Posts

Showing posts with the label वशिष्ठ

अध्याय २.१०, श्लोक ३७–४४

योग वशिष्ठ  २.१०.३७–४४ (महर्षि वशिष्ठ का दिव्य उद्देश्य) श्रीवसिष्ठ उवाच । ततो विदितवेद्यं मां निजां प्रकृतिमास्थितम् । स उवाच जगत्कर्ता वक्ता सकलकारणम् ॥ ३७ ॥ शापेनाज्ञपदं नीत्वा पृच्छकस्त्वं मया कृतः । पुत्रास्य ज्ञानसारस्य समस्तजनसिद्धये ॥ ३८ ॥ इदानीं शान्तशापस्त्वं परं बोधमुपागतः। संस्थितोऽहमिवैकान्माऽकनक कनकादिवत् ॥ ३९ ॥ गच्छेदानीं महीपृष्ठे जम्बूद्वीपान्तरस्थितम् । साधो भरतवर्ष त्वं लोकानुग्रहहेतुना ॥ ४० ॥ तत्र क्रियाकाण्डपरास्त्वया पुत्र महाधिया । उपदेश्वाः क्रियाकाण्डक्रमेण क्रमशालिना ॥ ४१ ॥ विरर्क्ताचेत्ताश्च तथा महाप्राज्ञा विचारिणः । उपदेश्यास्त्वया साधो ज्ञानेनानन्ददायिना ॥ ४२ ॥ इति तेन नियुक्तोऽहं पित्रा कमलयोनिना । इह राघव तिष्ठामि यावद्भूतपरम्परा ॥ ४३ ॥ कर्तव्यमस्ति न ममेह हि किंचिदेव स्थातव्यमित्यतिमना भुवि संस्थितोऽस्मि । संशान्तया सततसुप्तधियेह वृत्या कार्य करोमि न च किंचिदहं करोमि ॥ ४४ ॥ महर्षि वशिष्ठ ने कहा: २.१०.३७:  तब, मुझे परम सत्य का साक्षात्कार करने वाला और अपने वास्तविक स्वरूप में स्थित जानकर, जगत के रचयिता और समस्त कारणों के कर्ता, उन्होंने मुझसे बा...

अध्याय २.४, श्लोक ११–२०

योग वशिष्ठ २.४.११–२० (अनुशासित प्रयास, सद्मार्गदर्शन के साथ संरेखित, सार्थक कार्य का सार है) श्रीवसिष्ठ उवाच । साधूपदिष्टमार्गेण यन्मनोङ्गविचेष्टितम् । तत्पौरुषं तत्सफलमन्यदुन्मत्तचेष्टितम् ॥ ११ ॥ यो यमर्थं प्रार्थयते तदर्थं चेहते क्रमात्। अवश्यं स तमाप्नोति न चेदर्धान्निवर्तते ॥ १२ ॥ पौरुषेण प्रयत्नेन त्रैलोक्यैश्वर्यसुन्दराम्। कश्चित्प्राणिविशेषो हि शक्रतां समुपागतः ॥ १३ ॥ पौरुषेणैव यत्नेन सहसाम्भोरुहास्पदम् । कश्चिदेव चिदुल्लासो ब्रह्मतामधितिष्ठति ॥ १४ ॥ सारेण पुरुषार्थेन स्वेनैव गरुडध्वजः । कश्चिदेव पुमानेव पुरुषोत्तमतां गतः ॥ १५ ॥ पौरुषेणैव यत्नेन ललनावलिताकृतिः। शरीरी कश्चिदेवेह गतश्चन्द्रार्धचूडताम् ॥ १६ ॥ प्राक्तनं चैहिकं चेति द्विविधं विद्धि पौरुषम् । प्राक्तनोऽद्यतनेनाशु पुरुषार्थेन जीयते ॥ १७ ॥ यत्नवद्भिर्दृढाभ्यासैः प्रज्ञोत्साहसमन्वितैः । मेरवोऽपि निगीर्यन्ते कैव प्राक्पौरुषे कथा ॥ १८ ॥ शास्त्रनियन्त्रितपौरुषपरमा पुरुषस्य पुरुषता या स्यात् । अभिमतफलभरसिद्ध्यै भवति हि सैवान्यथा त्वनर्थाय ॥ १९ ॥ कस्यांचित्स्वयमात्मदुःस्थितिवशात्पुंसो दशायां शनै रङ्गुल्यग्रनिपीडितैकचुलुकादावा...

