Posts

Showing posts with the label बोध

अध्याय ३.७६, श्लोक ११–१७

 योगवशिष्ट ३.७६.११–१७ (ये श्लोक आंतरिक परिवर्तन और नकारात्मक पहचानों के त्याग के महत्व को उजागर करते हैं) श्रीवसिष्ठ उवाच। एवं स्थिता मौनवती शुश्राव गगनाद्गिरम्। रक्षःस्वरूपसंत्यागतुष्टेनोक्तां नभस्वता ॥ ११॥ गच्छ कर्कटि मूढांस्त्वं ज्ञानेनाश्ववबोधय। मूढोत्तारणमेवेह स्वभावो महतामिति ॥ १२॥ बोध्यमानो भवत्यापि यो न बोधमुपैष्यति। स्वनाशायैव जातोऽसौ न्याय्यो ग्रासो भवेत्तव ॥ १३॥ श्रुत्वेत्यनुगृऽहीतास्मि त्वयेत्युक्तवती शनैः। उत्तस्थौ शैलशिखरात्क्रमादवरुरोह च ॥ १४॥ अधित्यकामतीत्याशु गत्वा चोपत्यकातटान्। विवेश शैलपादस्थं किरातजनमण्डलम् ॥ १५॥ बह्वन्नपशुलोकौघद्रव्यशष्पौषधामिषम्। अनन्तमूलपानान्नमृगकीटखगादिकम् ॥ १६॥ प्रचलितवलिताञ्जनाचलाभा हिमगिरिपादनिवेशितं सुदेशम्। तदनुगतवती निशाचरी सा निशि सुघनान्धतमिस्रमार्गभूमौ ॥ १७॥ महर्षि वशिष्ठ आगे बोले: ३.७६.११–१७ > इस प्रकार मौन रहते हुए, उसने आकाश से एक आवाज सुनी। यह वायु देवता द्वारा कही गई थी, जो उसके राक्षसी रूप को त्यागने से प्रसन्न थे। > "जाओ कर्कटी! ज्ञान से मूढ़ों को शीघ्र जागृत करो। मूढ़ों का उद्धार करना महान् आत्माओं का स्वभाव है।...

अध्याय ३.७६, श्लोक १–१०

 योगवशिष्ट ३.७६.१–१० (यह श्लोक दर्शाते है कि चेतना सूक्ष्म और स्थूल अवस्थाओं के बीच कैसे बदल सकती है, जैसे आकाश में वर्षा ऋतु के बादल बनते हैं) श्रीवसिष्ठ उवाच। अथाभवदसौ सूची कर्कटीराक्षसी पुनः। सूक्ष्मैव स्थौल्यमायाता मेघलेखेव वार्षिकी ॥ १॥ निजमाकाशमासाद्य किंचित्प्रमुदिता सती। वृहद्राक्षसभावं तद्बोधात्कञ्चुकवज्जहौ ॥ २॥ तत्रैव ध्यायती तस्थौ बद्धपद्मासनस्थितिः। व्यालम्ब्य संविदं शुद्धां संस्थिता गिरिकूटवत् ॥ ३॥ अथ सा मासषट्केन ध्यानाद्बोधमुपागता। महाजलदनादेन प्रावृषीव शिखण्डिनी ॥ ४॥ प्रबुद्धा सा बहिर्वृत्तिर्बभूव क्षुत्परायणा। यावद्देहं स्वभावोऽस्य देहस्य न निवर्तते ॥ ५॥ अथ सा किं ग्रस इति चिन्तयामास चिन्तया। भोक्तव्यः परजीवश्च न्यायेन न विना मया ॥ ६॥ यदार्यगर्हितं यद्वा न्यायेन न समर्जितम्। तस्माद्ग्रासाद्वरं मन्ये मरणं देहिनामिदम् ॥ ७॥ यदि देहं त्यजामीदं तन्न्यायोपार्जितं विना। न किंचिदस्ति निर्न्यायं भुक्तोऽर्थो हि गरायते ॥ ८॥ यत्र लोकक्रमप्राप्तं तेन भुक्तेन किं भवेत्। न जीवितेन नो मृत्या किंचित्कारणमस्ति मे ॥ ९॥ मनोमात्रमहं ह्यासं देहादिभ्रमभूषणम्। तच्छान्तं स्वावबोधेन देहादेह...

