Posts

Showing posts with the label संसार

अध्याय ३.९९, श्लोक १–१२

योगवशिष्ट ३.९९.१–१२ (संसार का जंगल ) श्रीराम उवाच। कासौ महाटवी ब्रह्मन्कदा दृष्टा कथं मया। के च ते पुरुषास्तत्र किं तत्कर्तुं कृतोद्यमाः ॥ १॥ श्रीवसिष्ठ उवाच। रघुनाथ महाबाहो श्रृणु वक्ष्यामि तेऽखिलम्। न सा महाटवी राम दूरे नैव च ते नराः ॥ २॥ येयं संसारपदवी गम्भीराऽपारकोटरा। तां तां शून्यां विकाराढ्यां विद्धि राम महाटवीम् ॥ ३॥ विचारालोकलभ्येयं यदैकेनैव वस्तुना। पूर्णा नान्येन संयुक्ता केवलेव तदैव सा ॥ ४॥ तत्र ये ते महाकाराः पुरुषाः प्रभ्रमन्ति हि। मनांसि तानि विद्धि त्वं दुःखे निपतितान्यलम् ॥ ५॥ द्रष्टा योऽयमहं तेषां सविवेको महामते। विवेकेन मया तानि दृष्टान्यन्येव नानघ ॥ ६॥ मया तान्येव बोध्यन्ते विवेकेन मनांसि हि। सततं सुप्रकाशेन कमलानीव भानुना ॥ ७॥ मत्प्रबोधं समासाद्य मत्प्रसादान्महामते। मनांसि कानि चित्तानि गतान्युपशमात्परम् ॥ ८॥ कानिचिन्नाभिनन्दन्ति मां विवेकं विमोहतः। मत्तिरस्कारवशतः कूपेष्वेव पतन्त्यधः ॥ ९॥ ये तेऽन्धकूपा गहना नरकास्ते रधूद्वह। कदलीकाननं यानि संप्रविष्टानि तानि तु ॥ १०॥ स्वर्गैकरसिकानि त्वं मनांसि ज्ञातुमर्हसि। प्रविष्टान्यन्धकूपान्तर्निर्गतानि न यानि तु ॥ ११॥ महापात...