अध्याय ३.६२, श्लोक २३–३३
योगवशिष्ट ३.६२.२३–३३ (ये श्लोक पौरुष या मानवीय प्रयास पर जोर देते हैं बजाय दैव पर निष्क्रिय निर्भरता के) श्रीवसिष्ठ उवाच । प्रष्टव्योऽहं त्वया राम दैवपौरुषनिर्णयः। मदुक्तं पौरुषं पाल्यं त्वयेति नियतिः स्थिता ॥ २३॥ भोजयिष्यति मां दैवमिति दैवपरायणः। यत्तिष्ठत्यक्रियो मौनं नियतेरेष निश्चयः ॥ २४॥ न स्याद्बुद्धिर्न कर्माणि न विकारादि नाकृतिः। केवलं त्वित्थमाकल्पं स्थित्या भाव्यमिति स्थिताः ॥ २५॥ अवश्यंभवितव्यैषा त्विदमित्थमिति स्थितिः। न शक्यते लङ्घयितुमपि रुद्रादिबुद्धिभिः ॥ २६॥ पौरुषं न परित्याज्यमेतामाश्रित्य धीमता। पौरुषेणैव रूपेण नियतिर्हि नियामिका ॥ २७॥ अपौरुषं हि नियतिः पौरुषं सैव सर्गगा। निष्फलाऽपौरुषाकारा सफला पौरुषात्मिका ॥ २८॥ नियत्या मूकतामेत्य निष्पौरुषतयाऽक्रियम्। यस्तिष्ठति प्राणमरुत्स्पन्दस्तस्य क्व गच्छति ॥ २९॥ अथ प्राणक्रियारोधमपि कृत्वा विरामदम्। यदि तिष्ठति तत्साधुर्मुक्त एव किमुच्यते ॥ ३०॥ पौरुषैकात्मता श्रेयो मोक्षोऽत्यन्तमकर्तृता। आभ्यां तु सबलः पक्षो निर्दुःखैव महात्मनाम् ॥ ३१॥ नियतिर्ब्रह्मसत्ताभा तस्यां चेत्परिणम्यते। नूनं परमशुद्धाख्यं तत्प्राप्तैव परागतिः ॥ ...