अध्याय २.१६, श्लोक १–१०
योग वशिष्ठ २.१६.१–१० (आध्यात्मिक उन्नति के प्राथमिक साधन के रूप में संतों का सानिध्य) श्रीवसिष्ठ उवाच । विशेषेण महाबुद्धे संसारोत्तरणे नृणाम् । सर्वत्रोपकरोतीह साधुः साधुसमागमः ॥ १ ॥ साधुसङ्गतरोर्जातं विवेककुसुमं सितम्। रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः ॥ २ ॥ शून्यमाकीर्णतामेति मृतिरप्युत्सवायते । आपत्संपदिवाभाति विद्वज्जनसमागमे ॥ ३ ॥ हिममापत्सरोजिन्या मोहनीहारमारुतः । जयत्येको जगत्यस्मिन्साधुः साधुसमागमः ॥ ४ ॥ परं विवर्धनं बुद्धेरज्ञानतरुशातनम् । समुत्सारणमाधीनां विद्धि साधुसमागमम् ॥ ५ ॥ विवेकः परमो दीपो जायते साधुसंगमात्। मनोहरोज्ज्वलो नूनमासेकादिव गुच्छकः ॥ ६ ॥ निरपायां निराबाधां निर्वृतिं नित्यपीवरीम् । अनुत्तमां प्रयच्छन्ति साधुसङ्गविभूतयः ॥ ७ ॥ अपि कष्टतरां प्राप्तैर्दशां विवशतां गतैः। मनागपि न संत्याज्या मानवैः साधुसंगतिः ॥ ८ ॥ साधुसंगतयो लोके सन्मार्गस्य च दीपिकाः । हार्दान्धकारहारिण्यो भासो ज्ञानविवस्वतः ॥ ९ ॥ यः स्नातः शीतसितया साधुसंगतिगङ्गया । किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥ १० ॥ महर्षि वशिष्ठ ने कहा: २.१६.१: पुण्यात्माओं की संगति लोगों को संसार...