अध्याय ३.९, श्लोक १–१३
योग वशिष्ठ ३.९.१–१३ (जीवनमुक्त अवस्था) श्रीवसिष्ठ उवाच । तच्चित्तास्तद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च तन्नित्यं तुष्यन्ति च रमन्ति च ॥ १ ॥ तेषां ज्ञानैकनिष्ठानामात्मज्ञानविचारिणाम् । सा जीवन्मुक्ततोदेति विदेहान्मुक्ततैव या ॥ २ ॥ श्रीराम उवाच । ब्रह्मन्विदेहमुक्तस्य जीवन्मुक्तस्य लक्षणम् । ब्रूहि येन तथैवाहं यते शास्त्रदृशा धिया ॥ ३ ॥ श्रीवसिष्ठ उवाच । यथास्थितमिदं यस्य व्यवहारवतोऽपि च। अस्तं गतं स्थितं व्योम जीवन्मुक्तः स उच्यते ॥ ४ ॥ बोधैकनिष्ठतां यातो जाग्रत्येव सुषुप्तवत् । या आस्ते व्यवहर्तैव जीवन्मुक्तः स उच्यते ॥ ५ ॥ नोदेति नास्तमायाति सुखे दुःखे मुखप्रभा । यथाप्राप्तस्थितेर्यस्य जीवन्मुक्तः स उच्यते ॥ ६ ॥ यो जागर्ति सुषुप्तस्थो यस्य जाग्रन्न विद्यते । यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥ ७ ॥ रागद्वेषभयादीनामनुरूपं चरन्नपि । योऽन्तर्व्योमवदच्छस्थः स जीवन्मुक्त उच्यते ॥ ८ ॥ यस्य नाहंकृतो भावो यस्य बुद्धिर्न लिप्यते । कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥ ९ ॥ यस्योन्मेषनिमेषार्धाद्विदः प्रलयसंभवौ । पश्येत्त्रिलोक्याः स्वसमः स जीवन्मुक्त उच्यते ॥ १० ॥ यस्मान्नोद्वि...