अध्याय २.९, श्लोक ११–२२
योग वशिष्ठ २.९.११–२२ (भाग्य और मानव प्रयास, इच्छा और मन से उसका संबंध) श्रीराम उवाच । भगवन्सर्वधर्मज्ञ यत्प्राक्कर्मोपसंचितम् । तद्दैव दैवमित्युक्तमपमृष्ट कथं त्वया ॥ ११ ॥ श्रीवसिष्ठ उवाच । साधु राघव जानासि शृणु वक्ष्यामि तेऽखिलम् । दैवं नास्तीति ते येन स्थिरा बुद्धिर्भविष्यति ॥ १२ ॥ या मनोवासना पूर्व बभूव किल भूरिशः । सैवेयं कर्मभावेन नृणां परिणतिं गता ॥ १३ ॥ जन्तुर्यद्वासनो राम तत्कर्ता भवति क्षणात् । अन्यकर्मान्यभावश्चेत्येतन्नैवोपपद्यते ॥ १४ ॥ ग्रामगो ग्राममाप्नोति पत्तनार्थी च पत्तनम् । यो यो यद्वासनस्तत्र स स प्रयतते सदा ॥ १५ ॥ यदेव तीव्रसंवेगाद्दृढं कर्म कृतं पुरा । तदेव दैवशब्देन पर्यायेणेह कथ्यते ॥ १६ ॥ एवं कर्मस्थकर्माणि कर्मप्रौढा स्ववासना । वासना मनसो नान्या मनो हि पुरुषः स्मृतः ॥ १७ ॥ यदैवं तानि कर्माणि कर्म साधो मनो हि तत् । मनो हि षुरुषस्तस्माद्दैव नास्तीति निश्चयः ॥ १८ ॥ एष एव मनोजन्तुर्यद्यत्प्रयतते हितम् । कृतं तत्तदवाप्नोति स्वत एव हि दैवतः ॥ १९ ॥ मनश्चित्तं वासना च कर्म दैवं च निश्चयः । राम दुर्निश्चयस्यैताः संज्ञाः सद्भिरुदाहृताः ॥ २० ॥ एवंनामा हि पुरुषो दृढभावनया ...