अध्याय ३.५८, श्लोक १०–२४
योगवशिष्ट ३.५८.१०–२४ (ये छंद सिखाते हैं कि संसार और हमारे शरीर हमारी गहरी छिपी हुई वासनाओं द्वारा बनाए गए प्रक्षेप हैं) ज्ञाप्तिरुवाच । त्वं तु तेन शरीरेण सत्यसंकल्पतः सुते। दृश्यसे स्ववदातेन चित्रं तत्र तवोपरि ॥ १०॥ यद्वासना त्वमभवो देहं प्रति तदेव ते। रूपमभ्युदितं बाले तेन प्राक्सदृशं तव ॥ ११॥ स्ववासनानुसारेण सर्वः सर्वं हि पश्यति। दृष्टान्तोऽत्राविसंवादी बालवेतालदर्शनम् ॥ १२॥ आतिवाहिकदेहासि संपन्ना सिद्धसुन्दरि। विस्मृतस्त्वेव देहोऽसौ प्राक्तनोऽनपवासनः ॥ १३॥ रूढातिवाहिकदृशः प्रशाम्यत्याधिभौतिकः। बुधस्य दृश्यमानोऽपि शरन्मेघ इवाम्बरे ॥ १४॥ रूढातिवाहिकीभावः सर्वो भवति देहकः। निर्जलाम्भोदसदृशो निर्गन्धकुसुमोपमः ॥ १५॥ सद्वासनस्य रूढायामातिवाहिकसंविदि। देहो विस्मृतिमायाति गर्भसंस्थेव यौवने ॥ १६॥ एकत्रिंशेऽद्य दिवसे प्राप्ता वयमिहाम्बरे। प्रभाते मोहिते दास्यौ मयैते निद्रयाधुना ॥ १७॥ तदेहि यावल्लीलायै लीले संकल्पलीलया। आत्मानं दर्शयावोऽस्यै व्यवहारः प्रवर्तताम् ॥ १८॥ श्रीवसिष्ठ उवाच । आवां तावदिमे लीला पश्यत्वित्येव चिन्तिते। ज्ञप्त्या देव्या ततस्तत्र दृश्ये दीप्ते बभूवतुः ॥ १९॥ सा विद...