Posts

Showing posts with the label उच्च ज्ञान

अध्याय २.१२, श्लोक। १–१२

योग वशिष्ठ २.१२.१–१२ अध्याय २.१२: सच्चा ज्ञान (सच्चे ज्ञान की परिवर्तनकारी शक्ति) श्रीवसिष्ठ उवाच । परिपूर्णमना मान्यः प्रष्टुं जानासि राघव। वेत्सि चोक्तं च तेनाहं प्रवृत्तो वक्तुमादरात् ॥ १ ॥ रजस्तमोभ्यां रहिता शुद्धसत्त्वानुपातिनीम् । मतिमात्मनि संस्थाप्य ज्ञानं श्रोतुं स्थिरौ भव ॥ २ ॥ विद्यते त्वयि सर्वैव प्रच्छकस्य गुणावली। वक्तुर्गुणाश्चैव मयि रत्नश्रीर्जलधौ यथा ॥ ३ ॥ आप्तवानसि वैराग्यं विवेकासङ्गजं सुत । चन्द्रकान्त इवार्द्रत्वं लग्नचन्द्रकरोत्करः ॥ ४ ॥ चिरमाशैशवादेव तवाभ्यासोऽस्ति सद्गुणैः । शुद्धैः शुद्धस्य दीर्घैश्च पद्मस्येवातिसंततैः ॥ ५ ॥ अतः शृणु कथां वक्ष्ये त्वमेवास्या हि भाजनम् । न हि चन्द्रं विना शुद्धा सविकासा कुमुद्वती ॥ ६ ॥ ये केचन समारम्भा याश्च काश्चन दृष्टयः । ते च ताश्च पदे दृष्टे निःशेषे यान्ति वै शमम् ॥ ७ ॥ यदि विज्ञानविश्रान्तिर्न भवेद्भव्यचेतसः। तदस्यां संसृतौ साधुश्चिन्तामौढ्यं सहेत कः ॥ ८ ॥ परं प्राप्य विलीयन्ते सर्वा मननवृत्तयः । कल्पान्तार्कगणासङ्गात्कुलशैलशिला इव ॥ ९ ॥ दुःसहा राम संसारविषावेशविषूचिका । योगगारुडमन्त्रेण पावनेन प्रशाम्यति ॥ १० ॥ स च योगः स...