अध्याय २.१०, श्लोक १०–२३
योग वशिष्ठ २.१०.१०–२३ (यह संसार दिव्य चेतना से उत्पन्न है, फिर भी यह अज्ञान के कारण दुःखों से भरा है) श्रीराम उवाच । केनोक्तं कारणेनेदं ब्रह्मन्पूर्व स्वयंभुवा। कथं च भवता प्राप्तमेतत्कथय मे प्रभो ॥ १० ॥ श्रीवसिष्ठ उवाच । अस्त्यनन्तविलासात्मा सर्वगः सर्वसंश्रयः। चिदाकाशोऽविनाशात्मा प्रदीपः सर्वजन्तुषु ॥ ११ ॥ स्पन्दास्पन्दसमाकारात्ततो विष्णुरजायत । स्यन्दमानरसापूरात्तरङ्गः सागरादिव ॥ १२ ॥ सुमेरुकर्णिकात्तस्य दिग्दलाद्धृदयाम्बुजात् । तारकाकेसरवतः परमेष्ठी व्यजायत ॥ १३ ॥ वेदवेदार्थविद्देवमुनिमूण्डलमण्डितः । सोऽसृजत्सकल सग विकल्पौघं यथा मनः ॥ १४ ॥ जम्बूद्वूपिस्य कोणेऽखिरवर्षे भारतनामनि। ससज जनसर्गौधं ह्याधिव्याधिपरिप्लुतम् ॥ १५ ॥ भावाभावविषण्णाङ्गमुत्पात ध्वसतत्परम् । सर्गेऽस्मिन्भूतजातीना नानाव्यसनसकुलम् ॥ १६ ॥ जनस्यैतस्य दुःखं तद्दृष्ट्वा सकललोककृत्। जगाम करुणामीशः पुत्रदुःखात्पिता यथा ॥ १७ ॥ क एतेषां हताशानां दुःखस्यान्तो हतायुषाम् । स्यादिति क्षणमेकाग्रं चिन्तयामास भूतये ॥ १८ ॥ इति संचिन्त्य भगवान्ससर्ज स्वयमीश्वरः । तपो धर्म च दानं च सत्यं तीर्थानि चैव हि ॥ १९ ॥ एतत्सृष्ट्वा पुनदवाश्च...