Posts

Showing posts with the label प्रयास

अध्याय २.५, श्लोक १०–२

योग वशिष्ठ २.५.१०–२१ (पूर्वनिर्धारित भाग्य पर व्यक्तिगत प्रयास की सर्वोच्चता) श्रीवसिष्ठ उवाच । प्राक्तनः पुरुषार्थोऽसौ मां नियोजयतीति धीः । बलादधस्पदीकार्या प्रत्यक्षादधिका न सा ॥ १० ॥ तावत्तावत्प्रयत्नेन यतितव्यं सुपौरुषम् । प्राक्तनं पौरुषं यावदशुभं शाम्यति स्वयम् ॥ ११ ॥ दोषः शाम्यत्यसंदेहं प्राक्तनोऽद्यतनैर्गुणैः। दृष्टान्तोऽत्र ह्यस्तनस्य दोषस्याद्य गुणैः क्षयः ॥ १२ ॥ असद्दैवमधःकृत्वा नित्यमुद्रिक्तया धिया। संसारोत्तरणं भूत्यै यतेताऽऽधातुमात्मनि ॥ १३ ॥ न गन्तव्यमनुद्योगैः साम्यं पुरुषगर्दभैः। उद्योगस्तु यथाशास्त्रं लोकद्वितयसिद्धये ॥ १४ ॥ संसारकुहरादस्मान्निर्गन्तव्यं स्वयं बलात् । पौरुषं यत्नमाश्रित्य हरिणेवारिपञ्जरात् ॥ १५ ॥ प्रत्यहं प्रत्यवेक्षेत देहं नश्वरमात्मनः । संत्यजेत्पशुभिस्तुल्यं श्रयेत्सत्पुरुषोचितम् ॥ १६ ॥ किंचित्कान्तान्नपानादिकलिलं कोमलं गृहे । व्रणे कीट इवास्वाद्य वयः कार्यं न भस्मसात् ॥ १७ ॥ शुभेन पौरुषेणाशु शुभमासाद्यते फलम्। अशुभेनाशुभं नित्यं दैवं नाम न किंचन ॥ १८ ॥ प्रत्यक्षमानमुत्सृज्य योऽनुमानमुपैत्यसौ। स्वभुजाभ्यामिमौ सर्पाविति प्रेक्ष्य पलायते ॥ १९ ॥ दैवं...

अध्याय २.४, श्लोक ११–२०

योग वशिष्ठ २.४.११–२० (अनुशासित प्रयास, सद्मार्गदर्शन के साथ संरेखित, सार्थक कार्य का सार है) श्रीवसिष्ठ उवाच । साधूपदिष्टमार्गेण यन्मनोङ्गविचेष्टितम् । तत्पौरुषं तत्सफलमन्यदुन्मत्तचेष्टितम् ॥ ११ ॥ यो यमर्थं प्रार्थयते तदर्थं चेहते क्रमात्। अवश्यं स तमाप्नोति न चेदर्धान्निवर्तते ॥ १२ ॥ पौरुषेण प्रयत्नेन त्रैलोक्यैश्वर्यसुन्दराम्। कश्चित्प्राणिविशेषो हि शक्रतां समुपागतः ॥ १३ ॥ पौरुषेणैव यत्नेन सहसाम्भोरुहास्पदम् । कश्चिदेव चिदुल्लासो ब्रह्मतामधितिष्ठति ॥ १४ ॥ सारेण पुरुषार्थेन स्वेनैव गरुडध्वजः । कश्चिदेव पुमानेव पुरुषोत्तमतां गतः ॥ १५ ॥ पौरुषेणैव यत्नेन ललनावलिताकृतिः। शरीरी कश्चिदेवेह गतश्चन्द्रार्धचूडताम् ॥ १६ ॥ प्राक्तनं चैहिकं चेति द्विविधं विद्धि पौरुषम् । प्राक्तनोऽद्यतनेनाशु पुरुषार्थेन जीयते ॥ १७ ॥ यत्नवद्भिर्दृढाभ्यासैः प्रज्ञोत्साहसमन्वितैः । मेरवोऽपि निगीर्यन्ते कैव प्राक्पौरुषे कथा ॥ १८ ॥ शास्त्रनियन्त्रितपौरुषपरमा पुरुषस्य पुरुषता या स्यात् । अभिमतफलभरसिद्ध्यै भवति हि सैवान्यथा त्वनर्थाय ॥ १९ ॥ कस्यांचित्स्वयमात्मदुःस्थितिवशात्पुंसो दशायां शनै रङ्गुल्यग्रनिपीडितैकचुलुकादावा...