अध्याय ३.९१, श्लोक १–८
योगवशिष्ट ३.९१.१–८ (ये श्लोक मन की सर्वोच्च और स्वतंत्र प्रकृति को प्रकट करते हैं ) भानुरुवाच। तेनैतद्वच्मि भवगन्यथाकालं मनो मुने। अनिग्राह्यमभेद्यं च शापैरपि दुरासदैः ॥ १॥ ऐन्दवानामतः सृष्टिक्रमाणां प्रविनाशनम्। युज्यते न च तद्ब्रह्मन्युक्तमेतन्महात्मनः ॥ २॥ किं तदस्ति जगत्यस्मिन्विविधेषु जगत्सु च। तवापि नाथ नाथस्य यद्दैन्याय महात्मनः ॥ ३॥ मनो हि जगतां कर्तृ मनो हि पुरुषः स्मृतः। यन्मनोनिश्चयकृतं तद्द्रव्यौषधिदण्डनैः ॥ ४॥ हन्तुं न शक्यते जन्तोः प्रतिबिम्बं मणेरिव। तस्मादेतेऽत्र तिष्ठन्तु भासुरैः सर्गसंभ्रमैः ॥ ५॥ त्वं सृष्ट्वेह प्रजास्तिष्ठ बुद्ध्याकाशो ह्यनन्तकः। चित्ताकाशश्चिदाकाश आकाशश्च तृतीयकः ॥ ६॥ अनन्तास्त्रय एवैते चिदाकाशप्रकाशिताः। एकं द्वौ त्रीन्बहून्वापि कुरु सर्गाञ्जगत्पते ॥ ७॥ स्वेच्छयात्मनि तिष्ठ त्वं किं गृहीतं तवैन्दवैः। ब्रह्मोवाच अथैन्दवजगज्जाले। भानुनैवमुदाहृते ॥ ८॥ सूर्यदेव कहा: ३.९१.१–८ > इसलिए, हे पूज्य मुनि, मैं उचित समय पर यह कहता हूँ। मन अनियंत्रणीय और अटूट है, कठोरतम शापों से भी। > इसलिए, हे ब्रह्मन्, ऐन्दवों की क्रमिक सृष्टियों का विनाश उचित नहीं ...