Posts

Showing posts with the label ब्रह्मांड

अध्याय ३.९१, श्लोक १–८

योगवशिष्ट ३.९१.१–८ (ये श्लोक मन की सर्वोच्च और स्वतंत्र प्रकृति को प्रकट करते हैं ) भानुरुवाच। तेनैतद्वच्मि भवगन्यथाकालं मनो मुने। अनिग्राह्यमभेद्यं च शापैरपि दुरासदैः ॥ १॥ ऐन्दवानामतः सृष्टिक्रमाणां प्रविनाशनम्। युज्यते न च तद्ब्रह्मन्युक्तमेतन्महात्मनः ॥ २॥ किं तदस्ति जगत्यस्मिन्विविधेषु जगत्सु च। तवापि नाथ नाथस्य यद्दैन्याय महात्मनः ॥ ३॥ मनो हि जगतां कर्तृ मनो हि पुरुषः स्मृतः। यन्मनोनिश्चयकृतं तद्द्रव्यौषधिदण्डनैः ॥ ४॥ हन्तुं न शक्यते जन्तोः प्रतिबिम्बं मणेरिव। तस्मादेतेऽत्र तिष्ठन्तु भासुरैः सर्गसंभ्रमैः ॥ ५॥ त्वं सृष्ट्वेह प्रजास्तिष्ठ बुद्ध्याकाशो ह्यनन्तकः। चित्ताकाशश्चिदाकाश आकाशश्च तृतीयकः ॥ ६॥ अनन्तास्त्रय एवैते चिदाकाशप्रकाशिताः। एकं द्वौ त्रीन्बहून्वापि कुरु सर्गाञ्जगत्पते ॥ ७॥ स्वेच्छयात्मनि तिष्ठ त्वं किं गृहीतं तवैन्दवैः। ब्रह्मोवाच अथैन्दवजगज्जाले। भानुनैवमुदाहृते ॥ ८॥ सूर्यदेव कहा:  ३.९१.१–८ > इसलिए, हे पूज्य मुनि, मैं उचित समय पर यह कहता हूँ। मन अनियंत्रणीय और अटूट है, कठोरतम शापों से भी। > इसलिए, हे ब्रह्मन्, ऐन्दवों की क्रमिक सृष्टियों का विनाश उचित नहीं ...

अध्याय ३.८८, श्लोक १२–२१

योगवशिष्ट ३.८८.१२–२१ (ये श्लोक सिखाते हैं कि सच्चे बुद्धिमान लोग बिना किसी व्यक्तिगत कामना या आसक्ति के कर्म करते हैं—चाहे वे कर्म कर रहे हों या उन्हें छोड़ रहे हों ) भानुरुवाच। यथैव कर्मकरणे कामना नास्ति धीमताम्। तथैव कर्मत्यागे कामना नास्ति धीमताम् ॥ १२॥ अतः सुषुप्तोपमया धिया निष्कामया तया। सुषुप्तबुद्धसमया कुरु कार्यं यथागतम् ॥ १३॥ सर्गैरथेन्दुपुत्राणां तोषमेषि जगत्प्रभो। तदेते तोषयिष्यन्ति तं त्वां सर्गात्सुरेश्वर ॥ १४॥ चित्तनेत्रैर्भवानेतान्सर्गानन्यस्य नो दृशा। अवश्यं चक्षुषा सर्गं सृष्टमित्येव वेत्ति कः ॥ १५॥ येनैव मनसा सर्गो निर्मितः परमेश्वर। स एव मांसनेत्रेण तं पश्यति हि नेतरः ॥ १६॥ न चैतान्दश संसारान्दश नीरजसंभवान्। कश्चिन्नाशयितुं शक्तश्चित्तदार्ढ्याच्चिरस्थितान् ॥ १७॥ कर्मेन्द्रियैर्यत्क्रियते तद्रोद्धुं किल युज्यते। न मनोनिश्चयकृतं कश्चिद्रोधयितुं क्षमः ॥ १८॥ यो बद्धपदतां यातो जन्तोर्मनसि निश्चयः। स तेनैव विना ब्रह्मन्नान्येन विनिवार्यते ॥ १९॥ बहुकालं यदभ्यस्तं मनसा दृढनिश्चयम्। शापेनापि न तस्यास्ति क्षयो नष्टेऽपि देहके ॥ २०॥ यद्बद्धपीठमभितो मनसि प्ररूढं तद्रूपमेव पुरुषो ...