अध्याय ३.७५, श्लोक ११–२१

 योगवशिष्ट ३.७५.११–२१ (ये श्लोक तप और संकल्प द्वारा किसी प्राणी के आशीर्वाद और रूपांतरण को दर्शाते हैं) श्रीवसिष्ठ उवाच। तपसानेन संकल्पः सफलोऽस्तु तवोत्तमे। पीना भव पुनः शैले हिमकाननराक्षसी ॥ ११॥ यया पूर्वं वियुक्तासि तन्वा जलदरूपया। बीजान्तवृक्षता पुत्रि बृहद्वृक्षतया यथा ॥ १२॥ योगमेष्यसि भूयश्च तन्वान्तर्बीजरूपिणी। तयैव रससेकेन लतयेवाङ्कुरस्थितिः ॥ १३॥ बाधां विदितवेद्यत्वान्न च लोके करिष्यसि। अन्तःशुद्धा स्पन्दवती शारदीवाभ्रमण्डली ॥ १४॥ अश्रान्तध्याननिरता कदाचिल्लीलया यदि। भविष्यसि बहीरूपा सर्वात्मध्यानरूपिणी ॥ १५॥ व्यवहारात्मकध्यानधारणाधाररूपिणी। वातस्वभाववद्देहपरिस्पन्दाद्विलासिनी ॥ १६॥ तदा विरोधिनी पुत्रि स्वकर्मस्पन्दरोधिनी। न्यायेन क्षुन्निवृत्त्यर्थं भूतबाधां करिष्यसि ॥ १७॥ भविष्यसि न्यायवृत्तिर्लोके त्वन्यायबाधिका। जीवन्मुक्ततया देहे स्वविवेकैकपालिका ॥ १८॥ इत्युक्त्वा गगनतलाज्जगाम देवः सूची सा भवतु ममेति किं विरोधः। रागो वाब्जजवचनार्थवारणेऽस्मिन्नित्यन्तः स्वतनुमयी मनाग्बभूव ॥ १९॥ प्रादेशः प्रथममभूत्ततोऽपि हस्तो व्यामश्चाप्यथ विटपस्ततोऽभ्रमाला। सोद्यत्स्वावयवलता बभौ निमेषा...

अध्याय ३.६४, श्लोक १–१०

 योगवशिष्ट ३.६४.१–१० (ये श्लोक परम सत्य को सर्वव्यापी, शाश्वत ब्रह्म या परमात्मा के रूप में वर्णित करते हैं, जो शुद्ध चेतना और भीतर अनुभव होने वाला आनंद है, जिसका न आदि है और न अंत) श्रीवसिष्ठ उवाच । योऽयं सर्वगतो देवः परमात्मा महेश्वरः। स्वच्छः स्वानुभवानन्दस्वरूपोऽन्तादिवर्जितः ॥ १॥ एतस्मात्परमानन्दाच्छुद्धचिन्मात्ररूपिणः। जीवः संजायते पूर्वं स चित्तं चित्ततो जगत् ॥ २॥ श्रीराम उवाच । स्वानुभूतिप्रमाणेऽस्मिन्ब्रह्मणि ब्रह्मबृंहिते। कथं सत्तामवाप्नोति जीवको द्वैतवर्जिते ॥ ३॥ श्रीवसिष्ठ उवाच । असदाभासमच्छात्म ब्रह्मास्तीह प्रबृंहितम्। बृहच्चिद्भैरववपुरानन्दाभिधमव्ययम् ॥ ४॥ तस्य यत्सममापूर्णं शुद्धं सत्वमचिह्नितम्। तद्विदामप्यनिर्देश्यं तच्छान्तं परमं पदम् ॥ ५॥ तस्यैवोद्यदिवाशान्ति यत्सत्त्वं संविदात्मकम्। स्वभावात्स्पन्दनं तत्तु जीवशब्देन कथ्यते ॥ ६॥ तत्रेमाः परमादर्शे चिद्व्योम्न्यनुभवात्मिकाः। असंख्याः प्रतिबिम्बन्ति जगज्जालपरम्पराः ॥ ७॥ ब्रह्मणः स्फुरणं किंचिद्यदवाताम्बुधेरिव। दीपस्येवाप्यवातस्य तं जीवं विद्धि राघव ॥ ८॥ शान्तत्वापगमेऽच्छस्य मनाक्संवेदनात्मकम्। स्वाभाविकं यत्स्फुर...

