अध्याय ३.२२, श्लोक २१–३३
योगवशिष्ट ३.२२.२१–३३ (सच्चा आध्यात्मिक अभ्यास इस दृढ़ समझ को विकसित करने के इर्द-गिर्द घूमता है कि अनुभव की जाने वाली दुनिया मायावी और अस्तित्वहीन है) लीलोवाच । तदेतदुपदिष्टं मे ज्ञानं देवि त्वयाऽमलम् । यस्मिञ्श्रुतिगते शान्तिमेति दृश्यविषूचिका ॥ २१ ॥ अत्रोपकुरु मे ब्रूहि कोऽभ्यासः कीदृशोऽथवा । स कथं पोषमायाति पुष्टे तस्मिंश्च किं भवेत् ॥ २२ ॥ श्रीदेव्युवाच । यद्येन क्रियते किंचिद्येन येन यदा यदा । विनाभ्यासेन तन्नेह सिद्धिमेति कदाचन ॥ २३ ॥ तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः ॥ २४ ॥ ये विरक्ता महात्मानो भोगभावनतानवम् । भावयन्त्यभवायान्तर्भव्या भुवि जयन्ति ते ॥ २५ ॥ उदितौदार्यसौन्दर्यवैराग्यरसरञ्जिता । आनन्दस्पन्दिनी येषां मतिस्तेऽभ्यासिनः परे ॥ २६ ॥ अत्यन्ताभावसंपत्तौ ज्ञातृज्ञेयस्य वस्तुनः । युक्त्या शास्त्रैर्यतन्ते ये ते ब्रह्माभ्यासिनः स्थिताः ॥ २७ ॥ सर्गादावेव नोत्पन्नं दृश्यं नास्त्येव तत्सदा । इदं जगदहं चेति बोधाभ्यास उदाहृतः ॥ २८ ॥ दृश्यासंभवबोधेन रागद्वेषादितानवे। रतिर्बलोदिता यासौ ब्रह्माभ्यास उदाहृतः ॥ २९ ॥ दृश्यासंभवबोधेन विना ...