अध्याय ३.११६, श्लोक १–९
योगवशिष्ट ३.११६.१–९ (लवण राजा के अद्भुत अनुभव) श्रीराम उवाच। राजसूयफलं प्राप्तं लवणेन किल प्रभो। प्रमाणं किमिवात्र स्यात्कल्पनाजालशम्बरे ॥ १॥ श्रीवसिष्ठ उवाच। यदा शाम्बरिकः काले संप्राप्तो लावणीं सभाम्। तदाहमवसं तत्र तत्प्रत्यक्षेण दृष्टवान् ॥ २॥ अहं सभ्यैस्ततस्तत्र गते शाम्बरिकर्मणि। किमेतदिति यत्नेन पृष्टश्च लवणेन च ॥ ३॥ चिन्तयित्वा मया दृष्ट्वा तत्र तत्कथितं ततः। श्रृणु तत्ते प्रवक्ष्यामि राम शाम्बरिकेहितम् ॥ ४॥ राजसूयस्य कर्तारो ये हि ते द्वादशाब्दिकम्। आपद्दुःखं प्राप्नुवन्ति नानाकारव्यथामयम् ॥ ५॥ अतः शक्रेण गगनाद्दुःखाय लवणस्य सः। प्रहितो देवदूतो हि राम शाम्बरिकाकृतिः ॥ ६॥ राजसूयक्रियाकर्तुस्तस्य दत्त्वा महापदम्। अगच्छत्स नभोमार्गं सुरसिद्धनिषेवितम् ॥ ७॥ तस्मात्प्रत्यक्षमेवैतद्राम नात्र संदेहोऽस्ति । मनो हि विलक्षणानां क्रियाणां कर्तृ भोक्तृ च तदेव निर्घृष्य संशोध्य चित्तरत्नमिह हिमकणमिवातपेन विलीनतां विवेकेन नीत्वा परं श्रेयः प्राप्स्यसि । चित्तमेव सकलभूताडम्बरकारिणीमविद्यां विद्धि । सा विचित्रकेन्द्रजालवशादिदमुत्पादयति । अविद्याचित्तजीवबुद्धिशब्दानां भेदो नास्ति वृक्षतरुशब्दयोर...