अध्याय ३.७३, श्लोक ५४–६७

 योगवशिष्ट ३.७३.५४–६७ (ये श्लोक प्राचीन भारतीय ज्ञान में वर्णित विश्व के एक जीवंत ब्रह्मांडीय मानचित्र प्रस्तुत करते हैं) श्रीवसिष्ठ उवाच। मदिराम्भोधिवलयं तज्जलेचरसंस्थितम्। गोमेदद्वीपकटकं तन्मध्यविषयव्रजम् ॥ ५४॥ इक्षूदकाब्धिपरिखं शान्तं गिरिगणान्तरम्। क्रौञ्चद्वीपोर्वरापीठं शान्तं गतगिरिक्रमम् ॥ ५५॥ क्षीराब्धिमुक्तावलयं समध्यगतनायकम्। श्वेताख्यद्वीपवलयं सभूतप्रविभागकम् ॥ ५६॥ ततो घृतोदवलयस्वान्तस्थपुरमन्दिरम्। कुशद्वीपवृतिव्याप्तं समहाशैलकोटरम् ॥ ५७॥ दध्यम्भोराशिरशनासान्ताम्बरपुरोदरम्। शाकद्वीपोर्वराकारं सान्तस्थविषयान्तरम् ॥ ५८॥ क्षाराम्भोराशिपरिधिं सान्तस्थविषयान्तरम्। जम्बूद्वीपे महामेरुं कुलपर्वतसंकुलम् ॥ ५९॥ वातस्कन्धेभ्य एवादौ पतितानिलवेदना। क्रमेणानेन पर्यन्ते तेनैव प्रसृतोऽञ्जसा ॥ ६०॥ वायुरालोकयन्नद्धा जम्बूद्वीपं निरीक्ष्य च। तत्प्राप हिमवच्छृङ्गं यत्र सूची तपस्विनी ॥ ६१॥ शृङ्गमूर्ध्नि महत्युग्रे सारण्यानीमवाप ताम्। द्वितीयाकाशविततां वर्जितां प्राणिकर्मभिः ॥ ६२॥ असंजाततृणव्यूहां निकटत्वाद्विवस्वतः। रजोमयीमेव ततां संसाररचनामिव ॥ ६३॥ मृगतृष्णानदीसार्थपूरणीयाब्धितां गताम्। शक...

अध्याय ३.६७, श्लोक ३७–५१

 योगवशिष्ट ३.६७.३७–५१ (ये श्लोक राम के आश्चर्य को सुंदर ढंग से व्यक्त करते हैं कि जगत यद्यपि असत्य है फिर भी ब्रह्म में जीवंत और स्पष्ट दिखता है) श्रीराम उवाच। अहो चित्रं जगदिदमसत्सदिव भासते। अहो बृहदहो स्वस्थमहो स्फुटमहो तनु ॥ ३७॥ ब्रह्मणि प्रतिभासात्मा तन्मात्रगुणगोलकः। अवश्यायकणाभासो यथा स्फुरति तच्छ्रुतम् ॥ ३८॥ यथाऽसौ याति वैपुल्यं यथा भवति चात्मभूः। यथा स्वभावसिद्धार्थात्तथा कथय मे प्रभो ॥ ३९॥ श्रीवसिष्ठ उवाच। अत्यन्तासंभवद्रूपमनन्यत्स्वस्वभावतः। अत्यन्ताननुभूतं सत्स्वानुभूतमिवाग्रतः ॥ ४०॥ उल्लासफुल्लो फुल्लाङ्ग इति बालहृदि स्फुटम्। यथोदेति तथोदेति परे ब्रह्मणि जीवता ॥ ४१॥ मानमेयात्मिका शुद्धा सत्यैवासत्यवत्स्थिता। भिन्नेव च न भिन्ना स्याद्ब्रह्मणो ब्रंह्मणात्मिका ॥ ४२॥ यथा ब्रह्म भवत्याशु जीवः कलनजीवितः। तथा जीवो भवत्याशु मनो मननवेदनात् ॥ ४३॥ चित्तं तन्मात्रमननं पश्यत्याशु स्वरूपवत्। एष सद्योऽनिललवप्रख्यः स्फुरति खान्तरे ॥ ४४॥ अस्तनिमेषोऽनुभवत्यवश्यायकणोपमम्। संवेदनात्मकं कालकलितं कान्तमात्मनि ॥ ४५॥ अहं किमिति शब्दार्थवेदनाभोगसंविदम्। संविदं तत्त्वशब्दार्थं जीवः पश्यति सार्थक...

