Posts

Showing posts with the label ज्ञानी

अध्याय ३.८२, श्लोक १–९

योगवशिष्ट ३.८२.१–९ (ये श्लोक दिखाते हैं कि ज्ञानी शब्दों की कितनी शक्ति है जो बेचैन मन को भी बदल सकती है) श्रीवसिष्ठ उवाच। इति राजमुखाच्छुत्वा कर्कटी वनमर्कटी। अवबुद्धपदान्तं स्वं जहौ मत्सरचापलम् ॥ १॥ अन्तःशीतलतामेत्य विश्रान्तिमपतापताम्। प्राप्ता प्रावृण्मयूरीव सज्योत्स्नेव कुमुद्वती ॥ २॥ तथा राजगिरा तस्या आनन्द उदभूद्भृशम्। गर्भेऽन्तः खे बलाकाया रवेणेव पयोमुचः ॥ ३॥ राक्षस्युवाच। अहो बत पवित्रेयं भवतोर्भाति शेमुषी। अनस्तमितसारेण प्रबोधार्केण भासिता ॥ ४॥ शीता समरसा शुद्धा ज्योत्स्नेव शशिमण्डलात्। विवेककणिकां श्रुत्वा भवतो हृदयादियम् ॥ ५॥ विवेकिनो जगत्पूज्याः सेव्या मन्ये भवादृशाः। सत्सङ्गात्सविकासास्मि चन्द्रेणेव कुमुद्वती ॥ ६॥ सौरभं कुसुमासङ्गादेव सत्सङ्गमाच्छुभम्। वर्तते ह्यर्कसंपर्काद्विकासोऽम्बुरुहामिव ॥ ७॥ महतामेव संपर्कात्पुनर्दुःखं न बाधते। को हि दीपशिखाहस्तस्तमसा परिभूयते ॥ ८॥ मयेमौ जङ्गलप्राप्तौ भवन्तौ भूमिभास्करौ। पूजनीयावतः शीघ्रमीहितं कथ्यतां शुभम् ॥ ९॥ महर्षि वशिष्ठ जी ने कहा:  ३.८२.१–३ > राजा के मुँह से ये शब्द सुनकर वन की राक्षसी कर्कटी ने उनके गहरे अर्थ को पूरी त...