६–२५) नीलपत्रलताशङ्कापीत धूमघनच्छवि। भ्रमद्गृध्रनिगीर्णोग्रनभोभ्रान्तोल्मुकामिषम् ॥ २६॥ इतरेतरभिन्नाङ्गलोक विद्रवणाकुलम्। ज्वलिताग्निटणत्कारविदीर्णहृदयोदरम् ॥ २७॥ गर्तमारुतक्राङ्कारभीमदावाग्निवल्गनम्। भीताजगरफूत्कारपतदङ्गारपादपम् ॥ २८॥ सदकाण्डस्फुटद्देशं प्राप्य तच्छुष्ककोटरम्। द्वादशार्काग्निदग्धस्य जगतोऽनुकृतिं ययौ ॥ २९॥ ज्वलदनलजटालवृक्षखण्ड प्रसरमरुत्प्रसरावनुन्नलोकः। ज्वलनतपनभास्करात्मजानां रमणगृहानुकृतिं जगाम देशः ॥ ३०॥ राजा ने आगे कहा: ३.१०८.१–५ > तब यहाँ समय बीतते हुए, बुढ़ापे से मेरा आयु...