अध्याय ३.१०५, श्लोक १०–२०
योगवशिष्ट ३.१०५.१०–२० (मन क्षणिक आकर्षक लगने वाली वस्तुओं की ओर आसानी से खिंच जाता है जो बाद में खोखली सिद्ध होती हैं) श्रीवसिष्ठ उवाच। आपातरमणीयेषु पर्यन्तविरसेषु च। भोगेष्विव विकल्पेषु केषु ते लुलितं मनः ॥ १०॥ सततोदारवृत्तासु कथासु परिशीतलम्। मनस्ते निर्मलं कस्मात्संभ्रमेषु निमज्जति ॥ ११॥ तुच्छालम्बनमालूनविशीर्णं लोकवृत्तिषु। मनो मोहमुपादत्ते न महत्त्वविजृम्भितम् ॥ १२॥ सातत्येन हि यैवास्य मनसो वृत्तिरुत्थिता। शरीरमदमत्तासु तामेवैतद्विधावति ॥ १३॥ अतुच्छालम्बनं धीरं प्रबुद्धं गुणहारि च। तवापि हि मनश्चित्रमालूनमिव लक्ष्यते ॥ १४॥ अनभ्यस्तविवेकं हि देशकालवशानुगम्। मन्त्रौषधिवशं याति मनो नोदारवृत्तिमत् ॥ १५॥ नित्यमात्तविवेकस्य कथमालूनशीर्णता। धुनोति विततं चेतो वात्येव विबुधाचलम् ॥ १६॥ इति जातानुगीर्णस्य भूपतेः कान्तिराननम्। भूषयामास शीतांशुं मासान्त इव पूर्णता ॥ १७॥ रराज राजा सौम्यास्यमुन्मीलितविलोचनः। गते हिमर्तावुल्लासिपुष्पौघ इव माधवः ॥ १८॥ अथातिसंभ्रमाश्चर्यखिन्नास्मृतिमुखो बभौ। आसन्नमृत्युरालोक्य राहुमिन्दुरिवाम्बरे ॥ १९॥ ऐन्द्रजालिकमालोक्य प्रोवाचाथ हसन्निव। बभुं हिंसात्मकं दृष्ट्वा ...