अध्याय ३.६०, श्लोक ४६–६३

 योगवशिष्ट ३.६०.४६–६३ (ये श्लोक समझाते हैं कि संसार में सभी व्यक्तिगत मन और भूमिकाएँ एक अनंत चेतना के भीतर प्रक्षेप या प्रतिबिंब मात्र हैं) श्रीराम उवाच । पौराणां मन्त्रिमुख्यानां विदूरथकुलक्रमः। सममेव कथं तत्र सर्वेषां प्रतिभासितः ॥ ४६॥ श्रीवसिष्ठ उवाच । चितः समनुवर्तन्ते मुख्यायाः सर्वसंविदः। यथा विपुलवात्यायाः सामान्या वातलेखिकाः ॥ ४७॥ परस्परानुसारेण तथारूपेण संविदः। कचितास्ताः प्रजापालप्रजावास्तव्यमन्त्रिणः ॥ ४८॥ एवंरूपात्कुलाज्जातो राजास्माकमयं त्वसौ। कचिता इव वास्तव्यविदो वैदूरथे पुरे ॥ ४९॥ कचने चित्स्वभावस्य न च कारणमार्गणम्। युक्तं महामणेर्भासामिवान्यत्र स्वभावतः ॥ ५०॥ अहमेवं कुलाचारे राजा स्यामेवमित्यपि। विदूरथविदो रत्नादुदिता प्रतिभा यथा ॥ ५१॥ यावन्तो जन्तवो यस्मिन्ये ये सर्गे यदा यदा। ते सर्वगत्वाच्चिद्धातोरन्योन्यादर्शतां गताः ॥ ५२॥ तीव्रवेगवती या स्यात्तत्र संविदकम्पिता। सैवायाति परं स्थैर्यमामोक्षं त्वेकरूपिणी ॥ ५३॥ बलवच्चिद्विलासानामनुवृत्त्या परस्परम्। स्वभावाः प्रतिबिम्बन्ति चिदादर्शे स्वभावतः ॥ ५४॥ तत्रातियत्नाज्जयति सत्याः संविद आत्मसात्। कुर्वन्ति सरिदम्भोधिगामि...

अध्याय ३.६०, श्लोक १६–२९

 योगवशिष्ट ३.६०.१६–२९ (ये श्लोक सिखाते हैं कि संसार और सभी अनुभव पूर्ण रूप से मन की धारणा द्वारा आकार लेते हैं) श्रीवसिष्ठ उवाच । येन येन यथा यद्यद्यदा संवेद्यतेऽनघ। तेन तेन तथा तत्तत्तदा समनुभूयते ॥ १६॥ अमृतत्वं विषं याति सदैवामृतवेदनात्। शत्रुर्मित्रत्वमायाति मित्रसंवित्तिवेदनात् ॥ १७॥ यथा भावितमेतेषां पदार्थानां निजं वपुः। तदेव हि चिराभ्यासान्नियतेर्वशमायतम् ॥ १८॥ कचनैकात्मिकैषा चिद्यथा कचति यादृशम्। तथा तथाशु भवति तत्स्वभावैककारणात् ॥ १९॥ निमेषे यदि कल्पौघसंविदं परिविन्दति। निमेष एव तत्कल्पो भवत्यत्र न संशयः ॥ २०॥ कल्पे यदि निमेषत्वं वेत्ति कल्पोऽप्यसौ ततः। निमेषीभवति क्षिप्रं तादृग्रूपात्मिका हि चित् ॥ २१॥ दुःखितस्य निशा कल्पः सुखितस्यैव च क्षणः। क्षणः स्वप्ने भवेत्कल्पः कल्पश्च भवति क्षणः ॥ २२॥ यथा च मृत्वा जातोऽहं तरुणो यौवनस्थितः। यातोऽस्मि योजनशतं स्वप्न इत्यनुभूयते ॥ २३॥ रात्रिं द्वादशवर्षाणि हरिश्चन्द्रोऽनुभूतवान्। लवणो भुक्तवानायुरेकरात्र्या समाः शतम् ॥ २४॥ यन्मुहूर्तः प्रजेशस्य स मनोर्जीवितं मुनेः। जीवितं यद्विरिञ्चस्य तद्दिनं किल चक्रिणः ॥ २५॥ विष्णोर्यज्जीवितं राम तद...

