अध्याय ३.४, श्लोक ६९–८०
योग वशिष्ठ ३.४.६९–८० (परम सत्य - ब्रह्म - पूर्ण, शांत और सर्वव्यापी है) श्रीवसिष्ठ उवाच । पूर्णे पूर्णं प्रसरति शान्ते शान्तं व्यवस्थितम् । व्योमन्येवोदितं व्योम ब्रह्मणि ब्रह्म तिष्ठति ॥ ६९ ॥ न दृश्यमस्ति सद्रूपं न द्रष्टा न च दर्शनम्। न शून्यं न जडं नो चिच्छान्तमेवेदमाततम् ॥ ७० ॥ श्रीराम उवाच । वन्ध्यापुत्रेण पिष्टोऽद्रिः शशशृङ्गं प्रगायति । प्रसार्य भुजसंपातं शिला नृत्यति ताण्डवम् ॥ ७१ ॥ स्रवन्ति सिकतास्तैलं पठन्त्युपलपुत्रिकाः। गर्जन्ति चित्रजलदा इतीवेदं वचः प्रभो ॥ ७२ ॥ जरामरणदुःखादिशैलाकाशमयं जगत् । नास्तीति किमिदं नाम भवताऽपि ममोच्यते ॥ ७३ ॥ यथेदं न स्थितं विश्वं नोत्पन्नं न च विद्यते । तथा कथय मे ब्रह्मन्येनैतन्निश्चितं भवेत् ॥ ७४ ॥ श्रीवसिष्ठ उवाच । नासमन्वितवागस्मि श्रृणु राघव कथ्यते। यथेदमसदाभाति वन्ध्यापुत्र इवाऽऽरवी ॥ ७५ ॥ इदमादावनुत्पन्नं सर्गादौ तेन नास्त्यलम्। इदं हि मनसो भाति स्वप्नादौ पत्तनं यथा ॥ ७६ ॥ मन एव च सर्गादावनुत्पन्नमसद्वपुः । तदेतच्छ्रणु वक्ष्यामि यथैवमनुभूयते ॥ ७७ ॥ मनोदृश्यमयं दोषं तनोतीमं क्षयात्मकम्। असदेव सदाकारं स्वप्नः स्वप्नान्तरं यथा ॥ ७८ ॥ तत्स्वय...