Posts

Showing posts with the label विश्वामित्र

अध्याय २.२, श्लोक १५–२८

योग वशिष्ठ २.२.१५–२८ (सांसारिक इच्छाओं को समाप्त करने और मन को शांति प्रदान करने के लिए सच्चे ज्ञान की शक्ति) विश्वामित्र उवाच । वसिष्ठ भगवन्पूर्वं कच्चित्स्मरसि यत्स्वयम् । आवयोर्वैरशान्त्यर्थं श्रेयसे च महाधियाम् ॥ १५ ॥ निषधाद्रेर्मुनीनां च सानौ सरलसंकुले। उपदिष्टं भगवता ज्ञानं पद्मभुवा बहु ॥ १६ ॥ येन युक्तिमता ब्रह्मन्ज्ञानेनेयं हि वासना। सांसारी नूनमायाति शमं श्यामेव भास्वता ॥ १७ ॥ तदेव युक्तिमज्ज्ञेयं रामायान्तेनिवासिने। ब्रह्मन्नुपदिशाशु त्वं येन विश्रान्तिमेष्यति ॥ १८ ॥ कदर्थना च नैवैषा रामो हि गतकल्पषः । निर्मले मुकुरे वक्त्रमयत्नेनैव बिम्बति ॥ १९ ॥ तज्ज्ञानं स च शास्त्रार्थस्त्वद्वैदग्ध्यमनिन्दितम् । सच्छिष्याय विरक्ताय साधो यदुपदिश्यते ॥ २० ॥ अशिष्यायाविरक्ताय यत्किंचिदुपदिश्यते । तत्प्रयात्यपवित्रत्वं गोक्षीरं श्वदृताविव ॥ २१ ॥ वीतरागभयक्रोधा निर्माना गलितैनसः । वदन्ति त्वादृशा यत्र तत्र विश्राम्यतीह धीः ॥ २२ ॥ इत्युक्ते गाधिपुत्रेण व्यासनारदपूर्वकाः । मुनयस्ते तमेवार्थं साधुसाध्वित्यपूजयन् ॥ २३ ॥ अथोवाच महातेजा राज्ञः पार्श्वे व्यवस्थितः । ब्रह्मेव ब्रह्मणः पुत्रो वसिष्ठो भ...

अध्याय २.२, श्लोक १–१४

योग वशिष्ठ २.२.१–१४ (सांसारिक सुखों से स्वाभाविक वैराग्य के रूप में प्रकट होने वाली सच्ची बुद्धि) विश्वामित्र उवाच । तस्य व्यासतनूजस्य मलमात्रोपमार्जनम्। यथोपयुक्तं ते राम तावदेवोपयुज्यते ॥ १ ॥ ज्ञेयमेतेन विज्ञातमशेषेण मुनीश्वराः। स्वदन्तेऽस्मै न यद्भोगा रोगा इव सुमेधसे ॥ २ ॥ ज्ञातज्ञेयस्य मनसो नूनमेतद्धि लक्षणम् । न स्वदन्ते समग्राणि भोगवृन्दानि यत्पुनः ॥ ३ ॥ भोगभावनया याति बन्धो दार्ढ्यमवस्तुजः । तयोपशान्तया याति बन्धो जगति तानवम् ॥ ४ ॥ वासनातानवं राम मोक्ष इत्युच्यते बुधैः । पदार्थवासनादार्ढ्यं बन्ध इत्यभिधीयते ॥ ५ ॥ स्वात्मतत्त्वाभिगमनं भवति प्रायशो नृणाम् । मुने विषयवैरस्यं कदर्थादुपजायते ॥ ६ ॥ सम्यक्पश्यति यस्तज्ज्ञो ज्ञातज्ञेयः स पण्डितः । न स्वदन्ते बलादेव तस्मै भोगा महात्मने ॥ ७ ॥ यशःप्रभृतिना यस्मै हेतुनैव विना पुनः। भुवि भोगा न रोचन्ते स जीवन्मुक्त उच्यते ॥ ८ ॥ ज्ञेयं यावन्न विज्ञातं तावत्तावन्न जायते। विषयेष्वरतिर्जन्तोर्मरुभूमौ लता यथा ॥ ९ ॥ अतएव हि विज्ञातज्ञेयं विद्धि रघूद्वहम्। यदेनं रञ्जयन्त्येता न रम्या भोगभूमयः ॥ १० ॥ रामो यदन्तर्जानाति तद्वस्त्वित्येव सन्मुखात् । आक...

