अध्याय २.५, श्लोक १–९
योग वशिष्ठ २.५.१–९ (सकारात्मक इरादे में निहित सर्वोच्च प्रयास पर जोर देते हुए) श्रीवसिष्ठ उवाच । प्रवृत्तिरेव प्रथमं यथाशास्त्रविहारिणाम्। प्रभेव वर्णभेदानां साधनी सर्वकर्मणाम् ॥ १ ॥ मनसा वाञ्छते यच्च यथाशास्त्रं न कर्मणा । साध्यते मत्तलीलासौ मोहनी नार्थसाधनी ॥ २ ॥ यथा संयतते येन तथा तेनानुभूयते । स्वकर्मैवेति चास्तेऽन्या व्यतिरिक्ता न दैवदृक् ॥ ३ ॥ उच्छास्त्रं शास्त्रितं चेति द्विविधं पौरुषं स्मृतम् । तत्रोच्छास्त्रमनर्थाय परमार्थाय शास्त्रितम् ॥ ४ ॥ द्वौ हुडाविव युध्येते पुरुषार्थौ समासमौ। प्राक्तनश्चैहिकश्चैव शाम्यत्यत्राल्पवीर्यवान् ॥ ५ ॥ अतः पुरुषयत्नेन यतितव्यं यथा तथा। पुंसा तन्त्रेण सद्योगाद्येनाश्वद्यतनो जयेत् ॥ ६ ॥ द्वौ हुडाविव युध्येते पुरुषार्थौ समासमौ। आत्मीयश्चान्यदीयश्च जयत्यतिबलस्तयोः ॥ ७ ॥ अनर्थः प्राप्यते यत्र शास्त्रितादपि पौरुषात् । अनर्थकर्तृ बलवत्तत्र ज्ञेयं स्वपौरुषम् ॥ ८ ॥ परं पौरुषमाश्रित्य दन्तैर्दन्तान्विचूर्णयन्। शुभेनाऽशुभमुद्युक्तं प्राक्तनं पौरुषं जयेत् ॥ ९ ॥ महर्षि वशिष्ठ ने कहा: २.५.१: शास्त्रों के मार्ग पर चलने वालों के लिए कर्म सबसे महत्वपूर्ण है...