अध्याय २.३, श्लोक २५–३६

योग वशिष्ठ २.३.२५–३६ (अस्तित्व की प्रकृति के बारे में आध्यात्मिक अंतर्दृष्टि) श्रीवसिष्ठ उवाच । ब्राह्मी द्वासप्ततिस्त्रैता आसीदस्ति भविष्यति । स एवान्यश्च लोकाश्च त्वं चाहं चेति वेदयहम् ॥ २५ ॥ क्रमेणास्य मुनेरित्थं व्यासस्याद्भुतकर्मणः । संलक्ष्यतेऽवतारोऽयं दशमो दीर्घदर्शिनः ॥ २६ ॥ अभूम व्यासवाल्मीकियुक्ता वयमनेकशः । अभूम वयमेवेमे बहुशश्च पृथक्पृथक् ॥ २७ ॥ अभूम् वयमेवेमे सदृशा इतरे विदः । अभूम वयमेवेमे नानाकारा समाशयाऽ ॥ २८ ॥ भाव्यमद्याप्यनेनेह ननु वाराष्टकं पुनः। भूयोऽपि भारतं नाम सेतिहासं करिष्यति ॥ २९ ॥ कृत्वा वेदविभागं च नीत्वानेन कुलप्रथाम् । ब्रह्मत्वं च तथा कृत्वा भाव्यं वैदेहमोक्षणम् ॥ ३० ॥ वीतशोकभयः शान्तनिर्वाणो गतकल्पनः। जीवन्मुक्तो जितमना व्यासोऽयमिति वर्णितः ॥ ३१ ॥ वित्तक्तधुवयःकर्मविद्याविज्ञानचेष्टितैः । समानि सन्ति भूतानि कदाचिन्नतु तानि तु ॥ ३२ ॥ क्वचित्सर्गशतैस्तानि भवन्ति न भवन्ति वा । कदाचिदपि मायेयमित्थमन्तविवर्जिता ॥ ३३ ॥ यच्छतीयं विपर्यासं भूरिभूतपरम्परा । बीजराशिरिवाजस्रं पूर्यमाणः पुनःपुनः ॥ ३४ ॥ तेनैव संनिवेशेन तथान्येन पुनःपुनः । सर्गाकाराः प्रवर्तन्ते तरङ्ग...

अध्याय २.३, श्लोक १–१२

योग वशिष्ठ २.३.१–१२ (बोध, अस्तित्व और वास्तविकता की प्रकृति के बारे में आध्यात्मिक प्रश्न) श्रीवसिष्ठ उवाच । पूर्वमुक्तं भगवता यज्ज्ञानं पद्मजन्मना। सर्गादौ लोकशान्त्यर्थं तदिदं कथयाम्यहम् ॥ १ ॥ श्रीराम उवाच । कथयिष्यसि विस्तीर्णा भगवन्मोक्षसंहिताम् । इमं तावत्क्षणं जातं संशयं मे निवारय ॥ २ ॥ पिता शुकस्य सर्वज्ञो गुरुर्व्यासो महामतिः । विदेहमुक्तो न कथं कथं मुक्तः सुतोऽस्य सः ॥ ३ ॥ श्रीवसिष्ठ उवाच । परमार्कप्रकाशान्तस्त्रिजगत्त्र सरेणवः। उत्पत्योत्पत्य लीना ये न संख्यामुपयान्ति ते ॥ ४ ॥ वर्तमानाश्च याः सन्ति त्रैलोक्यगणकोटयः । शक्यन्ते ताश्च संख्यातुं नैव काश्चन केनचित् ॥ ५ ॥ भविष्यन्ति पराम्भोधौ जन्तसर्गतरङ्गकाः । तांश्च वै परिसंख्यातुं सा कथैव न विद्यते ॥ ६ ॥ श्रीराम उवाच । या भूता या भविष्यन्त्यो जगत्सर्गपरम्पराः । तासां विचारणा युक्ता वर्तमानास्तु का इव ॥ ७ ॥ श्रीवसिष्ठ उवाच । तिर्यक्पुरुषदेवादेर्यो नाम स विनश्यति । यस्मिन्नेव प्रदेशेऽसौ तदैवेदं प्रपश्यति ॥ ८ ॥ आतिवाहिकनाम्नान्तः स्वहृद्येव जगत्त्रयम् । व्योम्नि चित्तशरीरेण व्योमात्मानुभवत्यजः ॥ ९ ॥ एवं मृता म्रियन्ते च मरिष्यन्ति ...

