Posts

Showing posts with the label सिद्ध मन

अध्याय २.१८, श्लोक २४–३२

योग वशिष्ठ २.१८.२४–३२ (एक बुद्धिमान एवं सिद्ध मन के गुण) श्रीवसिष्ठ उवाच । धर्मभित्तौ भृशं लग्नां धियं धैर्यधुरं गताम् । आधयो न विधुन्वन्ति वाताश्चित्रलतामिव ॥ २४ ॥ न पतत्यवटे ज्ञस्तु विषयासङ्गरूपिणि । कः किल ज्ञातसरणिः श्वभ्रं समनुधावति ॥ २५ ॥ सच्छास्त्रसाधुवृत्तानामविरोधिनि कर्मणि । रमते धीर्यथाप्राप्ते साध्वीवान्तःपुराजिरे ॥ २६ ॥ जगतां कोटिलक्षेषु यावन्तः परमाणवः। तेषामेकैकशोऽन्तःस्थान्सर्गान्पश्यत्यसङ्गधीः ॥ २७ ॥ मोक्षोपायावबोधेन शुद्धान्तःकरणं जनम्। न खेदयति भोगौघो न चानन्दयति क्वचित् ॥ २८ ॥ परमाणौ परमाणौ सर्ववर्गा निरर्गलाः। ये पतन्त्युत्पतन्त्यम्बुवीचिवत्तान्स पश्यति ॥ २९ ॥ न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति । कार्याण्येष प्रबुद्धोऽपि निष्प्रबुद्ध इव द्रुमः ॥ ३० ॥ दृश्यते लोकसामान्यो यथाप्राप्तानुवृत्तिमान् । इष्टानिष्टफलप्राप्तौ हृदयेनापराजितः ॥ ३१ ॥ बुद्ध्वेदमखिलं शास्त्रं वाचयित्वा विविच्यताम् । अनुभूयत एवैतन्न तूक्तं वरशापवत् ॥ ३२ ॥ महर्षि वशिष्ठ ने कहा: २.१८.२४:  मन, जो धर्म में दृढ़ता से स्थापित और धैर्य में अटल है, वह कष्टों से विचलित नहीं होता, जैसे हवा ...