अध्याय ३.१७, श्लोक १–९
योगवशिष्ट ३.१७.१–९ (वियोग का दुःख ही परम ज्ञान का द्वार बन जाता है) श्रीसरस्वत्युवाच । शवीभूतमिमं वत्से भर्तारं पुष्पपुञ्जके। आच्छाद्य स्थापयैनं त्वं पुनर्भर्तारमेप्यसि ॥ १ ॥ पुष्पाणि म्लानिमेष्यन्ति नो नचैष विनङ्क्ष्यति । भूयश्च तव भर्तृत्वमचिरेण करिष्यति ॥ २ ॥ एतदीयश्च जीवोऽसावाकाशविशदस्तव । न निर्गमिष्यति क्षिप्रमितोऽन्तःपुरमण्डपात् ॥ ३ ॥ षट्पदश्रेणिनयना समाकर्ण्येति बन्धुभिः । सा समाश्वासितागत्य पयोभिरिव पद्मिनी ॥ ४ ॥ पतिं संस्थाप्य तत्रैव पुष्पपूरप्रगोपितम्। किंचिदाश्वासिताऽतिष्ठद्दरिद्रेव निधानिनी ॥ ५ ॥ तस्मिन्नेव दिने सैषा तस्मिञ्छुद्धान्तमण्डपे । अर्धरात्रे परिजने सर्वस्मिन्निद्रया हृते ॥ ६ ॥ ज्ञप्तिं भगवतीं देवीं शुद्धध्यानमहाधिया । दुःखादाह्वाययामास सोवाच समुपेत्य ताम् ॥ ७ ॥ किं स्मृतास्मि त्वया वत्से धत्से किमिति शोकिताम् । संसारभ्रान्तयो भान्ति मृगतृष्णाम्बुवत्तधा ॥ ८ ॥ लीलोवाच । क्व ममावस्थितो भर्ता किं करोत्यथ कीदृशः । समीपं नय मां तस्य नैका शक्नोमि जीवितुम् ॥ ९ ॥ ३.१७.१–३: श्री सरस्वती जी बोलीं —बेटी, इस फूलों के ढेर से अपने पति के शरीर को ढँककर यहीं रख दो। तुम्हें अपना ...