Posts

Showing posts with the label विदेहमुक्त

अध्याय ३.९, श्लोक १४–२३

योग वशिष्ठ ३.९.१४–२३ (विदेहमुक्त अवस्था)  श्रीवसिष्ठ उवाच । जीवन्मुक्तपदं त्यक्त्वा देहे कालवशीकृते । विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ १४ ॥ विदेहमुक्तो नोदेति नास्तमेति न शाम्यति । न सन्नासन्न दूरस्थो न चाहं न च नेतरः ॥ १५ ॥ सूर्यो भूत्वा प्रतपति विष्णुः पाति जगत्त्रयम् । रुद्रः सर्वान्संहरति सर्गान्सृजति पद्मजः ॥ १६ ॥ खं भूत्वा पवनस्कन्धं धत्ते सर्षिसुरासुरम् । कुलाचलगतो भूत्वा लोकपालपुरास्पदः ॥ १७ ॥ भूमिर्भूत्वा बिभर्तीमां लोकस्थितिमखण्डिताम् । तृणगुल्मलता भूत्वा ददाति फलसंततिम् ॥ १८ ॥ बिभ्रज्जलानलाकारं ज्वलति द्रवति द्रुतम् । चन्द्रोऽमृतं प्रसवति मृतं हालाहलं विषम् ॥ १९ ॥ तेजः प्रकटयत्याशास्तनोत्यान्ध्यं तमो भवत् । शून्यं सद्व्योमतामेति गिरिः सन् रोधयत्यलम् ॥ २० ॥ करोति जंगमं चित्तः स्थावरं स्थावराकृतिः । भूत्वार्णवो वलयति भूस्त्रियं वलयो यथा ॥ २१ ॥ परमार्कवपुर्भूत्वा प्रकाशान्तं विसारयन्। त्रिजगत्त्रसरेण्वोघं शान्तमेवावतिष्ठते ॥ २२ ॥ यत्किंचिदिदमाभाति भातं भानमुपैष्यति । कालत्रयगतं दृश्यं तदसौ सर्वमेव च ॥ २३ ॥ महर्षि वशिष्ठ ने आगे कहा: ३.९.१४ : देहधारी मुक्ति (जीवन्मुक्ति)...