अध्याय ३.६४, श्लोक ११–२२

 योगवशिष्ट ३.६४.११–२२ (ये श्लोक शुद्ध चेतना से व्यक्तित्व के क्रमिक निर्माण की व्याख्या करते हैं) श्रीवसिष्ठ उवाच। चिद्रूपस्यात्मतत्त्वस्य स्वाभाववशतः स्वयम्। मनाक्संवेदनमिव यत्तज्जीव इति स्मृतम् ॥ ११॥ तदेव घनसंवित्त्या यात्यहंतामनुक्रमात्। वह्न्यणुः स्वेन्धनाधिक्यात्स्वां प्रकाशकतामिव ॥ १२॥ यथा स्वतारकामार्गे व्योम्नः स्फुरति नीलिमा। शून्यस्याप्यस्य जीवस्य तथाहंभावभावना ॥ १३॥ जीवोऽहंकृतिमादत्ते संकल्पकलयेद्धया। स्वयैतया घनतया नीलिमानमिवाम्बरम् ॥ १४॥ अहंभावो हि दिक्कालव्यवच्छेदी कृताकृतिः। स्वयं संकल्पवशतो वातस्पन्द इव स्फुरन् ॥ १५॥ संकल्पोन्मुखता यातस्त्वहंकाराभिधः स्थितः। चित्तं जीवो मनो माया प्रकृतिश्चेति नामभिः ॥ १६॥ तत्संकल्पात्मकं चेतो भूततन्मात्रकल्पनम्। कुर्वंस्ततो व्रजत्येव संकल्पाद्याति पञ्चताम् ॥ १७॥ तन्मात्रपञ्चकाकारं चित्तं तेजःकणो भवेत्। अजातजगति व्योम्नि तारका पेलवा यथा ॥ १८॥ तेजःकणत्वमादत्ते चित्तं तन्मात्रकल्पनात्। शनैः स्वस्मात्परिस्पन्दाद्बीजमङ्कुरतामिव ॥ १९॥ असौ तेजःकणोऽण्डाख्यः कल्पनात्कश्चिदण्डताम्। प्रयात्यन्तःस्फुरद्ब्रह्मा जलमापिण्डतामिव ॥ २०॥ कश्चिद्द्रागि...

अध्याय ३.५३, श्लोक १–१४

 योगवशिष्ट ३.५३.१–१४ (ये श्लोक दृढ़ संकल्प की अपार शक्ति सिखाते हैं ) श्रीवसिष्ठ उवाच । अथ लब्धवरा देहेनानेनैव महीपतिम्। पतिमाप्तुं प्रयात्येषा नभोमार्गेण विष्टपम् ॥ १॥ इति संचिन्त्य सानन्दमुद्दाममकरध्वजा। पुप्लुवे पेलवाकारा पक्षिणीव नभस्तले ॥ २॥ कुमारीं तत्र सा प्राप ज्ञप्त्यैव प्रहितां हिताम्। स्वसंकल्पमहादर्शात्पुरतो निर्गतामिव ॥ ३॥ कुमार्युवाच । दुहितास्मि सखि ज्ञप्तेः स्वागतं तेऽस्तु सुन्दरि। प्रतीक्षमाणा त्वामेव स्थितास्मीह नभःपथि ॥ ४॥ लीलोवाच । देवि भर्तुः समीपं मां नय नीरजलोचने। महतां दर्शनं यस्मान्न कदाचन निष्फलम् ॥ ५॥ श्रीवसिष्ठ उवाच । एहि तत्रैव गच्छाव इत्युक्त्वा सा कुमारिका। पुरस्तस्याः स्थिता व्योम्नि मार्गदर्शनतत्परा ॥ ६॥ ततस्तदनुयाता सा प्राप कोटरमम्बरम्। निर्मलं करमालाग्रं यथा लक्षणलेखिका ॥ ७॥ मेघमार्गमथोल्लङ्घ्य वातस्कन्धान्तरे गता। सूर्यमार्गादभिगता तारामार्गमतीत्य च ॥ ८॥ वाय्विन्द्रसुरसिद्धानां लोकानुल्लङ्घ्य लाघवात्। ब्रह्मविष्णुमहेशानां प्राप ब्रह्माण्डखर्परम् ॥ ९॥ हिमशैत्यं यथान्तस्थं कुम्भेऽभिन्ने बहिर्भवेत्। तथा संकल्पसिद्धा सा ब्रह्माण्डान्निर्गता बहिः ॥ १...

