अध्याय १.१८, श्लोक ५३ – ६२
योग वशिष्ठ १.१८.५३ – ६२ (शरीर के बारे में अज्ञान) श्रीराम उवाच। नाहं देहस्य नो देहो मम नायमहं तथा। इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः ॥ ५३ ॥ मानावमानबहुला बहुलाभमनोरमाः । शरीरमात्रबद्धास्थं घ्नन्ति दोषदृशो नरम् ॥ ५४ ॥ शरीरश्वभ्रशायिन्या पिशाच्या पेशलाङ्गया । अहंकारचमत्कृत्या छलेन छलिता वयम् ॥ ५५ ॥ प्रज्ञा वराका सर्वैव कायबद्धास्थयानया । मिथ्याज्ञानकुराक्षस्या छलिता कष्टमेकिका ॥ ५६ ॥ न किंचिदपि दृश्येऽस्मिन्सत्यं तेन हतात्मना । चित्रं दग्धशरीरेण जनता विप्रलभ्यते ॥ ५७ ॥ दिनैः कतिपयैरेव निर्झराम्बुकणो यथा। पतत्ययमयत्नेन जरठः कायपल्लवः ॥ ५८ ॥ कायोऽयमचिरापायो बुद्बुदोऽम्बुनिधाविव । व्यर्थं कार्यपरावर्ते परिस्फुरति निष्फलः ॥ ५९ ॥ मिथ्याज्ञानविकारेऽस्मिन्स्वप्नसंभ्रमपत्तने । काये स्फुटतरापाये क्षणमास्था न मे द्विज ॥ ६० ॥ तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च । स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे ॥ ६१ ॥ सततभङ्गुरकार्यपरम्परा विजयिजातजयं हठवृत्तिषु । प्रबलदोषमिदं तु कलेवरं तृणमिवाहमपोह्य सुखं स्थितः ॥ ६२॥ श्रीराम ने कहाः ५३ . "हे ऋषिवर! जिनके मन में यह बोध है कि "मैं शरीर...