Posts

Showing posts with the label जागृत मन

अध्याय २.१८, श्लोक १–१०

योग वशिष्ठ २.१८.१–१० (तर्क और विवेक द्वारा निर्देशित अनुशासित और जागृत मन की परिवर्तनकारी शक्ति) श्रीवसिष्ठ उवाच । अस्यां वा चित्तमात्रायां प्रबोधः संप्रवर्तते । बीजादिव सतो व्युप्तादवश्यंभावि सत्फलम् ॥ १ ॥ अपि पौरुषमादेयं शास्त्रं चेद्युक्तिबोधकम् । अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्याय्यैकसेविना ॥ २ ॥ युक्तियुक्तमुपादेयं वचनं बालकादपि । अन्यत्तृणमिव त्याज्यमप्युक्तं पद्मजन्मना ॥ ३ ॥ योऽस्मत्तातस्य कूपोऽयमिति कौपं पिबत्यपः । त्यक्त्वा गाङ्गं पुरस्थं तं को नाशास्त्यतिरागिणम् ॥ ४ ॥ यथोषसि प्रवृत्तायामालोकोऽवश्यमेष्यति । अस्यां वा चित्तमात्रायां सुविवेकस्तथैष्यति ॥ ५ ॥ श्रुतायां प्राज्ञवदनाद्बुद्ध्वान्तं स्वयमेव च। शनैःशनैर्विचारेण बुद्धौ संस्कार आगते ॥ ६ ॥ पूर्वं तावदुदेत्यन्तर्भृशं संस्कृतवाक्यता । शुद्धयुक्ता लतेवोच्चैर्या सभास्थानभूषणम् ॥ ७ ॥ परा नागरतोदेति महत्त्वगुणशालिनी। सा यया स्नेहमायान्ति राजानो अमरा अपि ॥ ८ ॥ पूर्वापरज्ञः सर्वत्र नरो भवति बुद्धिमान्। पदार्थानां यथा दीपहस्तो निशि सुलोचनः ॥ ९ ॥ लोभमोहादयो दोषास्तानवं यान्त्यलं शनैः । धियो दिशः समासन्नशरदो मिहिका यथा ॥ १० ॥ महर...