अध्याय ३.५९, श्लोक १~१८

 योगवशिष्ट ३.५९.१~१८ (ये श्लोक सिखाते हैं कि दिव्य कृपा और व्यक्तिगत प्रयास मिलकर जीवन को बदल सकते हैं और मृत्यु जैसे प्रतीत होने वाले नुकसान के बाद भी महान आनंद ला सकते हैं) श्रीवसिष्ठ उवाच । सरस्वती तथेत्युक्त्वा तत्रैवान्तर्धिमाययौ। प्रभाते पङ्कजैः सार्धं बुबुधे सकलो जनः ॥ १॥ आलिलिङ्ग च तां लीलां लीला च दयितं क्रमात्। पुनःपुनर्महानन्दान्मृतं प्रोज्जीवितं पुनः ॥ २॥ तदासीद्राजसदनं मदमन्मथमन्थरम्। आनन्दमत्तजनतं वाद्यगेयरवाकुलम् ॥ ३॥ जयमङ्गलपुण्याहघोषघुंघुमघर्घरम्। तुष्टपुष्टजनापूर्णं राजलोकवृताङ्गणम् ॥ ४॥ (५~१३) लीला लीला च राजा च जीवन्मुक्तमहाधियः। रेमिरे पूर्ववृत्तान्तकथनैः सुरतैरिव ॥ १४॥ सरस्वत्याः प्रसादेन स्वपौरुषकृतेन तत्। प्राप्तं लोकत्रयश्रेयः पद्मेनेति महीभुजा ॥ १५॥ स ज्ञप्तिज्ञानसंबुद्धो राजा लीलाद्वयान्वितः। चक्रे वर्षायुतान्यष्टौ तत्र राज्यमनिन्दितः ॥ १६॥ जीवन्मुक्तास्त इत्येवं राज्यं वर्षायुताष्टकम्। कृत्वा विदेहमुक्तत्वमासेदुः सिद्धसंविदः ॥ १७॥ यदुदयविशदं विदग्धमुग्धं समुचितमात्महितं च पेशलं च। तदखिलजनतोषदं स्वराज्यं चिरमनुपाल्य सुदंपती विमुक्तौ ॥ १८॥ महर्षि वशिष्ठ बो...

अध्याय ३.५८, श्लोक १०–२४

 योगवशिष्ट ३.५८.१०–२४ (ये छंद सिखाते हैं कि संसार और हमारे शरीर हमारी गहरी छिपी हुई वासनाओं द्वारा बनाए गए प्रक्षेप हैं) ज्ञाप्तिरुवाच । त्वं तु तेन शरीरेण सत्यसंकल्पतः सुते। दृश्यसे स्ववदातेन चित्रं तत्र तवोपरि ॥ १०॥ यद्वासना त्वमभवो देहं प्रति तदेव ते। रूपमभ्युदितं बाले तेन प्राक्सदृशं तव ॥ ११॥ स्ववासनानुसारेण सर्वः सर्वं हि पश्यति। दृष्टान्तोऽत्राविसंवादी बालवेतालदर्शनम् ॥ १२॥ आतिवाहिकदेहासि संपन्ना सिद्धसुन्दरि। विस्मृतस्त्वेव देहोऽसौ प्राक्तनोऽनपवासनः ॥ १३॥ रूढातिवाहिकदृशः प्रशाम्यत्याधिभौतिकः। बुधस्य दृश्यमानोऽपि शरन्मेघ इवाम्बरे ॥ १४॥ रूढातिवाहिकीभावः सर्वो भवति देहकः। निर्जलाम्भोदसदृशो निर्गन्धकुसुमोपमः ॥ १५॥ सद्वासनस्य रूढायामातिवाहिकसंविदि। देहो विस्मृतिमायाति गर्भसंस्थेव यौवने ॥ १६॥ एकत्रिंशेऽद्य दिवसे प्राप्ता वयमिहाम्बरे। प्रभाते मोहिते दास्यौ मयैते निद्रयाधुना ॥ १७॥ तदेहि यावल्लीलायै लीले संकल्पलीलया। आत्मानं दर्शयावोऽस्यै व्यवहारः प्रवर्तताम् ॥ १८॥ श्रीवसिष्ठ उवाच । आवां तावदिमे लीला पश्यत्वित्येव चिन्तिते। ज्ञप्त्या देव्या ततस्तत्र दृश्ये दीप्ते बभूवतुः ॥ १९॥ सा विद...

