Posts

Showing posts with the label परमज्ञान

अध्याय २.२०, श्लोक ७–१५

योग वशिष्ठ २.२०.७–१५ (आध्यात्मिक प्रगति परमज्ञान और नैतिक जीवन का सामंजस्यपूर्ण मिश्रण है) श्रीवसिष्ठ उवाच । ज्ञानं सत्पुरुषाचाराज्ज्ञानात्सत्पुरुषक्रमः। परस्परं गतौ वृद्धिं ज्ञानसत्पुरुषक्रमौ ॥ ७ ॥ शमप्रज्ञादिनिपुणपुरुषार्थक्रमेण च । अभ्यसेत्पुरुषो धीमाञ्ज्ञानसत्पुरुषक्रमौ ॥ ८ ॥ न यावत्सममभ्यस्तौ ज्ञानसत्पुरुषक्रमौ। एकोऽपि नैतयोस्तात पुरुषस्येह सिध्यति ॥ ९ ॥ यथा कलमरक्षिण्या गीत्या वितततालया । खगोत्सादेन सहितं गीतानन्दः प्रसाध्यते ॥ १० ॥ ज्ञानसत्पुरुषेहाभ्यामकर्त्रा कर्तृरूपिणा । तथा पुंसा निरिच्छेन सममासाद्यते पदम् ॥ ११ ॥ सदाचारक्रमः प्रोक्तो मयैवं रघुनन्दन। तथोपदिश्यते सम्यगेवं ज्ञानक्रमोऽधुना ॥ १२ ॥ इदं यशस्यमायुष्यं पुरुषार्थफलप्रदम्। तज्ज्ञादाप्ताच्च सच्छास्त्रं श्रोतव्यं किल धीमता ॥ १३ ॥ श्रुत्वा त्वं बुद्धिनैर्मल्याद्बलाद्यास्यसि तत्पदम् । यथा कतकसंश्लेषात्प्रसादं कलुषं पयः ॥ १४ ॥ विदितवेद्यमिदं हि मनो मुनेर्विवशमेव हि याति परं पदम् । यदवबुद्धमखण्डितमुत्तमं तदवबोधवशान्न जहाति हि ॥ १५ ॥ महर्षि वशिष्ठ ने कहा: २.२०.७:  परमज्ञान सदाचारी व्यक्ति के आचरण से उत्पन्न होता है और सदा...