Posts

Showing posts with the label वृद्धावस्था

अध्याय १.२२, श्लोक २६–३८

योग वशिष्ठ १.२२.२६–३८ (वृद्धावस्था की अनिवार्यता और सार्वभौमिकता) श्रीराम उवाच । काचिदस्ति जगत्यस्मिन्नामङ्गलकरी तथा । यथा जराक्रोशकरी देहजङ्गलजम्बुकी ॥ २६ ॥ कासश्वासससीत्कारा दुःखधूमतमोमयी। जराज्वाला ज्वलत्येषा यस्यासौ दग्ध एव हि ॥ २७ ॥ जरसा वक्रतामेति शुक्लावयवपल्लवा । तात तन्वी तनुर्नृणां लता पुष्पानता यथा ॥ २८ ॥ जराकर्पूरधवलं देहकर्पूरपादपम् । मुने मरणमातङ्गो नूनमुद्धरति क्षणात् ॥ २९ ॥ मरणस्य मुने राज्ञो जराधवलचामरा । आगच्छतोऽग्रे निर्याति स्वाधिव्याधिपताकिनी ॥ ३० ॥ न जिताः शत्रुभिः संख्ये प्रविष्टा येऽद्रिकोटरे । ते जराजीर्णराक्षस्या पश्याशु विजिता मुने ॥ ३१ ॥ जरातुषारवलिते शरीरसदनान्तरे । शक्नुवन्त्यक्षशिशवः स्पन्दितुं न मनागपि ॥ ३२ ॥ दण्डतृतीयपादेन प्रस्खलन्ती मुहुर्मुहुः। कासाधोवायुमुरजा जरा योषित्प्रनृत्यति ॥ ३३ ॥ संसारसंसृतेरस्या गन्धकुट्यां शिरोगता। देहयष्ट्यां जरानाम्नी चामरश्रीर्विराजते ॥ ३४ ॥ जराचन्द्रोदयसिते शरीरनगरे स्थिते । क्षणाद्विकासमायाति मुने मरणकैरवम् ॥ ३५ ॥ जरासुधालेपसिते शरीरान्तःपुरान्तरे । अशक्तिरार्तिरापच्च तिष्ठन्ति सुखमङ्गनाः ॥ ३६ ॥ अभावोऽग्रेसरी यत्र जरा ...

अध्याय १.२२, श्लोक १४–२५

योग वशिष्ठ १.२२.१४–२५ (शारीरिक अस्तित्व की क्षणभंगुरता) श्रीराम उवाच। तावदागत एवाशु कुतोऽपि परिदृश्यते । घनान्ध्यतिमिराकाङ्क्षी मुने मरणकौशिकः ॥ १४ ॥ सायंसंध्यां प्रजातां वै तमः समनुधावति। जरां वपुषि दृष्ट्वैव मृतिः समनुधावति ॥ १५ ॥ जराकुसुमितं देहद्रुमं दृष्ट्वैव दूरतः । अध्यापतति वेगेन मुने मरणमर्कटः ॥ १६॥ शून्यं नगरमाभाति भाति च्छिन्नलतो द्रुमः । भात्यनावृष्टिमान्देशो न जराजर्जरं वपुः ॥ १७ ॥ क्षणान्निगरणायैव कासक्वणितकारिणी। गृध्रीवामिषमादत्ते तरसैव नरं जरा ॥ १८॥ दृष्ट्वैव सोत्सुकेवाशु प्रगृह्य शिरसि क्षणम् । प्रलुनाति जरा देहं कुमारी कैरवं यथा ॥ १९ ॥ सीत्कारकारिणी पांसुपरुषा परिजर्जरम्। शरीरं शातयत्येषा वात्येव तरुपल्लवम् ॥ २० ॥ जरसोपहतो देहो धत्ते जर्जरतां गतः । तुषारनिकराकीर्णपरिम्लानाम्बुजश्रियम् ॥ २१ ॥ जरा ज्योत्स्नोदितैवेयं शिरःशिखरिपृष्ठतः । विकासयति संरब्धं वातकासकुमुद्वती ॥ २२ ॥ परिपक्वं समालोक्य जराक्षारविधूसरम्। शिरःकूष्माण्डकं भुङ्क्ते पुंसां कालः किलेश्वरः ॥ २३ ॥ जराजह्नुसुतोद्युक्ता मूलान्यस्य निकृन्तति । शरीरतीरवृक्षस्य चलत्यायुषि सत्वरम् ॥ २४ ॥ जरामार्जारिका भुङ्क्ते...

अध्याय १.२२, श्लोक १–१३

योग वशिष्ठ १.२२.१–१३ (वृद्धावस्था की अनिवार्यता) श्रीराम उवाच । अपर्याप्तं हि बालत्वं बलात्पिबति यौवनम् । यौवनं च जरा पश्चात्पश्य कर्कशतां मिथः ॥ १ ॥ हिमाशनिरिवाम्भोजं वात्येव शरदम्बुकम् । देहं जरा नाशयति नदी तीरतरुं यथा ॥ २ ॥ जर्जरीकृतसर्वाङ्गी जरा जरठरूपिणी । विरूपतां नयत्याशु देहं विषलवो यथा ॥ ३ ॥ शिथिलादीर्णसर्वाङ्गं जराजीर्णकलेवरम्। समं पश्यन्ति कामिन्यः पुरुषं करभं यथा ॥ ४ ॥ अनायासकदर्थिन्या गृहीते जरसा जने । पलाय्य गच्छति प्रज्ञा सपत्न्येवाहताङ्गना ॥ ५ ॥ दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा । हसन्त्युन्मत्तकमिव नरं वार्धककम्पितम् ॥ ६ ॥ दुष्प्रेक्ष्यं जरठं दीनं हीनं गुणपराक्रमैः । गृध्रो वृक्षमिवादीर्घं गर्धो ह्यभ्येति वृद्धकम् ॥ ७ ॥ दैन्यदोषमयी दीर्घा हृदि दाहप्रदायिनी । सर्वापदामेकसखी वार्धके वर्धते स्पृहा ॥ ८ ॥ कर्तव्यं किं मया कष्टं परत्रेत्यतिदारुणम्। अप्रतीकारयोग्यं हि वर्धते वार्धके भयम् ॥ ९ ॥ कोऽहं वराकः किमिव करोमि कथमेव च। तिष्ठामि मौनमेवेति दीनतोदेति वार्धके ॥ १० ॥ कथं कदा मे किमिव स्वादु स्याद्भोजनं जनात् । इत्यजस्रं जरा चैषा चेतो दहति वार्धके ॥ ११ ॥ गर्धोऽभ...