Posts

Showing posts with the label आत्मज्ञान

अध्याय २.१२, श्लोक १३–१६

योग वशिष्ठ २.१२.१३–१६ (दुख का मूल अज्ञान और मायावी संसार से आसक्ति है) श्रीवसिष्ठ उवाच । विचारवता पुरुषेण सकलमिदमाधिपञ्जरं सर्पेण त्वचमिव परिपक्वां संत्यज्य विगतज्वरेण शीतलान्तःकरणेन विनोदादिन्द्रजालमिव जगदखिलमालोक्यते सम्यग्दर्शनवता असम्यग्दर्शनवतो हि परं दुःखमिदम् ॥ १३ ॥ विषमो ह्यतितरां संसाररागो भोगीव दशति असिरिव च्छिनत्ति कुन्त इव वेधयति रज्जुरिवावेष्टयति पावक इव दहति रात्रिरिवान्धयति अशङ्कितपरिपतितपुरुषान्पाषाण इव विवशीकरोति हरति प्रज्ञां नाशयति स्थितिं पातयति मोहान्धकूपे तृष्णा जर्जरीकरोति न तदस्ति किंचिद्दुःखं संसारी यन्न प्राप्नोति ॥ १४ ॥ दुरन्तेयं किल विषयविषूचिका यदि न चिकित्स्यते तन्नितरां नरकनगरनिकरफलानुबन्धिनी तत्तत्करोति ॥ १५ ॥ यत्र शिलाशितासिशातः पात उपलताडनमग्निदाहो हिमावसेकोऽङ्गावकर्तनं चन्दनचर्चातरुवनानि घुणवृत्तान्तःपरिवेषोऽङ्गपरिमार्जनमनवरतानलविचलितसमरनाराचनिपातो निदाघविनोदनं धारागृहसीकरवर्षणं शिरश्छेदः सुखनिद्रामूकीकरणमाननमुद्राबान्धुर्य महानुपचयः ॥ १६ ॥ महर्षि वशिष्ठ ने कहा: २.१२.१  विवेक विकसित करने वाला व्यक्ति इस संपूर्ण संसार को, जो मोह के पिंजरे के समान ह...