अध्याय २.१०, श्लोक २४–३६
योग वशिष्ठ २.१०.२४–३६ (अस्तित्व की उत्पत्ति, और अज्ञान में पतन) श्रीवसिष्ठ उवाच । इति संचिन्त्य भगवान्ब्रह्मा कमलसंस्थितः । मनसा परिसंकल्प्य मामुत्पादितवानिमम् ॥ २४ ॥ कुतोऽप्युत्पन्न एवाशु ततोऽहं समुपस्थितः । पितुस्तस्य पुनः शीघ्रमूर्मिरूर्मेरिवानघ ॥ २५ ॥ कमण्डलुधरो नाथः सकमण्डलुना मया । साक्षमालः साक्षमालं स प्रणम्याभिवादितः ॥ २६ ॥ एहि पुत्रेति मामुक्त्वा स स्वाब्जस्योत्तरे दले । शुक्लाश्च इव शीतांशु योजयामास पाणिना ॥ २७ ॥ मृगकृत्तिपरीधानो मृगकृत्तिनिजाम्बरम्। मामुवाच पिता ब्रह्मा सुहंसः सारसं यथा ॥ २८ ॥ मुहूर्तमात्रं ते पुत्र चेतो वानरचञ्चलम्। अज्ञानमभ्यास्रशतु शशः शशधरं यथा ॥ २९ ॥ इति तेनाशु शप्तः सन्विचारसमनन्तरम्। अहं विस्मृतवान्सर्वे स्वरूपममलं किल ॥ ३० ॥ अथाहं दीनता यातः स्थितोऽसंबुद्धया धिया । दुःखशोकाभिसंतप्तो जातो जन इवाधनः ॥ ३१ ॥ कष्टं संसारनामायं दोषः कथमिहागतः । इति चिन्तितवानन्तस्तूष्णीमेव व्यवस्थितः ॥ ३२ ॥ अथाभ्यधात्स मां तातः पुत्र किं दुःखवानसि । दुःखोपघातं मां पृच्छ सुखी नित्यं भविष्यसि ॥ ३३ ॥ ततः पृष्टः स भगवान्मया सकललोककृत् । हेमपद्मदलस्थेन संसारव्याधिभेषजम् ॥ ३४ ॥...