Posts

Showing posts with the label युवावस्था

अध्याय १.२०, श्लोक ३४–४३

योग वशिष्ठ १.२०.३४–४३ (कमजोर और अल्पायु युवावस्था के लिए करुणा) श्रीराम उवाच। दिनानि कतिचिद्येयं फलिता देहजङ्गले। युवता शरदस्यां हि न समाश्वासमर्हथ ॥ ३४ ॥ झटित्येव प्रयात्येव शरीराद्युवताखगः। क्षणेनैवाल्पभाग्यस्य हस्ताच्चिन्तामणिर्यथा ॥ ३५ ॥ यदा यदा परां कोटिमध्यारोहति यौवनम् । वल्गन्ति सज्वराः कामास्तदा नाशाय केवलम् ॥ ३६ ॥ तावदेव विवल्गन्ति रागद्वेषपिशाचकाः । नास्तमेति समस्तैषा यावद्यौवनयामिनी ॥ ३७ ॥ नानाविकारबहुले वराके क्षणनाशिनि। कारुण्यं कुरु तारुण्ये म्रियमाणे सुतै यथा ॥ ३८ ॥ हर्षमायाति यो मोहात्पुरुषः क्षणभङ्गिना । यौवनेन महामुग्धः स वै नरमृगः स्मृतः ॥ ३९ ॥ मानमोहान्मदोन्मत्तं यौवनं योऽभिलष्यति । अचिरेण स दुर्बुद्धिः पश्चात्तापेन युज्यते ॥ ४० ॥ ते पूज्यास्ते महात्मानस्त एव पुरुषा भुवि । ये सुखेन समुत्तीर्णाः साधो यौवनसंकटात् ॥ ४१ ॥ सुखेन तीर्यतेऽम्भोधिरुत्कृष्टमकराकरः । न कल्लोलबलोल्लासि सदोषं हतयौवनम् ॥ ४२ ॥ विनयभूषितमार्यजनास्पदं करुणयोज्ज्वलमावलितं गुणैः । इह हि दुर्लभमङ्ग सुयौवनं जगति काननमम्बरगं यथा ॥ ४३ ॥ श्रीराम ने कहा: ३४ . "हे ऋषिवर, युवावस्था शरीर रूपी वन में कुछ ...

अध्याय १.२०, श्लोक २४–३३

योग वशिष्ठ १.२०.२४–३३ (यौवन की मृगतृष्णा) श्रीराम उवाच। रसकेसरसंबाधं कुविकल्पदलाकुलम्। दुश्चिन्ताचञ्चरीकाणां पुष्करं विद्धि यौवनम् ॥ २४ ॥ कृताकृतकुपक्षाणां हृत्सरस्तीरचारिणाम्। आधिव्याधिविहंगानामालयो नवयौवनम् ॥ २५ ॥ जडानां गतसंख्यानां कल्लोलानां विलासिनाम् । अनपेक्षितमर्यादो वारिधिर्नवयौवनम् ॥ २६ ॥ सर्वेषां गुणसर्गाणां परिरूढरजस्तमाः। अपनेतुं स्थितिं दक्षो विषमो यौवनानिलः ॥ २७ ॥ नयन्ति पाण्डुतां वक्रमाकुलावकरोत्कटाः। आरोहन्ति परां कोटिं रूक्षा यौवनपांसवः ॥ २८ ॥ उद्वोधयति दोषालिं निकृन्तति गुणावलिम् । नराणां यौवनोल्लासो विलासो दुष्कृतश्रियाम् ॥ २९ ॥ शरीरपङ्कजरजश्चञ्चलां मतिषट्पदीम्। निबध्नन्मोहयत्येष नवयौवनचन्द्रमाः ॥ ३० ॥ शरीरखण्डकोद्भूता रम्या यौवनवल्लरी। लग्नमेव मनोभृङ्गं मदयत्युन्नतिं गता ॥ ३१ ॥ शरीरमरुतापोत्थां युवतामृगतृष्णिकाम्। मनोमृगाः प्रधावन्तः पतन्ति विषयावटे ॥ ३२ ॥ शरीरशर्वरीज्योत्स्ना चित्तकेसरिणः सटा। लहरी जीविताम्भोधेर्युवता मे न तुष्टये ॥ ३३ ॥ श्रीराम ने कहा: श्लोक   २४ : "युवावस्था को कमल के तालाब के समान समझो, जो सुखों के मादक सार से भरा हुआ है, तथा जिसमें अशांत ...

