Posts

Showing posts with the label आंतरिक शांति

अध्याय २.१३, श्लोक ७७–८४

योग वशिष्ठ २.१३.७७–८४ (आंतरिक शांति एक सर्वोच्च गुण और आध्यात्मिक अनुभूति का मार्ग) श्रीवसिष्ठ उवाच । अमृतस्यन्दसुभगा यस्य सर्वजनं प्रति। दृष्टिः प्रसरति प्रीता स शान्त इति कथ्यते ॥ ७७ ॥ योऽन्तः शीतलतां यातो यो भावेषु न मज्जति । व्यवहारी न संमूढः स शान्त इति कथ्यते ॥ ७८ ॥ अप्यापत्सु दुरन्तासु कल्पान्तेषु महत्स्वपि । तुच्छेऽहं न मनो यस्य स शान्त इति कथ्यते ॥ ७९ ॥ आकाशसदृशी यस्य पुंसः संव्यवहारिणः। कलङ्कमेति न मतिः स शान्त इति कथ्यते ॥ ८० ॥ तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च । बलवत्सु गुणाढ्येषु शमवानेव राजते ॥ ८१ ॥ शमसंसक्तमनसां महतां गुणशालिनाम्। उदेति निर्वृतिश्चित्ताज्ज्योत्स्नेव सितरोचिषः ॥ ८२ ॥ सीमान्तो गुणपूगानां पौरुषैकान्तभूषणम् । संकटेषु भयस्थाने शमः श्रीमान्विराजते ॥ ८३ ॥ शमममृतमहार्यमार्यगुप्तं परमवलम्ब्य परं पदं प्रयाताः । रघुतनय यथा महानुभावाः क्रममनुपालय सिद्धये तमेव ॥ ८४ ॥ महर्षि वशिष्ठ ने कहा: २.१३.७७:  जिसकी दृष्टि अमृत के समान मधुर और स्नेह से युक्त होकर सभी लोगों की ओर प्रवाहित होती है, उसे शांत कहते हैं। २.१३.७८:  जिसने आंतरिक शीतलता प्राप्त कर ली है, जो भा...