Posts

Showing posts with the label साक्षात्कार

अध्याय २.१९, श्लोक १७–२४

योग वशिष्ठ २.१९.१७–२४ (साक्षात्कार की प्रकृति, चेतना और जगत की मायावी अभिव्यक्ति) श्रीवसिष्ठ उवाच । सर्वाक्षसारमध्यक्षं वेदनं विदुरुत्तमाः। नूनं तत्प्रतिपत्सिद्धं तत्प्रत्यक्षमुदाहृतम् ॥ १७ ॥ अनुभूतेर्वेदनस्य प्रतिपत्तेर्यथाभिधम्। प्रत्यक्षमिति नामेह कृतं जीवः स एव नः ॥ १८ ॥ स एव संवित्स पुमानहंताप्रत्ययात्मकः । स ययोदेति संवित्त्या सा पदार्थ इति स्मृता ॥ १९ ॥ ससंकल्पविकल्पाद्यैः कृतनानाक्रमभ्रमैः । जगत्तया स्फुरत्यम्बु तरङ्गादितया यथा ॥ २० ॥ प्रागकारणमेवाशु सर्गादौ सर्गलीलया । स्फुरित्वा कारणं भूतं प्रत्यक्षं स्वयमात्मनि ॥ २१ ॥ कारणं त्वविचारोत्थजीवस्यासदपि स्थितम् । सदिवास्यां जगद्रूपं प्रकृतौ व्यक्तिमागतम् ॥ २२ ॥ स्वयमेव विचारस्तु स्वत उत्थं स्वकं वपुः। नाशयित्वा करोत्याशु प्रत्यक्षं परमं महत् ॥ २३ ॥ विचारवान्विचारोऽपि आत्मानमवगच्छति । यदा तदा निरुल्लेखं परमेवावशिष्यते ॥ २४ ॥ महर्षि वशिष्ठ ने कहा: २.१९.१७:  परम ज्ञानी ज्ञान को सभी इंद्रियों का सार, अनुभव का मूल मानते हैं। निश्चय ही, जो ज्ञान के माध्यम से प्राप्त होता है उसे प्रत्यक्ष अनुभव कहते हैं। २.१९.१८:  ज्ञान के अनुभव...

अध्याय २.१८, श्लोक ३९–४६

योग वशिष्ठ २.१८.३९–४६ (सरल जीवन जिएं, सदाचारी आचरण करें और इंद्रियजन्य इच्छाओं में उलझने से बचें) श्रीवसिष्ठ उवाच । यथा संकल्पनगरे पुंसो हर्षविषादिता। न बाधते तथैवास्मिन्परिज्ञाते जगद्भ्रमे ॥ ३९ ॥ चित्रसर्पः परिज्ञातो न सर्पभयदो यथा। दृश्यसर्पः परिज्ञातस्तथा न सुखदुःखदः ॥ ४० ॥ परिज्ञानेन सर्पत्वं चित्रसर्पस्य नश्यति। यथा तथैव संसारः स्थित एवोपशाम्यति ॥ ४१ ॥ सुमनःपल्लवामर्दे किंचिद्व्यतिकरो भवेत्। परमार्थपदप्राप्तौ नतु व्यतिकरोऽल्पकः ॥ ४२ ॥ गच्छत्यवयवः स्पन्दं सुमनःपत्रमर्दने । इह धीमात्ररोधस्तु नाङ्गावयवचालनम् ॥ ४३ ॥ सुखासनोपविष्टेन यथासंभवमश्नता। भोगजालं सदाचारविरुद्धेषु न तिष्ठता ॥ ४४ ॥ यथाक्षणं यथादेशं प्रविचारयता सुखम् । यथासंभवसत्सङ्गमिदं शास्त्रमथेतरत् ॥ ४५ ॥ आसाद्यते महाज्ञानबोधः संसारशान्तिदः। न भूयो जायते येन योनियन्त्रप्रपीडनम् ॥ ४६ ॥ महर्षि वशिष्ठ ने कहा: २.१८.३९:  जैसे किसी व्यक्ति द्वारा कल्पित शहर में सुख या दुख उसे प्रभावित नहीं करता, वैसे ही जब संसार के भ्रम को पूरी तरह समझ लिया जाता है, तो यह परेशान करना बंद कर देता है। २.१८.४०:  जैसे चित्र में बना सांप, जब उस...

