अध्याय १.२०, श्लोक २४–३३
योग वशिष्ठ १.२०.२४–३३ (यौवन की मृगतृष्णा) श्रीराम उवाच। रसकेसरसंबाधं कुविकल्पदलाकुलम्। दुश्चिन्ताचञ्चरीकाणां पुष्करं विद्धि यौवनम् ॥ २४ ॥ कृताकृतकुपक्षाणां हृत्सरस्तीरचारिणाम्। आधिव्याधिविहंगानामालयो नवयौवनम् ॥ २५ ॥ जडानां गतसंख्यानां कल्लोलानां विलासिनाम् । अनपेक्षितमर्यादो वारिधिर्नवयौवनम् ॥ २६ ॥ सर्वेषां गुणसर्गाणां परिरूढरजस्तमाः। अपनेतुं स्थितिं दक्षो विषमो यौवनानिलः ॥ २७ ॥ नयन्ति पाण्डुतां वक्रमाकुलावकरोत्कटाः। आरोहन्ति परां कोटिं रूक्षा यौवनपांसवः ॥ २८ ॥ उद्वोधयति दोषालिं निकृन्तति गुणावलिम् । नराणां यौवनोल्लासो विलासो दुष्कृतश्रियाम् ॥ २९ ॥ शरीरपङ्कजरजश्चञ्चलां मतिषट्पदीम्। निबध्नन्मोहयत्येष नवयौवनचन्द्रमाः ॥ ३० ॥ शरीरखण्डकोद्भूता रम्या यौवनवल्लरी। लग्नमेव मनोभृङ्गं मदयत्युन्नतिं गता ॥ ३१ ॥ शरीरमरुतापोत्थां युवतामृगतृष्णिकाम्। मनोमृगाः प्रधावन्तः पतन्ति विषयावटे ॥ ३२ ॥ शरीरशर्वरीज्योत्स्ना चित्तकेसरिणः सटा। लहरी जीविताम्भोधेर्युवता मे न तुष्टये ॥ ३३ ॥ श्रीराम ने कहा: श्लोक २४ : "युवावस्था को कमल के तालाब के समान समझो, जो सुखों के मादक सार से भरा हुआ है, तथा जिसमें अशांत ...