अध्याय १.२०, श्लोक ११–२३

योग वशिष्ठ १.२०.११–२३ (युवावस्था रूपी जंगल)  श्रीराम उवाच। सर्वस्याग्रे सर्वपुंसः क्षणमात्रमनोहरम्। गन्धर्वनगरप्रख्यं यौवनं मे न रोचते ॥ ११॥ इषुप्रपातमात्रं हि सुखदं दुःखभासुरम्। दाहपोषप्रदं नित्यं यौवनं मे न रोचते ॥ १२ ॥ आपातमात्ररमणं सद्भावरहितान्तरम् । वेश्यास्त्रीसंगमप्रख्यं यौवनं मे न रोचते ॥ १३ ॥ ये केचन समारम्भास्ते सर्वे सर्वदुःखदाः । तारुण्ये संनिधिं यान्ति महोत्पाता इव क्षये ॥ १४ ॥ हार्दान्धकारकारिण्या भैरवाकारवानपि । यौवनाज्ञानयामिन्या बिभेति भगवानपि ॥ १५ ॥ सुविस्मृतशुभाचारं बुद्धिवैधुर्यदायिनम् । ददात्यतितरामेष भ्रमं यौवनसंभ्रमः ॥ १६॥ कान्तावियोगजातेन हृदि दुःस्पर्शवह्निना । यौवने दह्यते जन्तुस्तरुर्दावाग्निना यथा ॥ १७ ॥ सुनिर्मलापि विस्तीर्णा पावन्यपि हि यौवने । मतिः कलुषतामेति प्रावृषीव तरङ्गिणी ॥ १८ ॥ शक्यते घनकल्लोला भीमा लङ्घयितुं नदी । न तु तारुण्यतरला तृष्णातरलितान्तरा ॥ १९ ॥ सा कान्ता तौ स्तनौ पीनौ ते विलासास्तदाननम् । तारुण्य इति चिन्ताभिर्याति जर्जरतां जनः ॥ २० ॥ नरं तरलतृष्णार्ति युवानमिह साधवः । पूजयन्ति न तु च्छिन्नं जरत्तृणलवं यथा ॥ २१ ॥ नाशायैव मदार्तस्य ...

अध्याय १.२०, श्लोक १ – १०

योग वशिष्ठ १.२०.१ – १० (युवावस्था की त्रासदी) श्रीराम उवाच । बाल्यानर्थमथ त्यक्त्वा पुमानभिहताशयः । आरोहति निपाताय यौवनं संभ्रमेण तु ॥ १ ॥ तत्रानन्तविलासस्य लोलस्य स्वस्य चेतसः । वृत्तीरनुभवन्याति दुःखाद्दुःखान्तरं जडः ॥ २ ॥ स्वचित्तबिलसंस्थेन नानासंभ्रमकारिणा। बलात्कामपिशाचेन विवशः परिभूयते ॥ ३ ॥ चिन्तानां लोलवृत्तीनां ललनानामिवाऽवृतीः । अर्पयत्यवशं चेतो बालानामञ्जनं यथा ॥ ४ ॥ ते ते दोषा दुरारम्भास्तत्र तं तादृशाशयम्। तद्रूपं प्रतिलुम्पन्ति दुष्टास्तेनैव ये मुने ॥ ५ ॥ महानरकबीजेन संततभ्रमदायिना । यौवनेन न ये नष्टा नष्टा नान्येन ते जनाः ॥ ६ ॥ नानारसमयी चित्रवृत्तान्तनिचयोम्भिता। भीमा यौवनभूर्येन तीर्णा धीरः स उच्यते ॥ ७ ॥ निमेषभासुराकारमालोलघनगर्जितम् । विद्युत्प्रकाशमशिवं यौवनं मे न रोचते ॥ ८ ॥ मधुरं स्वादु तिक्तं च दूषणं दोषभूषणम्। सुराकल्लोलसदृशं यौवनं मे न रोचते ॥ ९ ॥ असत्यं सत्यसंकाशमचिराद्विप्रलम्भदम् । स्वप्नाङ्गनासङ्गसमं यौवनं मे न रोचते ॥ १० ॥ श्रीराम ने कहा: १ . "हे ऋषिवर! जब कोई व्यक्ति बचपन की व्यर्थता को त्यागकर, फिर भी अज्ञान से ग्रसित होकर, उत्साह के साथ युवावस्था म...