Posts

Showing posts with the label शांत

अध्याय ३.१०२, श्लोक ३२–४१

योगवशिष्ट ३.१०२.३२–४१ (मन और उसके द्वारा रचा गया जगत्-आभास केवल स्पष्ट विचार और विवेक से ही लीन हो सकता है) श्रीवसिष्ठ उवाच। लयमस्याः स्वरूपं त्वं नय राम विचारणात्। यथा हिमशिलायास्तु तपनाद्दिवसाधिपः ॥ ३२॥ हिमाभावार्थिनोऽर्कस्य स्वोदयेनेप्सितं यथा। सिद्ध्यत्येवं विचारेण मनोनाशार्थिनोऽर्थितम् ॥ ३३॥ अविद्याऽसंप्रबुद्धा हि विततानर्थदुर्गमा। नानेन्द्रजालकलनां शम्बरो हेम वर्षति ॥ ३४॥ स्वविनाशक्रियां चैतां मन एव करोत्यलम्। मनो ह्यात्मवधं नाम नाटकं परिनृत्यति ॥ ३५॥ आत्मानमीक्षते चेतः स्वविनाशाय केवलम्। नहि जानाति दुर्बुद्धिर्विनाशं प्रत्युपस्थितम् ॥ ३६॥ स्वयं संकल्पमात्रेण स्वविनाशदृशामिदम्। मनः संसाधयत्याशु क्लेशो नात्रोपयुज्यते ॥ ३७॥ स्वसंकल्पविकल्पांशं विवेकोपहितं मनः। संत्यज्य रूपमाभोगि करोत्यात्मावबोधनम् ॥ ३८॥ महोदयो मनोनाशो महोच्छेदस्य तूदयः। मनोनाशे प्रयत्नं त्वं कुरु मा मनसो जवे ॥ ३९॥ अविरलसुखदुःखवृक्षखण्डे विषमकृतान्तमहोरगे वनेऽस्मिन्। प्रभुरिदमखिले विवेकहीनं सुभग मनो महदापदेकहेतुः ॥ ४०॥ इत्युक्तवत्यथ मुनौ दिवसो जगाम सायंतनाय विधयेऽस्तमिनो जगाम। स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षय...