Posts

Showing posts with the label पुनर्जन्म

अध्याय ३.२७, श्लोक ५१–५९

योगवशिष्ट ३.२७.५१–५९ (संसार के जीवन की पीड़ादायक और चंचल स्वभाव की उपमा एक लंबी, उफनती हुई नदी से दी जाती है, जहाँ जीव कामना और कर्म की हवाओं से बेसहारा बहता फिरता है) लीलोवाच । कनकस्यन्दसंदोह सुन्दरैरङ्गपञ्जरैः। स्वर्गेऽप्सरोम्बुजिन्याशु तोषिताः सुरषट्पदाः ॥ ५१ ॥ मणिकाञ्चनमाणिक्यमुक्तानिकरभूतले । कल्पद्रुमवने मेरौ यूना सह रतं कृतम् ॥ ५२ ॥ कल्लोलाकुलकच्छासु लसद्गुच्छलतासु च । वेलावनगुहास्वब्धेश्चिरं कूर्मतया स्थितम् ॥ ५३ ॥ तरत्तारतरङ्गासु दोलनं सरसालिनाम्। चलच्छदपटालीषु राजहंस्यं मया कृतम् ॥ ५४ ॥ शाल्मलीदललोलानामान्दोलनदरिद्रताम् । मशकस्य मयालोक्य दीनं मशकया स्मितम् ॥ ५५ ॥ तरत्तारतरङ्गासु चञ्चद्वीच्यग्रचुम्बनैः। भ्रान्तं शैलस्रवन्तीषु जलवञ्जुललीलया ॥ ५६ ॥ गन्धमादनमन्दारमन्दिरे मदनातुरा । पातिताः पादयोः पूर्वं विद्याधरकुमारकाः ॥ ५७ ॥ कर्णिकर्पूरपूरेषु तल्पेषु व्यसनातुरा । चिरं विलुलितास्मीन्दुबिम्बेष्विव शशिप्रभा ॥ ५८ ॥ योनिष्वनेकविधदुःखशतान्वितासु भ्रान्तं मयोन्नमनसन्नमनाकुलात्मा। संसारदीर्घसरितश्चलया लहर्या दुर्वारवातहरिणीसरणक्रमेण ॥ ५९ ॥ रानी लीला आगे बोलीं: ३.२७.५१ स्वर्ग में, सोने ...