अध्याय १.२६, श्लोक ११–२२
योग वशिष्ठ १.२६.११–२२ (सांसारिक सुखों और इच्छाओं से मोहभंग) श्रीराम उवाच। शत्रवश्चेन्द्रियाण्येव सत्यं यातमसत्यताम् । प्रहरत्यात्मनैवात्मा मनसैव मनो रिपुः ॥ ११ ॥ अहंकारः कलङ्काय बुद्धयः परिपेलवाः । क्रिया दुष्फलदायिन्यो लीलाः स्त्रीनिष्ठतां गताः ॥ १२ ॥ वाञ्छाविषयशालिन्यः सच्चमत्कृतयः क्षताः । नार्यो दोषपताकिन्यो रसा नीरसतां गताः ॥ १३ ॥ वस्त्ववस्तुतया ज्ञातं दत्तं चित्तमहंकृतौ। अभाववेधिता भावा भावान्तो नाधिगम्यते ॥ १४ ॥ तप्यते केवलं साधो मतिराकुलितान्तरा। रागरोगो विलसति विरागो नोपगच्छति ॥ १५ ॥ रजोगुणहता दृष्टिस्तमः संपरिवर्धते । न चाधिगम्यते सत्त्वं तत्त्वमत्यन्तदूरतः ॥ १६ ॥ स्थितिरस्थिरतां याता मृतिरागमनोन्मुखी । धृतिर्वैधुर्यमायाता रतिर्नित्यमवस्तुनि ॥ १७ ॥ मतिर्मान्द्येन मलिना पातैकपरमं वपुः। ज्वलतीव जरा देहे प्रतिस्फुरति दुष्कृतम् ॥ १८ ॥ यत्नेन याति युवता दूरे सज्जनसंगतिः। गतिर्न विद्यते काचित्क्वचिन्नोदेति सत्यता ॥ १९ ॥ मनो विमुह्यतीवान्तर्मुदिता दूरतां गता । नोज्ज्वला करुणोदेति दूरादायाति नीचता ॥ २० ॥ धीरताऽधीरतामेति पातोत्पातपरो जनः। सुलभो दुर्जनाश्लेषो दुर्लभः सत्समागमः ॥ २१ ॥ आ...