अध्याय ३.३१, श्लोक ११–२२

योगवशिष्ट ३.३१.११–२२ (ज्ञानी जन बिना लगाव के समस्त ब्रह्मांडीय घटनाओं का साक्षी होते हैं, और उन्हें चेतना में अस्थायी उदय-व्यय के रूप में ही पहचान लेते हैं ) श्रीवसिष्ठ उवाच । एतस्मिन्नन्तरे तस्मिन्मण्डले मण्डितावनौ । चक्रेऽवस्कन्दनं कश्चित्सामन्तोद्रिक्तभूमिपः ॥ ११ ॥ तेन संग्रामसंरम्भे प्रेक्षार्थं समुपागतैः। त्रैलोक्यभूतैस्तद्व्योम बभूवात्यन्तसंकटम् ॥ १२ ॥ अशङ्कितागते तत्ते देव्यौ ददृशतुर्नभः। नभश्चरगणाक्रान्तमम्बुदैरिव मालितम् ॥ १३ ॥ सिद्धचारणगन्धर्वगणविद्याधरान्वितम् । शूरग्रहणसंरब्धस्वर्गलोकाप्सरोवृतम् ॥ १४ ॥ रक्तमांसोन्मुखोन्मत्तभूतरक्षःपिशाचकम् । पुष्पवृष्टिभिरापूर्णहस्तविद्याधराङ्गनम् ॥ १५ ॥ वेतालयक्षकूश्माण्डैर्द्वन्द्वालोकनसादरैः । आयुधापातरक्षार्थं गृहीताद्रितटैर्वृतम् ॥ १६ ॥ अस्त्रमार्गनभोभागविद्रवद्भूतमण्डलम् । आहोपुरुषिकाक्षुब्धप्रेक्षकामोदनोद्भटम् ॥ १७ ॥ आसन्नभीमसंग्रामकिंवदन्तीपरस्परम् । लीलाहासविलासोत्कसुन्दरीधृतचामरम् ॥ १८ ॥ धर्माप्रेक्ष्यप्रयुक्ताग्र्यमुनिस्वस्त्ययनस्तवम् । संपन्नानेकलोकेशवनितावसरस्तवम् ॥ १९ ॥ स्वर्गार्हशूरानयनव्यग्रेन्द्रभटभासुरम् । शूरार्थालंकृतोत्...

अध्याय ३.३०, श्लोक २४–३४

योगवशिष्ट ३.३०.२४–३४ (अस्तित्व में अनगिनत ब्रह्मांड सम्मिलित हैं, जो अनंत आकाश में अनजाने ही नृत्य कर रहे हैं—रहस्यमय, स्वस्फूर्त और मुक्त) श्रीवसिष्ठ उवाच । आचाराद्वेदशास्त्राणामाद्य एवान्यथोदिते । आरम्भोऽपि तथान्येषामनित्यः संस्थितः क्रमः ॥ २४ ॥ केचिद्ब्रह्मादिपुरुषाः केचिद्विष्ण्वादिसर्गपाः । केचिच्चान्यप्रजानाथाः केचिन्निर्नाथजन्तवः ॥ २५ ॥ केचिद्विचित्रसर्गेशाः केचित्तिर्यङ्मयान्तराः । केचिदेकार्णवापूर्णा इतरे जनिवर्जिताः ॥ २६ ॥ केचिच्छिलाङ्गनिष्पिण्डाः केचित्कृमिमयान्तराः । केचिद्देवमया एव केचिन्नरमयान्तराः ॥ २७ ॥ केचिन्नित्यान्धकाराढ्यास्तथा शीलितजन्तवः । केचिन्नित्यप्रकाशाढ्यास्तथा शीलितजन्तवः ॥ २८ ॥ केचिन्मशकसंपूर्णा उदुम्बरफलश्रियः। नित्यं शून्यान्तराः केचिच्छून्यस्पन्दात्मजन्तवः ॥ २९ ॥ सर्गेण तादृशेनान्ये पूर्णा येऽन्तर्धियामिह । कल्पनामपि नायान्ति व्योमपूर्णाचलो यथा ॥ ३० ॥ तादृगम्बरमेतेषां महाकाशं ततं स्थितम्। आजीवितं प्रगच्छद्भिर्विष्ण्वाद्यैर्यन्न मीयते ॥ ३१ ॥ प्रत्येकस्याण्डगोलस्य स्थितः कटकरत्नवत् । भूताकृष्टिकरो भावः पार्थिवः स्वस्वभावतः ॥ ३२ ॥ यः सर्वविभवोऽस्माकं धियां...

