अध्याय २.११, श्लोक १–१२
योग वशिष्ठ २.११.१–१२ अध्याय ११ - जिज्ञासु और गुरु की योग्यताएँ (संसार में अज्ञान निवारण हेतु आध्यात्मिक ज्ञान का प्रसार) श्रीवसिष्ठ उवाच । एतत्ते कथितं सर्व ज्ञानावतरणं भुवि । मया स्वमीहितं चेव कमलोद्भवचेष्टितम् ॥ १ ॥ तदिदं परमं ज्ञानं श्रोतुमद्य तवानघ । भृशमुत्कण्ठितं चेतो महतः सुकृतोदयात् ॥ २ ॥ श्रीराम उवाच । कथं ब्रह्मन्मगवतो लोके ज्ञानावतारणे। सर्गादनन्तरं बुद्धिः प्रवृत्ता परमेष्ठिनः ॥ ३ ॥ श्रीवसिष्ठ उवाच । परमे ब्रह्मणि ब्रह्मा स्वभाववशतः स्वयम्। जातः स्पन्दमयो नित्यमूर्मिरम्बुनिधाविव ॥ ४ ॥ दृष्ट्वैवमातुरं सर्ग सर्गस्य सकलां गतिम्। भूतभव्यभविष्यस्थां दश परमेश्वरः ॥ ५॥ सक्रियाक्रमकालस्य कृतादेः क्षय आगते। मोहमालोच्य लोकानां कारुण्यमगमत्प्रभुः ॥ ६ ॥ ततो मामीश्वरः सृष्ट्वा ज्ञानेनायोज्य चासकृत् । विससर्ज महीपीठं लोकस्याज्ञानशान्तये ॥ ७ ॥ यथाहं प्रहितस्तेन तथान्ये च महर्षयः। सनत्कुमारप्रमुखा नारदाद्याश्च भूरिशः ॥ ८ ॥ क्रियाक्रमेण पुण्येन तथा ज्ञानक्रमेण च । मनोमोहामयोन्नद्धमुद्धर्तुं लोकमीरिताः ॥ ९ ॥ महर्षिभिस्ततस्तैस्तैः क्षीणे कृतयुगे पुरा । क्रमात्क्रियाक्रमे शुद्धे पृथिव्या तनुता...