अध्याय २.११, श्लोक ४४–५४
योग वशिष्ठ २.११.४४–५४ (योग्य छात्र और शिक्षक के गुण) श्रीवसिष्ठ उवाच । प्रामाणिकस्य पृष्टस्य वक्तुरुत्तमचेतसः। यत्नेन वचनं ग्राह्यमंशुकेनेव कुङ्कुमम् ॥ ४४ ॥ अतत्त्वज्ञमनादेयवचनं वाग्विदां वर । यः पृच्छति नरं तस्मान्नास्ति मूढतरोऽपरः ॥ ४५ ॥ प्रामाणिकस्य तज्ज्ञस्य वक्तुः पृष्टस्य यत्नतः । नानुतिष्ठति यो वाक्य नान्यस्तस्मान्नराधमः ॥ ४६ ॥ अज्ञतातज्ज्ञते पूर्व वक्तुर्निर्णीय कार्यतः। यः करति नरः प्रश्नं प्रच्छकः स महामतिः ॥ ४७ ॥ अनिर्णीय प्रवक्तारं बालः प्रश्नं करोति यः । अधम प्रच्छकः स स्यान्न महार्थस्य भाजनम् ॥ ४८ ॥ पूर्वापरसमाधानक्षमबुद्धावनिन्दिते । पृष्टं प्राज्ञेन वक्तव्यं नाधमे पशुधर्मिणि ॥ ४९ ॥ प्रामाणिकार्थयोग्यत्वं प्रच्छकस्याविचार्य च । यो वक्ति तमिह प्राज्ञाः प्राहुर्मूढतरं नरम् ॥ ५० ॥ त्वमतीव गुणश्लाघी प्रच्छको रघुनन्दन। अहं च वक्तुं जानामि समो योगोऽयमावयों ॥ ५१ ॥ यदहं वच्मि तद्यत्नात्त्वया शब्दार्थकोविद । एतद्वस्त्विति निर्णीय हृदि कार्यमखण्डितम् ॥ ५२ ॥ महानसि विरक्तोऽसि तत्त्वज्ञोऽसि जनस्थितौ । त्वयि चोक्तं लगत्यन्तः कुङ्कुमाम्बु यथांशुके ॥ ५३ ॥ उक्तावधानपरमा परमार्थविवे...