Posts

Showing posts with the label विरक्ति

अध्याय २.१३, श्लोक ७१–७६

योग वशिष्ठ २.१३.७१–७६ (शांति - शारीरिक रूप से उपस्थित होते हुए भी मानसिक रूप से विरक्त होने की अवस्था, मानो पूर्णतः जागृत रहते हुए भी गहरी नींद में हों) श्रीवसिष्ठ उवाच । अनुद्धतमनाः शान्तः साधुः कर्म करोति यत् । तत्सर्वमभिनन्दन्ति तस्येमा भूतजातयः ॥ ७१ ॥ श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् । न हृष्यति ग्लायति यः स शान्त इति कथ्यते ॥ ७२ ॥ यः समः सर्वभूतेषु भावि काङ्क्षति नोज्झति । जित्वेन्द्रियाणि यत्नेन स शान्त इति कथ्यते ॥ ७३ ॥ स्पृष्ट्वाऽवदातया बुद्ध्या यथैवान्तस्तथा बहिः । दृश्यन्ते यत्र कार्याणि स शान्त इति कथ्यते ॥ ७४ ॥ तुषारकरबिम्बाभं मनो यस्य निराकुलम्। मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥ ७५ ॥ स्थितोऽपि न स्थित इव न हृष्यति न कुप्यति । यः सुषुप्तसमः स्वस्थः स शान्त इति कथ्यते ॥ ७६ ॥ महर्षि वशिष्ठ ने कहा: २.१३.७१:  ऋषि शांत और अविचल मन से पुण्य कर्म करते हैं और सभी प्राणी उनके कर्मों से आनंदित होते हैं। २.१३.७२:  जो किसी सुखद या अप्रिय वस्तु को सुनकर, स्पर्श करके, देखकर, चखकर या सूंघकर न तो हर्षित होता है और न ही शोक करता है, उसे शांत कहा जाता...