अध्याय २.२, श्लोक १५–२८

योग वशिष्ठ २.२.१५–२८ (सांसारिक इच्छाओं को समाप्त करने और मन को शांति प्रदान करने के लिए सच्चे ज्ञान की शक्ति) विश्वामित्र उवाच । वसिष्ठ भगवन्पूर्वं कच्चित्स्मरसि यत्स्वयम् । आवयोर्वैरशान्त्यर्थं श्रेयसे च महाधियाम् ॥ १५ ॥ निषधाद्रेर्मुनीनां च सानौ सरलसंकुले। उपदिष्टं भगवता ज्ञानं पद्मभुवा बहु ॥ १६ ॥ येन युक्तिमता ब्रह्मन्ज्ञानेनेयं हि वासना। सांसारी नूनमायाति शमं श्यामेव भास्वता ॥ १७ ॥ तदेव युक्तिमज्ज्ञेयं रामायान्तेनिवासिने। ब्रह्मन्नुपदिशाशु त्वं येन विश्रान्तिमेष्यति ॥ १८ ॥ कदर्थना च नैवैषा रामो हि गतकल्पषः । निर्मले मुकुरे वक्त्रमयत्नेनैव बिम्बति ॥ १९ ॥ तज्ज्ञानं स च शास्त्रार्थस्त्वद्वैदग्ध्यमनिन्दितम् । सच्छिष्याय विरक्ताय साधो यदुपदिश्यते ॥ २० ॥ अशिष्यायाविरक्ताय यत्किंचिदुपदिश्यते । तत्प्रयात्यपवित्रत्वं गोक्षीरं श्वदृताविव ॥ २१ ॥ वीतरागभयक्रोधा निर्माना गलितैनसः । वदन्ति त्वादृशा यत्र तत्र विश्राम्यतीह धीः ॥ २२ ॥ इत्युक्ते गाधिपुत्रेण व्यासनारदपूर्वकाः । मुनयस्ते तमेवार्थं साधुसाध्वित्यपूजयन् ॥ २३ ॥ अथोवाच महातेजा राज्ञः पार्श्वे व्यवस्थितः । ब्रह्मेव ब्रह्मणः पुत्रो वसिष्ठो भ...

अध्याय १.१२, श्लोक १९–२८

योग वशिष्ठ १.१२.१९–२८ (भौतिक संपदा की त्रासदी) भोगैस्तैरेव तैरेव तुच्छैर्वयममी किल । पश्य जर्जरतां नीता वातैरिव गिरिद्रुमाः ॥ १९ ॥ अचेतना इव जनाः पवनैः प्राणनामभिः । ध्वनन्तः संस्थिता व्यर्थं यथा कीचकवेणवः ॥ २० ॥ शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चिन्तया । जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना ॥ २१ ॥ संसारदुःखपाषाणनीरन्ध्रहृदयोऽप्यहम् । निजलोकभयादेव गलद्वाष्पं न रोदिमि ॥ २२ ॥ शून्या मन्मुखवृत्तीस्ताः शुष्करोदननीरसाः । विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति ॥ २३ ॥ भृशं मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् । दारिद्र्येणेव सुभगो दूरे संसारचेष्टया ॥ २४ ॥ मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणावलिम् । दुःखजालं प्रयच्छन्ति विप्रलम्भपराः श्रियः ॥ २५ ॥ चिन्तानिचयचक्राणि नानन्दाय धनानि मे । संप्रसूतकलत्राणि गृहाण्युग्रापदामिव ॥ २६ ॥ विविधदोषदशापरिचिन्तनैर्विततभङ्गुरकारणकल्पितैः । मम न निर्वृतिमेति मनो मुने निगडितस्य यथा वनदन्तिनः ॥ २७ ॥ खलाः कालेकाले निशि निशितमोहैकमिहिकागतालोके लोके विषयशतचौराः सुचतुराः । प्रवृत्ताः प्रोद्युक्ता दिशिदिशि विवेकैकहरणे रणे शक्तास्तेषां क इव विदुषःप्रोज्झ्य सुभटाः ॥ ...

अध्याय १.१२, श्लोक ८–१८

योगवशिष्ट १.१२.८–१८ (राजकुमार राम महर्षि वशिष्ठ को सम्बोधित करते हैं) राजकुमार श्रीराम उवाच। अस्थिराः सर्व एवेमे सचराचरचेष्टिताः । आपदां पतयः पापा भावा विभवभूमयः ॥ ८ ॥ अयःशलाकासदृशाः परस्परमसङ्गिनः । श्लिष्यन्ते केवलं भावा मनःकल्पनया स्वया ॥ ९ ॥ मनःसमायत्तमिदं जगदाभोगि दृश्यते । मनश्चासदिवाभाति केन स्म परिमोहिताः ॥ १० ॥ असतैव वयं कष्टं विकृष्टा मूढबुद्धयः। मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव ॥ ११ ॥ न केनचिच्च विक्रीता विक्रीता इव संस्थिताः । बत मूढा वयं सर्वे जानाना अपि शाम्बरम् ॥ १२ ॥ किमेतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः । मुधैव हि वयं मोहात्संस्थिता बद्धभावनाः ॥ १३ ॥ आ ज्ञातं बहुकालेन व्यर्थमेव वयं वने। मोहे निपतिता मुग्धाः श्वभ्रे मुग्धा मृगा इव ॥ १४ ॥ किं मे राज्येन किं भोगैः कोऽहं किमिदमागतम् । यन्मिथ्यैवास्तु तन्मिथ्या कस्य नाम किमागतम् ॥ १५ ॥ एवं विमृशतो ब्रह्मन्सर्वेष्वेव ततो मम। भावेष्वरतिरायाता पथिकस्य मरुष्विव ॥ १६ ॥ तदेतद्भगवन्ब्रूहि किमिदं परिणश्यति । किमिदं जायते भूयः किमिदं परिवर्धते ॥ १७ ॥ जरामरणमापच्च जननं संपदस्तथा । आविर्भावतिरोभावैर्विवर्धन्ते पुनःपुनः ॥ १८ ॥ ८....