अध्याय २.१, श्लोक १३–२५

योग वशिष्ठ २.१.१३–२५ (ज्ञानी गुरु से सच्चा ज्ञान प्राप्त करने का महत्व) विश्वामित्र उवाच । एकदा सोऽमलप्रज्ञो मेरावेकान्तसुस्थितम् । पप्रच्छ पितरं भक्त्या कृष्णद्वैपायनं मुनिम् ॥ १३ ॥ संसाराडम्बरमिदं कथमभ्युत्थितं मुने। कथं च प्रशमं याति कियत्कस्य कदेति वा ॥ १४ ॥ इति पृष्टेन मुनिना व्यासेनाखिलमात्मजे। यथावदमलं प्रोक्तं वक्तव्यं विदितात्मना ॥ १५ ॥ आऽज्ञासिषं पूर्वमेतदहमित्यथ तत्पितुः । स शुकः शुभया बुद्ध्या न वाक्यं बह्वमन्यत ॥ १६ ॥ व्यासोऽपि भगवान्बुद्धवा पुत्राभिप्रायमीदृशम् । प्रत्युवाच पुनः पुत्रं नाहं जानामि तत्त्वतः ॥ १७ ॥ जनको नाम भूपालो विद्यते वसुधातले । यथावद्वेत्त्यसौ वेद्यं तस्मात्सर्वमवाप्स्यसि ॥ १८ ॥ पित्रेत्युक्ते शुकः प्रायात्सुमेरोर्वसुधातले। विदेहनगरीं प्राप जनकेनाभिपालिताम् ॥ १९ ॥ आवेदितोऽसौ याष्टीकैर्जनकाय महात्मने । द्वारि व्याससुतो राजञ्शुकोऽत्र स्थितवानिति ॥ २० ॥ जिज्ञासार्थं शुकस्यासावास्तामेवेत्यवज्ञया । उक्त्वा बभूव जनकस्तूष्णीं सप्त दिनान्यथ ॥ २१ ॥ ततः प्रवेशयामास जनकः शुकमङ्गणम्। तत्राहानि स सप्तैव तथैवावसदुन्मनाः ॥ २२ ॥ अथ प्रवेशयामास जनकोऽन्तःपुरं शुकम्। राज...

अध्याय १.१० एवं १.११

योगवशिष्ट १.१०~१.११ (प्रभु राम महर्षि विश्वामित्र से मिले)  अध्याय १.१० दशमः सर्गः वाल्मीकिरुवाच । तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम्। संप्रहृष्टमना राममाजुहाव सलक्ष्मणम् ॥ १ ॥ दशरथ उवाच । प्रतिहार महाबाहुं रामं सत्यपराक्रमम्। सलक्ष्मणमविघ्नेन पुण्यार्थं शीघ्रमानय ॥ २ ॥ इति राज्ञा विसृष्टोऽसौ गत्वान्तःपुरमन्दिरम् । मुहूर्तमात्रेणागत्य समुवाच महीपतिम् ॥ ३ ॥ देव दोर्दलिताशेषरिपो रामः स्वमन्दिरे । विमनाः संस्थितो रात्रौ षट्पदः कमले यथा ॥ ४ ॥ आगच्छामि क्षणेनेति वक्ति ध्यायति चैकतः । न कस्यचिच्च निकटे स्थातुमिच्छति खिन्नधीः ॥ ५ ॥ अध्याय १.११ विश्वामित्र उवाच । एवं चेत्तन्महाप्राज्ञा भवन्तो रघुनन्दनम् । इहानयन्तु त्वरिता हरिणं हरिणा इव ॥ १॥ एष मोहो रघुपतेर्नापद्भ्यो न च रागतः । विवेकवैराग्यवतो बोध एव महोदयः ॥ २॥ इहायातु क्षणाद्राम इह चैव वयं क्षणात् । मोहं तस्यापनेष्यामो मारुतोऽद्रेर्घनं यथा ॥ ३ ॥ एतस्मिन्मार्जिते युक्त्या मोहे स रघुनन्दनः । विश्रान्तिमेष्यति पदे तस्मिन्वयमिवोत्तमे ॥ ४ ॥ सत्यतां मुदितां प्रज्ञां विश्रान्तिमपतापताम् । पीनतां वरवर्णत्वं पीतामृत इवैष्यति ॥ ५ ॥ निजां च प्र...

अध्याय १.९, श्लोक १–२३

योगवशिष्ट १.९.१–२३ (विश्वामित्र का क्रोध) वाल्मीकिरुवाच । तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलेक्षणम्। समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥ १ ॥ करिष्यामीति संश्रुत्य प्रतिज्ञां हातुमर्हसि। स भवान्केसरी भूत्वा मृगतामिव वाञ्छसि ॥ २ ॥ राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः । न कदाचन जायन्ते शीतांशोरुष्णरश्मयः ॥ ३ ॥ यदि त्वं न क्षमो राजन्गमिष्यामि यथागतम् । हीनप्रतिज्ञ काकुत्स्थ सुखी भव सबान्धवः ॥ ४ ॥ वाल्मीकि  उवाच  । तस्मिन्कोपपरीतेऽथ विश्वामित्रे महात्मनि । चचाल वसुधा कृत्स्ना सुरांश्च भयमाविशत् ॥ ५ ॥ क्रोधाभिभूतं विज्ञाय जगन्मित्रं महामुनिम् । धृतिमान्सुव्रतो धीमान्वसिष्ठो वाक्यमब्रवीत् ॥ ६ ॥ वशिष्ठ उवाच । इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः। भवान्दशरथः श्रीमांस्त्रैलोक्यगुणभूषितः ॥ ७ ॥ धृतिमान्सुव्रतो भूत्वा न धर्मं हातुमर्हसि। त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः ॥ ८ ॥ स्वधर्मं प्रतिपद्यस्व न धर्मं हातुमर्हसि। मुनेस्त्रिभुवनेशस्य वचनं कर्तुमर्हसि ॥ ९॥ करिष्यामीति संश्रुत्य तत्ते राजन्नकुर्वतः। इष्टापूर्तं हरेद्धर्मं तस्माद्रामं विसर्जय ॥ १० ॥ इक्ष्वाकुवंशजातोऽ...

