Posts

Showing posts with the label शूरवीर

अध्याय ३.३१, श्लोक २३–३६

योगवशिष्ट ३.३१.२३–३६ (एक सच्चा शूरवीर वह है जो सदाचार के लिए कष्ट सहता है और सदाचारी लोगों के लिए खड्ग की धार झेलता है ) श्रीराम उवाच । भगवञ्छूरशब्देन कीदृशः प्रोच्यते भटः। स्वर्गालंकरण कः स्यात्को वा डिम्भाहवो भवेत् ॥ २३ ॥ अन्यथा प्राणिकृत्ताङ्गो रणे यो मृतिमाप्नुयात् । डिम्भाहवहतः प्रोक्तः स नरो नरकास्पदम् ॥ २५ ॥ श्रीवसिष्ठ उवाच । शास्त्रोक्ताचारयुक्तस्य प्रभोरर्थेन यो रणे । मृतो वाथ जयी वा स्यात्स शूरः शूरलोकभाक् ॥ २४ ॥ अयथाशास्त्रसंचारवृत्तेरर्थेन युध्यते। यो नरस्तस्य संग्रामे मृतस्य निरयोऽक्षयः ॥ २६ ॥ यथासंभवशास्त्रार्थलोकाचारानुवृत्तिमान् । युध्यते तादृशश्चैव भक्तः शूरः स उच्यते ॥ २७ ॥ गोरर्थे ब्राह्मणस्यार्थे मित्रस्यार्थे च सन्मते । शरणागतयत्नेन स मृतः स्वर्गभूषणम् ॥ २८ ॥ परिपाल्यस्वदेशैकपालने यः स्थितः सदा । राजा मृतास्तदर्थं ये ते वीरा वीरलोकिनः ॥ २९ ॥ प्रजोपद्रवनिष्ठस्य राज्ञोऽराज्ञोऽथ वा प्रभोः । अर्थेन ये मृता युद्धे ते वै निरयगामिनः ॥ ३० ॥ ये हि राज्ञामराज्ञां वाप्ययथाशास्त्रकारिणाम् । रणे म्रियन्ते छिन्नाङ्गास्ते वै निरयगामिनः ॥ ३१ ॥ धर्म्यं यथा तथा युद्धं यदि स्यात्तर्ह...