अध्याय २.११, श्लोक ३५–४३
योग वशिष्ठ २.११.३५–४३ (दिव्य ज्ञान और उसे प्राप्त करने के लिए सिद्ध गुरु की महत्वपूर्ण भूमिका) श्रीवसिष्ठ उवाच । विषमेयमनन्तेह राम संसारसंसृतिः । देहयुक्तो महाजन्तुर्विना ज्ञानं न पश्यति ॥ ३५ ॥ ज्ञानयुक्तिप्लवेनैव संसाराब्धिं सुदुस्तरम् । महाधियः समुत्तीर्णा निमेषेण रघूद्वह ॥ ३६ ॥ तामिमां ज्ञानयुक्तिं त्वं संसाराम्भोधितारिणीम् । शृणुष्वावहितो बुद्ध्या नित्यावहितया तया ॥ ३७ ॥ यस्मादनन्तसंरम्भा जागत्यो दुःखभीतयः। चिरायान्तर्दहन्त्येता विना युक्तिमनिन्दिताम् ॥ ३८ ॥ शीतवातातपादीनि द्वन्द्वदुःखानि राघव । ज्ञानशक्तिं विना केन सह्यतां यान्ति साधुषु ॥ ३९ ॥ आपतन्ति प्रतिपदं यथाकालं दहन्ति च । दुःखचिन्ता नरं मूढं तृणमग्निशिखा इव ॥ ४० ॥ प्राज्ञं विज्ञातविज्ञेयं सम्यग्दर्शनमाधयः । न दहन्ति वनं वर्षासिक्तमग्निशिखा इव ॥ ४१ ॥ आधिव्याधिपरावर्ते संसारमरुमारुते। क्षुभितेऽपि न तत्त्वज्ञो भज्यते कल्पवृक्षवत् ॥ ४२ ॥ तत्त्वं ज्ञातुमतो यत्नाद्धीमानेव हि धीमता । प्रामाणिकः प्रबुद्धात्मा प्रष्टव्यः प्रणयान्वितम् ॥ ४३ ॥ महर्षि वशिष्ठ ने कहा: २.११.३५: हे राम, संसार का चक्र संकटपूर्ण और अंतहीन है। महापुरुष, ...