अध्याय ३.५८, श्लोक १–९

 योगवशिष्ट ३.५८.१–९ (इन श्लोकों में आंतरिक चेतना और बाहरी भौतिक जगत के बीच के अंतर को दिखाया गया है)   श्रीवसिष्ठ उवाच । एतस्मिन्नन्तरे ज्ञप्तिर्जीवं वैदूरथं पुनः। संकल्पेन रुरोधाशु मनसः स्पन्दनं यथा ॥ १॥ लीलोवाच । वद देवि कियान्कालो गतोऽस्यामिह मन्दिरे। समाधौ मयि लीनायां महीपाले शवे स्थिते ॥ २॥ ज्ञाप्तिरुवाच । इह मासस्त्वतिक्रान्त इह दास्याविमे तव। रक्षार्थं वासगृहके स्वपतोऽवहिते स्थिते ॥ ३॥ शृणु देहस्य किंवृत्तं तवेह वरवर्णिनि। शरीरं तव पक्षेण तत्क्लिन्नं बाष्पतां गतम् ॥ ४॥ निर्जीवं पतितं भूमौ संशुष्कमिव पल्लवम्। काष्ठकुड्योपमो जातः शवस्तु हिमशीतलः ॥ ५॥ ततो मन्त्रिभिरागत्य मृतैवेयमिति स्वयम्। क्लेदालोकाद्विनिर्णीय भूयो निष्कासितं गृहात् ॥ ६॥ बहुनात्र किमुक्तेन नीत्वा चन्दनदारुभिः। चितौ संक्षिप्य सघृतं सहसा भस्मसात्कृतम् ॥ ७॥ ततो राज्ञी मृतेत्युच्चैः कृत्वा रोदनमाकुलम्। परिवारस्तवाशेषं कृतवानौर्ध्वदेहिकम् ॥ ८॥ इदानीं त्वामिहालोक्य सशरीरामुपागताम्। परलोकादागतेति महच्चित्रं भविष्यति ॥ ९॥ महर्षि वशिष्ठ बोले:  ३.५८.१ > उस समय चेतना ने अपने संकल्प से राजा विदूरथ के जीव को ...

अध्याय ३.५३, श्लोक १५–२७

 योगवशिष्ट ३.५३.१५–२७ (ये श्लोक सिखाते हैं कि भौतिक दुनिया और अलग-अलग लोक ठोस दीवारें नहीं हैं बल्कि चेतना के लिए खुले हैं ) श्रीवसिष्ठ उवाच । तत्रैकस्मिन्पुरःसंस्थे विततावरणान्विते। वेधयित्वा विवेशान्तर्बदरं कृमिको यथा ॥ १५॥ पुनर्ब्रह्मेन्द्रविष्ण्वादिलोकानुल्लङ्घ्य भास्वरान्। तन्महीमण्डलं श्रीमत्प्राप तारापथादधः ॥ १६॥ तत्र तन्मण्डलं प्राप्य तत्पुरं तच्च मण्डपम्। प्रविश्य पुष्पगुप्तस्य शवस्य निकटे स्थिता ॥ १७॥ एतस्मिन्नन्तरे सा च न ददर्श कुमारिकाम्। मायामिव परिज्ञाता क्वापि यातां वरानना ॥ १८॥ मुखमालोक्य सा तस्य स्वभर्तुः शवरूपिणः। इदं बुद्धवती सत्यं प्रतिभावशतः स्वतः ॥ १९॥ अयं स भर्ता संग्रामे निहतो मम सिन्धुना। वीरलोकानिमान्प्राप्य क्षणं शेते यथासुखम् ॥ २०॥ अहं देव्याः प्रसादेन सशरीरैवमीदृशम्। इह प्राप्तवती धन्या मत्समा नास्ति काचन ॥ २१॥ इति संचिन्त्य सा हस्ते गृहीत्वा चारु चामरम्। वीजयामास चन्द्रेण द्यीरिवावनिमण्डलम् ॥ २२॥ प्रबुद्धलीलोवाच । ते भृत्यास्ताश्च वै दास्यः स राजा च प्रबुद्धवान्। वक्ष्यन्ति वदतां देवि किं कयैव कथं धिया ॥ २३॥ श्रीदेव्युवाच । स राजा सा च ते भृत्याः सर्व ...

