Posts

Showing posts with the label धन

अध्याय १.१३, श्लोक १–१०

योग वशिष्ठ १.१३.१–१०  (श्रीराम ने धन की त्रासदी पर आगे कहा) त्रयोदशः सर्गः श्रीराम उवाच । इयमस्मिन्स्थितोदारा संसारे परिकल्पिता । श्रीर्मुने परिमोहाय सापि नूनं कदर्थदा ॥ १ ॥ उल्लासबहुलानन्तकल्लोलानलमाकुलान् । जडान्प्रवहति स्फारान्प्रावृषीव तरङ्गिणी ॥ २ ॥ चिन्तादुहितरो बह्वयो भूरिदुर्ललितैधिताः । चञ्चलाः प्रभवन्त्यस्यास्तरङ्गाः सरितो यथा ॥ ३ ॥ एषा हि पदमेकत्र न निबध्नाति दुर्भगा। दग्धेवानियताचारमितश्चेतश्च धावति ॥ ४ ॥ जनयन्ती परं दाहं परामृष्टाङ्गिका सती। विनाशमेव धत्तेऽन्तर्दीपलेखेव कज्जलम् ॥ ५ ॥ गुणागुणविचारेण विनैव किल पार्श्वगम्। राजप्रकृतिवन्मूढा दुरारूढाऽवलम्बते ॥ ६ ॥ कर्मणा तेनतेनैषा विस्तारमनुगच्छति। दोषाशीविषवेगस्य यत्क्षीरं विस्तरायते ॥ ७ ॥ तावच्छीतमृदुस्पर्शाः परे स्वे च जने जनाः। वात्ययेव हिमं यावच्छ्रिया न परुषीकृताः ॥ ८ ॥ प्राज्ञाः शूराः कृतज्ञाश्च पेशला मृदवश्च ये । पांसुमुष्ट्येव मणयः श्रिया ते मलिनीकृताः ॥ ९ ॥ न श्रीः सुखाय भगवन्दुःखायैव हि वर्धते। गुप्ता विनाशनं धत्ते मृतिं विषलता यथा ॥ १० ॥ राजकुमार राम बोलते रहते हैं: १. "हे ऋषि, इस संसार में व्याप्त यह वैभव-जिस...