अध्याय ३.२६, श्लोक १–१०
योगवशिष्ट ३.२६.१–१० (सांसारिक आसक्ति से उत्पन्न दुख, तथा आत्म-साक्षात्कार की मुक्तिदायक आनंद) श्रीवसिष्ठ उवाच । इति ते वरवर्णिन्यौ ततो ब्रह्माण्डमण्डलात् । निर्गत्यान्यदनुप्राप्ते यत्र तद्ब्राह्मणास्पदम् ॥ १ ॥ ततो ददृशतुः सद्म स्वमेवं सिद्धयोषितौ । अदृश्ये एव लोकस्य मण्डपं ब्राह्मणास्पदम् ॥ २ ॥ चिन्ताविधुरदासीकं बाष्पक्लिन्नाङ्गनामुखम् । विध्वस्तप्रायवदनं शीर्णपर्णाम्बुजोपमम् ॥ ३ ॥ नष्टोत्सवपुरप्रायमगस्त्यात्तमिवार्णवम् । ग्रीष्मदग्धमिवोद्यानं विद्युद्दग्धमिव द्रुमम् ॥ ४ ॥ वातच्छिन्नमिवाम्भोदं हिमदग्धमिवाम्बुजम् । अल्पस्नेहदशं दीपमिवालोकनभेदनम् ॥ ५ ॥ आसन्नमृत्युकरुणाकुलवक्त्रकान्ति संशीर्णजीर्णतरुपर्णवनोपमानम् । वृष्टिव्यपायपरिधूसरदेशरूक्षं जातं गृहेश्वरवियोगहतं गृहं तत् ॥ ६ ॥ अथ सा निर्मलज्ञानचिराभ्यासेन सुन्दरी । संपन्ना सत्यसंकल्पा सत्यकामा च देववत् ॥ ७ ॥ चिन्तयामास मामेते देवीं चेमां स्वबन्धवः । पश्यन्तु तावत्सामान्यललनारूपधारणीम् ॥ ८॥ ततो गृहजनस्तत्र स ददर्शाङ्गनाद्वयम्। लक्ष्मीगौर्योर्युगमिव समुद्भासितमन्दिरम् ॥ ९ ॥ आपादविविधाम्लानमालावसनसुन्दरम् । वसन्तलक्ष्म्योर्युगलमिवाम...