Posts

Showing posts with the label लोभ

अध्याय १.१८, श्लोक १३–२१

योगवशिष्ट १.१८.१३ – २१ (लोभ एवं तृष्णा)   श्रीराम उवाच। तृष्णाभुजङ्गमीगेहं कोप काक कृतालयः । स्मितपुण्योद्गमः श्रीमाञ्छुभाशुभमहाफलः ॥ १३ ॥ सुस्कन्धोघलताजालो हस्तस्तबकसुन्दरः। पवनस्पन्दिताशेषस्वाङ्गावयवपल्लवः ॥ १४ ॥ सर्वेन्द्रियखगाधारः सुजानुस्तम्भ उन्नतः। सरसच्छायया युक्तः कामपान्थनिषेवितः ॥ १५ ॥ मूर्धसंजनिताऽऽदीर्घशिरोरुहतृणावलिः । अहंकारगृध्रकृतकुलायः सुषिरोदरः ॥ १६ ॥ विच्छिन्नवासनाजालमूलत्वाद्दुर्लवाकृतिः । व्यायामविरसः कायप्लक्षोऽयं न सुखाय मे ॥ १७ ॥ कलेवरमहंकारगृहस्थस्य महागृहम् । लुठत्वभ्येतु वा स्थैर्यं किमनेन मुने मम ॥ १८ ॥ पङ्क्तिबद्धेन्द्रियपशुं वलत्तृष्णागृहाङ्गनम् । रागरञ्जितसर्वाङ्गं नेष्टं देहगृहं मम ॥ १९ ॥ पृष्ठास्थिकाष्ठसंघट्टपरिसंकटकोटरम् । आन्त्ररज्जुभिराबद्धं नेष्टं देहगृहं मम ॥ २० ॥ प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम् । जरामङ्कोलधवलं नेष्टं देहगृहं मम ॥ २१ ॥ श्रीराम ने कहाः १३ . "यह शरीर तृष्णा रूपी सर्प से भरा हुआ घर है, क्रोध रूपी कौआ इसमें निवास करता है, तथा कभी-कभी मुस्कान और पुण्य की झिलमिलाहट से प्रकाशित होता है। यह एक भव्य भवन है, जो शुभ और अशुभ दो...