अध्याय २.१८, श्लोक ३३–३८

योग वशिष्ठ २.१८.३३–३८ (अहंकार और संसार के भ्रम का अलग-अलग अस्तित्व के रूप में विलय) श्रीवसिष्ठ उवाच । शास्त्रं सुबोधमेवेदं सालंकारविभूषितम्। काव्यं रसमयं चारु दृष्टान्तैः प्रतिपादितम् ॥ ३३ ॥ बुध्यते स्वयमेवेदं किंचित्पदपदार्थवित् । स्वयं यस्तु न वेत्तीदं श्रोतव्यं तेन पण्डितात् ॥ ३४ ॥ यस्मिन्श्रुते मते ज्ञाते तपोध्यानजपादिकम् । मोक्षप्राप्तौ नरस्येह न किंचिदुपयुज्यते ॥ ३५ ॥ एतच्छास्त्रघनाभ्यासात्पौनःपुन्येन वीक्षणात् । पाण्डित्यं स्यादपूर्वं हि चित्तसंस्कारपूर्वकम् ॥ ३६ ॥ अहं जगदिति प्रौढो द्रष्टृदृश्यपिशाचकः। पिशाचोऽर्कोदयेनेव स्वयं शाम्यत्ययत्नतः ॥ ३७ ॥ भ्रमो जगदहं चेति स्थित एवोपशाम्यति। स्वप्नमोहः परिज्ञात इव नो भ्रमयत्यलम् ॥ ३८ ॥ महर्षि वशिष्ठ ने कहा: २.१८.३३:  यह शास्त्र समझने में सरल है, भावपूर्ण भावों से सुशोभित है, काव्यात्मक है और उदाहरणों से युक्त है। २.१८.३४ : जो इसके शब्दों और अर्थों को थोड़ा भी समझ लेता है, वह इसे स्वयं ही समझ लेता है। किन्तु यदि कोई इसे स्वतंत्र रूप से नहीं समझ पाता, तो उसे किसी विद्वान विद्वान से इसका अध्ययन करना चाहिए। २.१८.३५:  जब इस शास्त्र ...

अध्याय २.१७, श्लोक ४०–५०

योग वशिष्ठ २.१७.४०–५० (साक्षात्कार का स्वरूप और सिद्ध पुरुष की अवस्था) श्रीवसिष्ठ उवाच । अन्तर्लीनतरङ्गौघसौम्यवारिस रित्समा। निर्वाणाख्यं प्रकरणं ततः षष्ठमुदाहृतम् ॥ ४० ॥ शिष्टो ग्रन्थः परीमाणं तस्य ज्ञानमहार्थदः । बुद्धे तस्मिन्भवेच्छ्रेयो निर्वाणं शान्तकल्पनम् ॥ ४१ ॥ अचेत्यचित्प्रकाशात्मा विज्ञानात्मा निरामयः । परमाकाशकोशाच्छः शान्तसर्वभवभ्रमः ॥ ४२ ॥ निर्वापितजगद्यात्रः कृतकर्तव्यसुस्थितः । समस्तजनतारम्भवज्रस्तम्भो नभोनिभः ॥ ४३ ॥ विनिगीर्णयथासंख्यजगज्जाला तितृप्तिमान् । आकाशीभूतनिःशेषरूपालोक मनस्कृतिः ॥ ४४ ॥ कार्यकारणकर्तृत्वहेयादेय दृशोज्झितः । सदेह इव निर्देहः ससंसारोऽप्यसंसृतिः ॥ ४५ ॥ चिन्मयो घनपाषाणजठरापीवरोपमः। चिदादित्यस्तपँल्लोकानन्धकारोपरोपमम् ॥ ४६ ॥ परप्रकाशरूपोऽपि परमान्ध्यमिवागतः । रुद्धसंसृतिदुर्लीलः प्रक्षीणाशाविषूचिकः ॥ ४७ ॥ नष्टाहंकारवेतालो देहवानकलेवरः । कस्मिंश्चिद्रोमकोट्यग्रे तस्येयमवतिष्ठते । जगल्लक्ष्मीर्महामेरोः पुष्पे क्वचिदिवालिनी ॥ ४८ ॥ परमाणौ परमाणौ चिदाकाशः स्वकोटरे। जगल्लक्ष्मीसहस्राणि धत्ते कृत्वाथ पश्यति ॥ ४९ ॥ विततता हृदयस्य महामतेर्हरिहराञ्जजलक्षशतैरपि...