अध्याय १.७ श्लोक २~२४

योगवशिष्ठ १.७.२~२४ (विश्वामित्र का अनुग्रह)    विश्वामित्र उवाच । सदृशं राजशार्दूल तवैवैतन्महीतले । महावंशप्रसूतस्य वसिष्ठवशवर्तिनः ॥ २॥ यत्तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् । कुरु त्वं राजशार्दूल धर्मं समनुपालय ॥ ३ ॥ अहं धर्मं समातिष्ठे सिद्धयर्थं पुरुषर्षभ । तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः ॥ ४ ॥ यदा यदा तु यज्ञेन यजेऽहं विबुधव्रजान्। तदा तदा तु मे यज्ञं विनिघ्नन्ति निशाचराः ॥ ५ ॥ बहुशो विहिते तस्मिन्मया राक्षसनायकाः । अकिरंस्ते महीं यागे मांसेन रुधिरेण च ॥ ६ ॥ अवधूते तथाभूते तस्मिन्यागकदम्बके। कृतश्रमो निरुत्साहस्तस्माद्देशादुपागतः ॥ ७ ॥ त्रातुमर्हसि मामार्तं शरणार्थिनमागतम् । अर्थिनां यन्निराशत्वं सत्तमेऽभिभवो हि सः ॥ १० ॥ तवास्ति तनयः श्रीमान्दृप्तशार्दूलविक्रमः। महेन्द्रसदृशो वीर्ये रामो रक्षोविदारणः ॥ ११ ॥ तं पुत्रं राजशार्दूल रामं सत्यपराक्रमम्। काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥ १२ ॥ शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा । राक्षसा येऽपकर्तारस्तेषां मूर्धविनिग्रहे ॥ १३ ॥ श्रेयश्चास्य करिष्यामि बहुरूपमनन्तकम्। त्रयाणामपि लोकानां येन पूज्यो भविष...

अध्याय १.६.३९–५३

योगवशिष्ट १.६.३९–५३ (दशरथ द्वारा महर्षि विश्वामित्र का स्वागत) दशरथ उवाच। यथाऽमृतस्य संप्राप्तिर्यथा वर्षमवर्षके । यथान्धस्येक्षणप्राप्तिर्भवदागमनं तथा ॥ ३९ ॥ यथेष्टदारसंपर्कात्पुत्रजन्माऽप्रजावतः । स्वप्नदृष्टार्थलाभश्च भवदागमनं तथा ॥ ४० ॥ यथेप्सितेन संयोग इष्टस्यागमनं यथा । प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥ ४१ ॥ यथा हर्षो नभोगत्या मृतस्य पुनरागमात्। तथा त्वदागमाद्ब्रह्मन्स्वागतं ते महामुने ॥ ४२ ॥ ब्रह्मलोकनिवासो हि कस्य न प्रीतिमावहेत् । मुने तवागमस्तद्वत्सत्यमेव ब्रवीमि ते ॥ ४३ ॥ कश्च ते परमः कामः किं च ते करवाण्यहम् । पात्रभूतोऽसि मे विप्र प्राप्तः परमधार्मिकः ॥ ४४ ॥ पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः। ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि भगवन्मया ॥ ४५ ॥ गङ्गाजलाभिषेकेण यथा प्रीतिर्भवेन्मम। तथा त्वद्दर्शनात्प्रीतिरन्तः शीतयतीव माम् ॥ ४६ ॥ विगतेच्छाभयक्रोधो वीतरागो निरामयः। इदमत्यद्भुतं ब्रह्मन्यद्भवान्मामुपागतः ॥ ४७ ॥ शुभक्षेत्रगतं चाहमात्मानमपकल्मषम्। चन्द्रबिम्ब इवोन्मग्नं वेदवेद्यविदांवर ॥ ४८ ॥ साक्षादिव ब्रह्मणो मे तवाभ्यागमनं मतम् । पूतोऽस्म्यनुगृहीतश्च तवाभ्यागमनान्मुने ॥ ...