अध्याय ३.४१, श्लोक १–२०

योगवशिष्ट ३.४१.१–२० (ये छंद एक दिव्य दृश्य का वर्णन करते हैं, जहाँ दो देवियाँ—लीला और सरस्वती  राजा विदुरथ के महल में प्रवेश करती हैं। अपनी देदीप्यमान उपस्थिति से वे राजा को जगा देती हैं, इसके बाद राजा का मंत्री उनके वंश का वर्णन करता है।ये श्लोक संसार की माया और दिव्य हस्तक्षेप से उच्च चेतना की जागृति को दर्शाते हैं ) श्रीवसिष्ठ उवाच । तयोः प्रविष्टयोर्देव्योः पद्मसद्म बभूव तत् । चन्द्रद्वयोदयोद्द्योतधवलोदरसुन्दरम् ॥ १ ॥ कोमलामलसौगन्ध्यमृदुमन्दारमारुतम् । तत्प्रभावेन निद्रालुनृपेतरनराङ्गनम् ॥ २ ॥ सौभाग्यनन्दनोद्यानं विद्रुतव्याधिवेदनम् । सवसन्तं वनमिव फुल्लं प्रातीरवाम्बुजम् ॥ ३ ॥ तयोर्देहप्रभापूरैः शशिनिस्यन्दशीतलैः । आह्लादितोऽसौ बुबुधे राजोक्षित इवामृतैः ॥ ४ ॥ आसनद्वयविश्रान्तं स ददर्शाप्सरोद्वयम्। मेरुशृङ्गद्वये चन्द्रबिम्बद्वयमिवोदितम् ॥ ५ ॥ निमेषमिव संचिन्त्य स विस्मितमना नृपः । उत्तस्थौ शयनाच्छेषादिव चक्रगदाधरः ॥ ६ ॥ परिसंयमितालम्बिमाल्यहाराधराम्बरः । पुष्पाहार इवोत्फुल्लं जग्राह कुसुमाञ्जलिम् ॥ ७ ॥ >>> उवाच देवी । हे राजन्कस्त्वं कस्य सुतः कदा । इह जात इति श्रुत्व...

अध्याय ३.२८, श्लोक ४७–६३

योगवशिष्ट ३.२८.४७–६३ (ये श्लोक एक अत्यंत सुंदर और मनमोहक उद्यान या स्वर्गीय बगीचे का चित्रण करते हैं, जिसमें प्राकृतिक सौंदर्य, ठंडक, सुगंध, पक्षियों और मधुमक्खियों की ध्वनियाँ, बहता जल, खिले फूल और जीवंत जीवन भरा है) श्रीवसिष्ठ उवाच । वातायनगुहानिर्यत्सोधविश्रान्तवारिदम् । पूर्णपुष्करिणीपङ्क्तिपूर्णराजपृथूत्तरम् ॥ ४७ ॥ नीरन्ध्रविटपिच्छायाशीतलामलशाद्वलम् । सर्वशष्पाग्रवार्बिन्दुप्रतिबिम्बिततारकम् ॥ ४८ ॥ अनारतपतत्फुल्लहिमवर्षसितालयम् । विचित्रमञ्जरीपुष्पपत्रसत्फलपादपम् ॥ ४९ ॥ गृहकक्षान्तरालीनमेघसुप्तचिरण्टिकम् । सौधस्थमेघविद्युद्भिरनादेयप्रदीपकम् ॥ ५० ॥ कन्दरानिलभांकारघनघुंघुममण्डपम् । चरच्चकोरहारीतहरिणीहारिमन्दिरम् ॥ ५१ ॥ उन्निद्रकन्दलोद्वान्तमांसलामोदमन्थरैः । मरुद्भिर्मन्दमायातुमारब्धैर्लोलपल्लवम् ॥ ५२ ॥ लावकालापलीलायामालीनललनागणम् । कोककोकिलकाकोलकोलाहलसमाकुलम् ॥ ५३ ॥ शालतालतमालाब्जनीलतत्फलमालिनम् । वल्लीवलयविन्यासविलासवलितद्रुमम् ॥ ५४ ॥ आलोलपल्लवलतावलितायनानामुत्फुल्लकन्दलशिलीन्ध्रसुगन्धितानाम् । तालीतमालदलताण्डवमण्डपानामारामफुल्लकुसुमद्रुमशीतलानाम् ॥ ५५ ॥ साराववारिचलनाकुलगोकुलानामा...

