अध्याय १.२०, श्लोक ३४–४३
योग वशिष्ठ १.२०.३४–४३ (कमजोर और अल्पायु युवावस्था के लिए करुणा) श्रीराम उवाच। दिनानि कतिचिद्येयं फलिता देहजङ्गले। युवता शरदस्यां हि न समाश्वासमर्हथ ॥ ३४ ॥ झटित्येव प्रयात्येव शरीराद्युवताखगः। क्षणेनैवाल्पभाग्यस्य हस्ताच्चिन्तामणिर्यथा ॥ ३५ ॥ यदा यदा परां कोटिमध्यारोहति यौवनम् । वल्गन्ति सज्वराः कामास्तदा नाशाय केवलम् ॥ ३६ ॥ तावदेव विवल्गन्ति रागद्वेषपिशाचकाः । नास्तमेति समस्तैषा यावद्यौवनयामिनी ॥ ३७ ॥ नानाविकारबहुले वराके क्षणनाशिनि। कारुण्यं कुरु तारुण्ये म्रियमाणे सुतै यथा ॥ ३८ ॥ हर्षमायाति यो मोहात्पुरुषः क्षणभङ्गिना । यौवनेन महामुग्धः स वै नरमृगः स्मृतः ॥ ३९ ॥ मानमोहान्मदोन्मत्तं यौवनं योऽभिलष्यति । अचिरेण स दुर्बुद्धिः पश्चात्तापेन युज्यते ॥ ४० ॥ ते पूज्यास्ते महात्मानस्त एव पुरुषा भुवि । ये सुखेन समुत्तीर्णाः साधो यौवनसंकटात् ॥ ४१ ॥ सुखेन तीर्यतेऽम्भोधिरुत्कृष्टमकराकरः । न कल्लोलबलोल्लासि सदोषं हतयौवनम् ॥ ४२ ॥ विनयभूषितमार्यजनास्पदं करुणयोज्ज्वलमावलितं गुणैः । इह हि दुर्लभमङ्ग सुयौवनं जगति काननमम्बरगं यथा ॥ ४३ ॥ श्रीराम ने कहा: ३४ . "हे ऋषिवर, युवावस्था शरीर रूपी वन में कुछ ...