अध्याय ३.३०, श्लोक ११–२३

योगवशिष्ट ३.३०.११–२३ (अनंतकोटि ब्रह्मांड परम ब्रह्म के विशाल विस्तार में बस धूल के कण मात्र हैं) श्रीवसिष्ठ उवाच । अस्वातन्त्र्यात्प्रधावन्ति पदार्थाः सर्व एव यत् । ब्रह्माण्डे पार्थिवो भागस्तदधस्तूर्ध्वमन्यथा ॥ ११ ॥ पिपीलिकानां महतां व्योम्नि वर्तुललोष्टके । दशदिक्कमधः पादाः पृष्ठमूर्ध्वमुदाहृतम् ॥ १२ ॥ वृक्षवल्मीकजालेन केषांचिद्धृदि भूतलम् । ससुरानरदैत्येन वेष्टितं व्योम निर्मलम् ॥ १३ ॥ संभूतं सह भूतेन सग्रामपुरपर्वतम् । इदं कल्पनभूतेन पक्वाक्षोटमिव त्वचा ॥ १४ ॥ यथा विन्ध्यवनाभोगे प्रस्फुरन्ति करेणवः । तथा तस्मिन्पराभोगे ब्रह्माण्डत्रसरेणवः ॥ १५ ॥ तस्मिन्सर्वं ततः सर्वं तत्सर्वं सर्वतश्च यत् । तच्च सर्वमयो नित्यं तथा तदणुकं प्रति ॥ १६ ॥ शुद्धबोधमये तस्मिन्परमालोकवारिधौ। अजस्रमेत्य गच्छन्ति ब्रह्मण्डाख्यास्तरङ्गकाः ॥ १७ ॥ अन्तःशून्याः स्थिताः केचित्संकल्पक्षयरात्रयः । तरङ्गा इव तोयेऽब्धौ प्रोह्यन्ते शून्यतार्णवे ॥ १८ ॥ केषांचिदन्तःकल्पान्तः प्रवृत्तो घर्घरारवः । न श्रुतोऽन्यैर्न च ज्ञातः स्वभावेन रसाकुलैः ॥ १९ ॥ अन्येषां प्रथमारम्भे शुद्धभूषु विजृम्भते । सर्गः संसिक्तबीजानां कोशेऽङ्कु...

अध्याय ३.३०, श्लोक १–१०

योगवशिष्ट ३.३०.१–१० (अनंत शून्य में असंख्य ब्रह्मांड तैर रहे हैं, ठीक वैसे ही जैसे चेतना के सागर में बुलबुले तैरते हैं) श्रीवसिष्ठ उवाच । पृथिव्यप्तेजसां तत्र नभस्वन्नभसोरपि। यथोत्तरं दशगुणानतीत्यावरणान्क्षणात् ॥ १॥ ददर्श परमाकाश तत्प्रमाणविवर्जितम्। तथा ततं जगदिदं यथा तत्राण्डमात्रकम् ॥ २ ॥ तादृशावरणान्सर्गान्ब्रह्माण्डेषु ददर्श सा। कोटिशः स्फुरितान्व्योम्नि त्रसरेणूनिवातपे ॥ ३ ॥ महाकाशमहाम्भोधौ महाशून्यत्ववारिणि । महाचिद्द्रवभावोत्थान्बुद्बुदानर्बुदप्रभान् ॥ ४ ॥ कांश्चिदापततोऽधस्तात्कांश्चिच्चोपरि गच्छतः । कांश्चित्तिर्यग्गतीनन्यान्स्थितांस्तब्धान्स्वसंविदा ॥ ५ ॥ यत्र यत्रोदिता संविद्येषां येषां यथा यथा । तत्र तत्रोदितं रूपं तेषां तेषां तथा तथा ॥ ५ ॥ नेहैव तत्र नामोर्ध्वं नाधो न च गमागमाः । अन्यदेव पदं किंचित्तस्माद्देहागमं हि तत् ॥ ७ ॥ उत्पद्योत्पद्यते तत्र स्वयं संवित्स्वभावतः। स्वसंकल्पैः शमं याति बालसंकल्पजालवत् ॥ ८ ॥ श्रीराम उवाच । किमधः स्यात्किमूर्ध्वं स्यात्किं तिर्यक्तत्र भासुरे । इति ब्रूहि मम ब्रह्मन्निहैव यदि न स्थितम् ॥ ९ ॥ श्रीवसिष्ठ उवाच । ससर्वावरणा एते महत्यन्तविवर्ज...