अध्याय ३.२७, श्लोक २६–४२

योगवशिष्ट ३.२७.२६–४२ (सभी जीवनों को एक ही आत्मा के भीतर एक साथ चलने वाली मायावी छवियों के रूप में देखकर, साधक संसार से पार हो जाता है, और शुद्ध चेतना में अनंत स्वतंत्रता का साक्षात्कार कर लेता है) श्रीदेव्युवाच । अन्य एव हि संसारः सोऽन्यो ब्रह्माण्डमण्डपः । अन्या एव तता वत्से व्यवहारपरम्पराः ॥ २६ ॥ संसारमण्डलानीह तानि पार्श्वे स्थितान्यपि । दूरं योजनकोटीनां कोटयस्तेष्विहान्तरम् ॥ २७ ॥ आकाशमात्रमेतेषामिदं पश्य वपुः पुनः। मेरुमन्दरकोटीनां कोटयस्तेष्ववस्थिताः ॥ २८ ॥ परमाणौ परमाणौ सर्ववर्गानिरर्गलम् । महाचितेः स्फुरन्त्यर्करुचीव त्रसरेणवः ॥ २९ ॥ महारम्भगुरूण्येवमपि ब्रह्माण्डकानि हि। तुलया धानकामात्रमपि तानि भवन्ति नो ॥ ३० ॥ नानारत्नामलोद्द्योतो वनवद्भाति खे यथा । पृथ्व्यादिभूतरहिता जगच्चिद्भाति चिन्तया ॥ ३१ ॥ कचति ज्ञप्तिरेवेदं जगदित्यादि नात्मनि । नतु पृथ्व्यादि संपन्नं सर्गादावेव किंचन ॥ ३२ ॥ यथा तरङ्गः सरसि भूत्वा भूत्वा पुनर्भवेत् । विचित्राकारकालाङ्गदेशाज्ञप्तावलं तथा ॥ ३३ ॥ लीलोवाच । एवमेतज्जगन्मातर्मया स्मृतमिहाधुना । ममेदं राजसं जन्म न तमो न च सात्त्विकम् ॥ ३४ ॥ ब्रह्मणस्त्ववतीर्ण...

अध्याय ३.२७, श्लोक १३–२५

योगवशिष्ट ३.२७.१३–२५ (यह सारी दुनिया, जन्म, मृत्यु और अनुभव चेतना के ही "आकाश" में समाहित हैं, ठीक उसी तरह जैसे सरसों के दाने किसी बर्तन में भरे होते हैं) लीलोवाच । इहैव मन्दिराकाशे पतिर्विप्रो ममाभवत्। इहैव स मृतो भूत्वा संपन्नो वसुधाधिपः ॥ १३ ॥ इहैव तस्य संसारे तस्मिन्भूमण्डलान्तरे। राजधानीपुरे तस्मिन्पुरन्ध्र्यस्मि व्यवस्थिता ॥ १४ ॥ इहैवान्तःपुरे तस्मिन्स मृतो मम भूपतिः। इहैवान्तःपुराकाशे तस्मिन्नेव पुरे नृपः ॥ १५ ॥ संपन्नो वसुधापीठे नानाजनपदेश्वरः । सर्वार्जवजवीभाव इहैवैवं व्यवस्थितः ॥ १६ ॥ अस्मिन्नेव गृहाकाशे सर्वा ब्रह्माण्डभूमयः । स्थिताः समुद्गके मन्ये यथान्तः सर्षपोत्कराः ॥ १७ ॥ सदाऽदूरमहं मन्ये तद्भर्तुर्मम मण्डलम्। क्वचित्पार्श्वे स्थितमिह यथा पश्यामि तत्कुरु ॥ १८ ॥ श्रीदेव्युवाच । भूतलारुन्धतिसुते भर्तारस्तव संप्रति। त्रयो नामाथवाभूवन्बहवः शतसंमताः ॥ १९ ॥ नेदीयसां त्रयाणां तु द्विजस्ते भस्मतां गतः । राजा माल्यान्तरगतः संस्थितोऽन्तःपुरे शवः ॥ २० ॥ संसारमण्डले ह्यस्मिंस्तृतीयो वसुधाधिपः । महासंसारजलधिं पतितो भ्रममागतः ॥ २१ ॥ भोगकल्लोलकलनाविकलो मलचेतनः। जाड्यजर्जरचिद...

