अध्याय ३.९२, श्लोक १–१२
योगवशिष्ट ३.९२.१–१२ (मन एवं देह का संबंध ) श्रीवसिष्ठ उवाच। इत्युक्तवान्स भगवान्मया कमलसंभवः। रघूद्वह पुनः पृष्टो वाक्यमाक्षिप्य भूतपः ॥ १॥ त्वयैव भगवन्प्रोक्ताः शापमन्त्रादिशक्तयः। अमोघा इति ता एव कथं मोघाः कृताः पुनः ॥ २॥ शापेन मन्त्रवीर्येण मनोबुद्धीन्द्रियाण्यपि। सर्वाण्येव विमूढानि दृष्टानि किल जन्तुषु ॥ ३॥ यथैतौ पवनस्पन्दौ यथा स्नेहतिलौ यथा। अभिन्नौ तद्वदेवैतौ मनोदेहौ स एव तत् ॥ ४॥ अथ नास्तीह वा देहः केवलं चेतसैव सः। मुधानुभूयते स्वप्नमृगतृष्णाद्विचन्द्रवत् ॥ ५॥ एकनाशे द्वयोरेव नाशोऽत्राभ्युपपद्यते। अवश्यं भवितुं मनोनाशे देहपरिक्षयः ॥ ६॥ मनः शापादिभिर्दोषैः कथं नाक्रम्यते प्रभो। कथमाक्रम्यते वापि ब्रूहि मे परमेश्वर ॥ ७॥ ब्रह्मोवाच। न तदस्तिजगत्कोशे शुभकर्मानुपातिना। यत्पौरुषेण शुद्धेन न समासाद्यते जनैः ॥ ८॥ आब्रह्म स्थावरान्तं च सर्वदा सर्वजातयः। सर्व एव जगत्यस्मिन्द्विशरीराः शरीरिणः ॥ ९॥ एकं मनःशरीरं तु क्षिप्रकारि सदा चलम्। अकिंचित्करमन्यत्तु शरीरं मांसनिर्मितम् ॥ १०॥ तत्र मांसमयः कायः सर्वस्यैव च संगतः। सर्वैराक्रम्यते शापैस्तथा विद्यादिसंचयैः ॥ ११॥ मूकप्रायो ह्यशक्तोऽसौ दीनः ...