अध्याय ३.२६, श्लोक ११–२१

योगवशिष्ट ३.२६.११–२१ (दो वन देवियों का एक शोकाकुल ब्राह्मण ज्येष्ठ शर्मा के घर में चमत्कारिक आगमन)   श्रीवसिष्ठ उवाच । सर्वौषधिवनग्रामं पूरयन्त्यौ रसायनैः। शीतलाह्लादसुखदं चन्द्रद्वयमिवोदितम् ॥ ११ ॥ लम्बालकलतालोललोचनालिविलोकनैः । किरत्कुवलयोन्मिश्रमालतीकुसुमोत्करान् ॥ १२ ॥ द्रुतहेमरसापूरसरित्सरणहारिणा । देहप्रभाप्रवाहेण कनकीकृतकाननम् ॥ १३ ॥ सहजाया वपुर्लक्ष्म्या लीलादोलाविलासिनः । त एते च तरङ्गाढ्या निजलावण्यवारिधेः ॥ १४ ॥ विलोलबाहुलतिकायुगेनारुणपाणिना । किरन्नवनवं हैमं कल्पवृक्षलतावनम् ॥ १५ ॥ पादैरमृदिताम्लानपुष्पकोमलपल्लवैः । स्थलाब्जदलमालाभैरस्पृशद्भूतलं पुनः ॥ १६ ॥ तालीतमालखण्डानां शुष्काणां शुचिशोचिषाम् । आलोकनामृतासेकैर्जनयद्बालपल्लवान् ॥ १७ ॥ नमोऽस्तु वनदेवीभ्यामित्युक्त्वा कुसुमाञ्जलिम् । तत्याज ज्येष्ठशर्माथ सार्धं गृहजनेन सः ॥ १८ ॥ पपात पादयोर्गेहे तयोर्वै कुसुमाञ्जलिः। प्रालेयसीकरासारः पद्मिन्या इव पद्मयोः ॥ १९ ॥ ज्येष्ठशर्मादय ऊचुः । जयतं वनदेव्यौ नो दुःखनाशार्थमागते । प्रायः परपरित्राणमेव कर्म निजं सताम् ॥ २० ॥ इति तद्वचनान्ते ते देव्यावूचतुरादरात् । आख्यात दुःखं येनाय...

अध्याय ३.२५, श्लोक २६–३५

योगवशिष्ट ३.२५.२६–३५ (ब्रह्मांड की मायावी और स्वप्न जैसी प्रकृति का अर्थ है कि चाहे ब्रह्मांडीय दर्शन कितना भी विशाल और वास्तविक प्रतीत हो, वह मन की प्रक्षेपण मात्र है)   श्रीवसिष्ठ उवाच । आव्योमसु चतुर्दिक्षु श्वभ्रसंभारभीषया। अर्धोन्म्लानतमोरूपलग्ननीलोत्पलस्रजा ॥ २६ ॥ नानामाणिक्यशिखरकह्लारकुमुदाब्जया । लोकालोकाचलोत्तालविपुलोद्दाममालया ॥ २७ ॥ वलितां त्रिजगल्लक्ष्मीधम्मिल्लवलनामिव । एतस्मादेव सर्वस्मात्ततो दशगुणात्मना ॥ २८ ॥ अज्ञातभूतसंचारनाम्नारण्येन मालिताम् । एतस्मादेव सर्वस्मात्ततो दशगुणात्मना ॥ २९ ॥ नभसेव चतुर्दिक्कं व्याप्तामतुलवारिणा । एतस्मादेव सर्वस्मात्ततो दशगुणात्मना ॥ ३० ॥ मेर्वादिद्रावणोत्केन ज्वालाजालेन मालिताम् । एतस्मादथ सर्वस्मात्ततो दशगुणात्मना ॥ ३१ ॥ मेर्वाद्यचलसङ्घातं नयता तृणपांसुवत्। वहताद्रीन्द्रविस्फोटकारिणा जवहारिणा ॥ ३२ ॥ निःशून्यत्वादशब्देन मरुता परितो वृतम् । एतस्मादथ सर्वस्मात्ततो दशगुणात्मना ॥ ३३ ॥ परितो वलितं व्योम्ना निःशून्येनैकरूपिणा । अथ योजनकोटीनां शतेन घनरूणिणा। व्याप्तं ब्रह्माण्डकुड्येन हैमेनापि द्विपर्वणा ॥ ३४ ॥ इति जलधिमहाद्रिलोकपालत्रिदशपुर...