अध्याय ३.२६, श्लोक १–१०

योगवशिष्ट ३.२६.१–१० (सांसारिक आसक्ति से उत्पन्न दुख, तथा आत्म-साक्षात्कार की मुक्तिदायक आनंद)   श्रीवसिष्ठ उवाच । इति ते वरवर्णिन्यौ ततो ब्रह्माण्डमण्डलात् । निर्गत्यान्यदनुप्राप्ते यत्र तद्ब्राह्मणास्पदम् ॥ १ ॥ ततो ददृशतुः सद्म स्वमेवं सिद्धयोषितौ । अदृश्ये एव लोकस्य मण्डपं ब्राह्मणास्पदम् ॥ २ ॥ चिन्ताविधुरदासीकं बाष्पक्लिन्नाङ्गनामुखम् । विध्वस्तप्रायवदनं शीर्णपर्णाम्बुजोपमम् ॥ ३ ॥ नष्टोत्सवपुरप्रायमगस्त्यात्तमिवार्णवम् । ग्रीष्मदग्धमिवोद्यानं विद्युद्दग्धमिव द्रुमम् ॥ ४ ॥ वातच्छिन्नमिवाम्भोदं हिमदग्धमिवाम्बुजम् । अल्पस्नेहदशं दीपमिवालोकनभेदनम् ॥ ५ ॥ आसन्नमृत्युकरुणाकुलवक्त्रकान्ति संशीर्णजीर्णतरुपर्णवनोपमानम् । वृष्टिव्यपायपरिधूसरदेशरूक्षं जातं गृहेश्वरवियोगहतं गृहं तत् ॥ ६ ॥ अथ सा निर्मलज्ञानचिराभ्यासेन सुन्दरी । संपन्ना सत्यसंकल्पा सत्यकामा च देववत् ॥ ७ ॥ चिन्तयामास मामेते देवीं चेमां स्वबन्धवः । पश्यन्तु तावत्सामान्यललनारूपधारणीम् ॥ ८॥ ततो गृहजनस्तत्र स ददर्शाङ्गनाद्वयम्। लक्ष्मीगौर्योर्युगमिव समुद्भासितमन्दिरम् ॥ ९ ॥ आपादविविधाम्लानमालावसनसुन्दरम् । वसन्तलक्ष्म्योर्युगलमिवाम...

अध्याय ३.२४, श्लोक १–१०

योगवशिष्ट ३.२४.१–१० (सारी सृष्टि, जिसमें स्वर्ग भी शामिल हैं, चाहे वह कितनी भी भव्य या विस्तृत क्यों न हो, शुद्ध चेतना में ही उत्पन्न होती है और उसी में स्थित रहती है, ठीक वैसे ही जैसे दर्पण में प्रतिबिंब)   श्रीवसिष्ठ उवाच । दूराद्दूरमभिप्लुत्य शनैरुच्चैः पदं गते। हस्तं हस्ते समालम्ब्य यान्त्यौ ददृशतुर्नभः ॥ १ ॥ एकार्णवमिवोच्छूनं गम्भीरं निर्मलान्तरम् । कोमलं कोमलमरुदासङ्गसुखभोगदम् ॥ २॥ आह्लादकमलं सौम्यं शून्यताम्भोनिमज्जनात् । अत्यन्तशुद्धं गम्भीरं प्रसन्नमपि सज्जनात् ॥ ३ ॥ शृङ्गस्थनिर्मलाम्भोदपीनोदरसुधालये। विशश्रमतुराशासु पूर्णचन्द्रोदरामले ॥ ४ ॥ सिद्धगन्धर्वमन्दारमालामोदमनोहरे । चन्द्रमण्डलनिष्क्रान्ते रेमाते मधुरानिले ॥ ५ ॥ सस्नतुर्भूरिघर्मान्ते तडिद्रक्ताब्जसंकुले। सरसीव जलापूरमन्थरे मेघमण्डले ॥ ६॥ भूतलौघमहाशैलमृणालाङ्कुरकोटिषु । दिक्षु बभ्रमतुः स्वैरं भ्रमर्यौ सरसीष्विव ॥ ७ ॥ धारागृहधिया धीरगङ्गानिर्झरधारिणि। भ्रेमतुर्वातविक्षुब्धमेघमण्डलमण्डपे ॥ ८॥ ततो मधुरगामिन्यौ विश्राम्यन्त्यौ स्वशक्तितः । शून्ये ददृशतुर्व्योम महारम्भातिमन्थरम् ॥ ९ ॥ अदृष्टपूर्वमन्योन्यं सर्वसंकटकोटरम्...